SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ maina ११३० न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः अब]ग्निवायुभूम्यादि सर्व सर्वात्मकमेकैकम् , अत आह-सर्वो भेदेन घटः प्रत्येकमित्यर्थः, भवतु सर्व सर्वात्मकम् , को दोष इति चेदुच्यन्ते दोषाः-तथा च प्रत्यक्षादिविरोधाः-घटादीनां प्रत्यक्षमसर्वात्मकत्वात् प्रत्यक्षविरोधः, प्रत्यक्षपूर्वकत्वादनुमानादीनामनुमानादिविरोधा योज्याः, [व्यक्ता]व्यक्तात्मकेत्यादि, ते च प्रत्यक्षादिविरोधा व्यक्तादिभावेषु व्यक्तं शब्दपृथिव्यादि गवादि घटादि वा, एकैकमस्त्येकशब्दानां त्रयाणा। मेकत्वमन्यत्वं वा स्यादित्यादिप्रक्रान्तन्यायेनास्तित्वस्वतत्त्वमेकत्व [स्वतत्त्वं ] शब्दस्वतत्त्वं चेत्यापाद्यं यावत्सर्वसर्वात्मकत्वम्, पृथिव्यादीनामपि प्रत्येकं गवादीनां नेयम् , तदभ्युपगमे प्रत्यक्षादिविरोधाः, अव्यक्ते सत्त्वरजस्तमसाञ्च प्रत्येकमस्त्येकाव्यक्तानां त्रयाणामित्यादि अस्त्येकसत्त्वानामित्यादि । [अस्त्येकरजसामित्यादि ] अस्त्येक[त]मसामित्यादि, तथा द्रव्यगुणकर्मणामिति, तथोत्पादस्थितिभङ्गानाम् , तथा साधनस्य तद्भेदानां प्रतिज्ञादीनां दूषणस्य तद्भेदानाञ्च स्ववचनविरोधाद्यसिद्धयादिसाध्यधर्मवैकल्यादीनामपि 10 प्रोक्तन्यायेन प्रत्यक्षादिविरोधा आपाद्याः, व्यापित्वादस्य न्यायस्येति । एते चेन्नेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम् , तथा च सर्वे भावाः, यत्र घटस्यावृत्तिस्तत्र सर्वभावानामवृत्तिरेव, अस्तित्वैकत्वयोः घटानर्थान्तरत्वात् , अथाप्यर्थान्तरं ततो घटस्य सामान्यविशेषौ न स्त इति निःसामान्यत्वान्निर्विशेषत्वाच्चासत्त्वमेव स्यात् । (एते चेदिति) एते चेन्नेष्यन्ते घटो नास्तीति प्रतिपत्तव्यम्-अर्थतान् प्रत्यक्षविरोधादिदोषान् 15 नैवेच्छसि तदा घटो नास्तीत्येतत् प्रतिपद्यस्वेति स्वमतशून्यताऽऽपादनम् , तथा च सर्वे भावा इत्यतिदेशो wwwmummmww कावच्छेदेन सर्वात्मकं भवेदिति भावः । आपाद्यमेवाह-सर्वो भेदेनेति । प्रत्येकावच्छेदेन सर्वसर्वात्मकतायामनिष्टप्रसञ्जनमाहतथा चेति, प्रतिनियतधर्मपुरस्कारेणैव घटादीनां प्रत्यक्षसिद्धत्वात्तस्य सर्वात्मकताभ्युपगमः प्रत्यक्षतो विरुद्ध इति भावः । सर्वात्मकताप्रत्यक्षवैधुर्येण ततस्तद्व्याप्यहेतुग्रहासम्भवादसर्वात्मकत्वव्याप्यहेतुमत्ताज्ञानजनितानुमानेन प्रतिनियतधर्मावच्छिन्नघटस्यैव सिद्धेस्तस्य सवोत्मकताभ्युपगमोऽनुमानेन विरुद्ध इत्याह-प्रत्यक्षपूर्वकत्वादिति, सहचारसङ्केतादिग्राहकप्रत्यक्षप्रयोजकत्वा20 दित्यर्थः । घटादेः सर्वात्मकत्वे यथा प्रत्यक्षादिविरोधा आपादितास्तथा सर्वसर्वात्मकत्वाभ्युपगन्तृसांख्यदर्शनप्रसिद्धव्यक्ताव्यक्तपदार्थे ध्वपि प्रत्येकावच्छेदेन प्रोक्तन्यायेन सर्वात्मकतामापाद्य प्रत्यक्षादिविरोधा वाच्या इत्याह-व्यक्ताव्यक्तात्मकेत्यादीति । महदादिभावाः प्रधानाद्व्यज्यमानत्वाद्व्यक्ताः प्रधानन्तु सत्त्वरजस्तमसां साम्यावस्थात्मकं न केनापि व्यज्यमानमित्यव्यक्तम्, शब्दपृथिव्यादयः स्फुटतरं व्यक्ताः प्रत्यक्षवेद्यत्वादिति तानेवाऽऽदाय सर्वात्मकतामापाद्य प्रत्यक्षादिविरोधान् प्रदर्शयति-ते चेति । व्यक्ताः शब्दपृथिव्यादिगवादिघटादयः, तत्र प्रत्येक शब्दादौ यदस्त्येको घट इत्यत्र घटशब्दस्थाने शब्दशब्दं प्रक्षिप्य यदस्त्येकः शब्दः 25 तस्य सत्त्वैकत्वशब्दत्वानामेकत्वान्यत्वयोः का युक्तिरिति विचारे तेषामेकत्वं चेदिष्यते ततो यत्रैकत्वं तत्रास्तित्वमपि निष्कलं खेनैव तत्त्वेन भवितुमर्हतीत्यादिग्रन्थः सर्वभावेषु शब्दत्वस्य शब्दे सर्वभावस्य चापादनद्वारेण सर्वसर्वात्मकत्वप्रसञ्जको वक्तव्यः, तथैव तदभ्युपगमे प्रत्यक्षादिविरोधापादनग्रन्थश्च, सत्त्वरजस्तमसां साम्यावस्थात्मकेऽव्यक्तेऽपि प्रत्येकं सत्त्वादौ तथैवाव्यक्तेऽपि सर्वसर्वात्मकत्वमापाद्य प्रत्यक्षादिविरोधो वाच्य इत्याह-व्यक्तमिति । एवं द्रव्यगुणकर्मसूत्पादस्थितिभङ्गेषु साधने तद्भेदेषु प्रतिज्ञाहेत्वादिषु दूषणे तद्भेदेषु स्ववचनविरोधादिषु चैकत्वसत्त्वद्रव्यत्वादितत्तद्धर्माणामेकत्वे सर्वसर्वात्मकत्वमापाद्य प्रत्यक्षादि30 विरोधा वाच्याः, उक्तन्यायस्य सर्वत्र व्यापकत्वादित्याह-तथा द्रव्येति । उक्तदोषानभ्युपगमे शून्यतैव फलतीत्याह-एते चेन्नेष्यन्त इति, उक्तदोषा यदि नेष्यन्त इत्यर्थः । व्याकरोति-अथैतानिति । प्रत्यक्षादिविरोधदूरीकरणाय सर्वसर्वात्मकत्वं नाभ्युपेयम् , तदभावाय चास्तित्वैकत्वघटत्वानामेकत्वेऽपि खेनैव तत्त्वेन भवितुमर्हतीत्यंशो नाभ्युपेयः, एवञ्च घटादौ तेषामवृत्तेनिःखभावतया शून्यत्वमेव सेत्स्यतीत्याशयेनाह-तदा घट इति । यथा घटस्य नास्तित्वं तथा सर्वभावानामपी Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy