________________
wwwmwwm
११२८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः र्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, घट इव घटस्वतत्त्वस्य, ततश्चास्तित्वस्वतत्त्वं च सर्वभावा इति सर्वभावानां घटत्वप्रसङ्गः।
(अथेति) अथान्तरेणापीतरेतरयोगं-विनापि वस्तूनामन्योन्यापेक्षया घटसिद्धे/जमस्ति, कुतः ? स्वत एव सिद्ध्यति-स्वयमेव घट इति चेन्मन्यसे अत्र ब्रूमः-यद्यस्ति घट इत्यादि, अस्तीत्युक्तत्वात् सन् 5 घटः, स चैको द्रव्यम् , एकवचनोक्तत्वात् , ततस्तस्य घटस्य सत्त्वैकत्वघटत्वानां का युक्तिरिति विचारे
तदविनाभावो युक्तिः, सा तु तेषां त्रयाणामेकत्वेऽन्यत्वे वा न सम्भवति, तत्कथमिति-यदस्त्येको घट इति त्रयाणामर्थानामस्त्येकघटशब्दवाच्यानामेकत्वञ्चेदिष्यते ततो यत्रैकत्वमित्यादि तदोषप्रदर्शनम् , यत्रैकत्वमस्ति तत्रास्तित्वमपि निष्कलं-निरवशेषं स्वेनैव तत्त्वेन भवितुमर्हतीति प्रतिजानीमहे तावत् , कुतः ?
अनर्थान्तरत्वात् , यत्र यस्येत्याद्यन्वयप्रदर्शनं हेतोः साध्येन, तत्र तस्येत्याद्युपनयो निष्कलमेव स्वतत्त्वं 10 भवतीति साध्यार्थः, उदाहरणं-घट इव घटस्वतत्त्वस्येति, घटस्वतत्त्वं यथा घटे निरवशेषमस्ति तदनान्तरत्वात् तथैकत्वेऽस्तित्वस्वतत्त्वं निरवशेषमिति, ततश्चास्तित्वस्वतत्त्वं च सर्वभावा इति कृत्वा सर्वभावानां घटत्वप्रसङ्गः, यदस्ति तद्भुटाव्यतिरेकात् सर्वमेव घट' इत्युपसंहारो वक्ष्यते ।
तथा
यत्रास्तित्वमिति पूर्ववत्साधनं कृत्वा एकत्वस्वतत्त्वञ्च सर्वत्रैवैकैकस्मिन् , सर्वस्य प्रत्येक15 मस्त्येकत्वादिति साधनद्वयेऽप्यस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः पटादय इत्यनन्यत्वापादनं
तुल्यम् , पूर्वत्र घटः सर्व तदेकत्वं सतः घटाव्यतिरिक्तम्, परस्मिंस्तु घट एव सर्व तदेकत्वं . सर्वभावा इति विशेषोऽस्मात्तस्य ।
पेक्षया विनापि खत एव सिद्ध्यतीत्याशङ्कते-विनापीति, अन्योऽन्यापेक्षया घटसिद्धेर्बीज नास्त्येवोक्तरीत्या अन्योन्यापेक्षा विनापि घटसिद्धे/जं कुतः स्यायेनान्योन्यापेक्षां विनापि खत एव घटसिद्धिर्मन्येतेति भावः । स्वत एव घटोऽस्तीत्यत्राह20 यद्यस्तीति । घटादिसिद्धींजमस्ति घट इत्यनुभव एव वक्तव्यं तथा सति सर्वभावानां घटत्वप्रसङ्ग एकस्यापि घटस्य बहुत्वप्रसङ्गश्चेति दर्शयितुमाह-अस्तीत्युक्तत्वादिति । अस्तीत्युक्तत्वात् घटे सत्त्वं प्रतीयते घट इत्येकवचनान्ततयोक्तत्वाद्धट एकत्वं प्रतीयते घट इत्युक्तत्वाद्धटत्वमपि, एवञ्च घटस्यास्तित्वैकत्वघटत्वानि खभावा इति प्राप्तम् , तेषां त्रयाणां स्वभावानामेकत्वान्यत्वविचारे का युक्तिरिति चेदविनाभाव एव युक्तिरिति भावः । सा युक्तिरविनाभावस्वरूपा नैकत्वेऽन्यत्वे वा तेषां सम्भवति, तत्रैकत्वपक्षेऽसम्भवं दर्शयति-यदस्त्येक इति । प्रतिज्ञामाह-यत्रैकत्वमस्तीति, एकत्वाधिकरणं खेनैव तत्त्वेनास्तित्वस्यापि परिपूर्ण25 मधिकरणं भवति नांशतः, तत्रास्तित्वस्यैकत्वं स्वीयमेव तत्त्वं विज्ञेयम् , स्वकीययावत्स्वरूपपुरस्कारेणास्तित्वं वर्तत इति भावः ।
अयमविनाभावः किंप्रयुक्त इत्यत्राह-अनर्थान्तरत्वादिति, एकत्वास्तित्वयोरनान्तरत्वात् , यतस्तयोरेकत्वं मन्यत इति भावः । एकत्वेऽस्तित्वस्वतत्त्वसाधकहेतोरन्वयं दर्शयति-यत्र यस्येत्यादीति, यथा यत्र घटे यस्य घटखतत्त्वस्यानर्थान्तरत्वमस्ति तत्र घटे घटस्वतत्त्वमपि परिपूर्णमेवास्ति, एकत्वे चास्तित्वानन्तरत्वमस्ति तस्मादस्तित्वस्वतत्त्वमपि निरवशेषमस्त्येवेति
भावः। सर्वभावेषु चास्तित्वखतत्त्वमस्ति तस्मात्सर्वभावानां घटत्वप्रसङ्ग इत्याह-ततश्चेति । अस्तित्वखतत्त्वता यथैकत्वे तथा 30 सर्वभावेषु पटादिष्वप्यस्ति सर्वभावानामस्तित्वात् , एकत्वाधिकरणे चास्तित्वस्य निरवशेषतया खतत्त्वेन सत्त्वादेव सर्वभावानां
घटत्वप्रसङ्गात् सर्व घट एवेति भावः । अत एव घट एव सर्वं, अस्तित्वाव्यतिरेकाद्धटत्वस्य, तदधुना यद्यपि न निरूपितं तथाप्यग्रे तथोपसंहियमाणत्वात्तथोक्तमित्याह-यदस्तीति । तदेवमेकत्वस्यास्तित्वस्वतत्त्वता प्रतिपाद्याथास्तित्वस्यैकत्वस्वतत्त्वतामाहयत्रास्तित्वमिति । पूर्ववदत्राप्यस्तित्वाधिकरणे एकत्वमपि स्वीययावत्तत्त्वपुरस्कारेण वर्तत इति दर्शयति-पू
१ सि.क्ष. धा. डे. अथान्तरेणापांतरेतर० । २ छा. किंयुक्तिरयुक्तिरिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org