________________
mmmmmmmmmmmmmmmm
घटत्वस्यैकत्वास्तित्वस्वतत्त्वता] द्वादशारनयचक्रम्
यत्रास्तित्वमित्यादि, पूर्ववत् साधनं कृत्वेत्यतिदेशात्-यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम् , अनर्थान्तर[त्वात्] यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्त्वस्येति तदेकत्वेनोपनय इति विशेषः-तद्यथा-एकत्वस्वतत्त्वञ्च सर्वत्रैवैकैकस्मिन्सर्वस्य प्रत्येकमेकैकमस्त्येकत्वादिति, साधनद्वयेऽप्यस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः पटादय इत्यनन्यत्वापादनं तुल्यम् , पूर्वत्रैकश्च घटः तदनन्यदस्तित्वमिति, द्वितीये संश्च घटस्तदनन्यदेकत्वमिति, पूर्वस्मिन् । साधने घटः सर्वं तदेकत्वं तच्च कतमदिति प्रश्ने व्याकरणं-तत्सतः घटादव्यतिरिक्तमिति, घट एव सर्वसिद्धिरिति' परस्मिंस्तु तञ्च कतमदिति प्रश्ने सर्वभावा इति व्याकरणमिति विशेषोऽस्मात्तस्य, घटे सर्वभावा एकत्वाव्यतिरिक्ताः सिद्ध्यन्तीत्यर्थः, एवं तावदस्तित्वैकत्वाभ्यामनन्यत्वापादनेन घटस्य सर्वत्वं घटे सर्वभावसिद्धिरिति दोषाः। किश्चान्यत्
10 तथा यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम् , अनर्थान्तरत्वात् यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, यथा घट इव घटस्वतत्त्वस्येत्यत एकैको घटादिरबादिः सर्वो भेदेन सर्वात्मकः, तथा च प्रत्यक्षादिविरोधाः व्यक्ताव्यक्तात्मकभावानां द्रव्यगुणकर्मणामुत्पादस्थितिभङ्गानां साधनदूषणत दानाञ्चापाद्याः।
तथा यत्र घटत्वमित्यादि, इदानीं घटत्वेऽस्तित्वैकत्वयोः खतत्त्वापादनं तदेव साधनं सभा- 15 वनम् , उपसंहारः-अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरेकैको घटादि:-घटो रथः पट इत्यादिः, अबादिरिति
mwww
www
wwwM
अयमप्यविनाभावोऽस्तित्वैकत्वयोरनन्तरत्वप्रयुक्त इति हेतुमाह-अनर्थान्तरत्वादिति। अस्तित्वे एकत्वानर्थान्तरत्वादेकत्वखतत्त्वताऽस्तीति दर्शयति-यत्र यस्येति, अस्तित्वे एकत्वस्यत्यर्थः। पूर्वत्रास्तित्ववतत्त्वं च सर्वभावा इत्युक्तमत्र तु विशेषोऽस्तीत्याहएकत्वस्वतत्त्वञ्चेति, प्रत्येकं भावेषु एकत्वखतत्त्वमस्ति, एकत्ववन्तः सर्वे भावाः प्रत्येकावच्छेदेनेति भावः । प्रोक्तसाधनद्वयादेकत्वेन रूपेणास्तित्वेन रूपेण सर्वभावानामनन्यताऽऽपाद्यत इति फलितार्थमाह-साधनद्वय इति। तत्कथमित्यत्राह-20 पर्वत्रेति, प्रथमे एकत्वाधिकरणं हि घटस्तत्रैकत्वानन्यदस्तित्वस्वतत्वमस्ति, द्वितीये चास्तित्वाधिकरणं घटस्तत्रास्तित्वानन्यदेकत्वखतत्त्वमस्तीति भावः। घट एव सर्व, तच्च सर्वत्वमेकत्वरूपम् , तदप्येकत्वमभेदेनास्तित्वावच्छिन्नघटनिरूपिताव्यतिरिक्तरूपं प्रथमे साधने, द्वितीये साधने त्वस्तित्वाधिकरणे घटे एकत्वनिरूपिताव्यतिरेकावच्छिन्नसर्वभावसत्त्वरूपं पूर्वत्रैकत्वाधिकरणस्यास्तित्वाधिकरणत्वप्रतिज्ञानात्, परत्रास्तित्वाधिकरणनिरूपितैकैकस्मिन्नेकत्वस्वतत्त्वप्रतिज्ञानाच्चति निरूपयति-पूर्वस्मिन् साधन इति । एकत्वाभिन्नघटाभिन्नास्तित्वस्याभेदेन सर्वघटपटादिषु सत्त्वान्निरवशेषकत्वसत्त्वाच्चैकत्वानान्तरत्वात् घटपटादीनां प्रत्येकं सर्वत्वं 25 सिद्ध्यतीति भावः । परसाधनभावार्थमाह-घटे सर्वभावा इति, अत्र चास्तित्वाभिन्नघटाभिन्नैकत्वस्यामेदेन घटादौ सत्त्वात् तत्र च निरवशेषास्तित्वस्वतत्त्वस्य सत्वाच्च घटे सर्वभावसिद्धिः, पूर्वेण घटः सर्वं द्वितीयेन सर्वभावात्मकञ्च सिद्ध्यतीति सर्वसर्वात्मकत्वप्रसङ्ग आपादितः । उपसंहरति-एवं तावदिति । अथ घटत्वेऽस्तित्वस्यैकत्वस्य च स्वतत्त्वतामैकपद्येन साधयति-तथा यत्रेति । सङ्गतिमाह-इदानी मिति, अवसरसङ्गतिप्रयुक्तसम्प्राप्तनिरूपणकालावच्छेदेनेत्यर्थः । साधनेनानेन सभावनेन पर्यवसन्नमभिप्रेयं प्रकाशयति-अतो घटादिति, उक्तसाधनापादितयोरस्तित्वैकत्वयोर्घटनिरूपितानन्यतावतोः सतोर्निखिलं वस्तु घटाद्यबादिप्रत्ये- 30
१ सि.क्ष. छा. डे, तत्सतोपटाद०। २ सि.क्ष. छा. डे. °पूर्वस्मिस्तु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org