________________
mmmmmmmmm
अयुक्तिनिरूपणम्] द्वादशारनयचक्रम्
११२७ मिहापि स एव न्यायो यावत् परयोरपीति, अयमपि चेत्यादि, एषोऽपि स एव न्यायः 'किमघटे घटत्वमिति पूर्वोपक्रमः, अघटे घटाकरणप्रत्ययानाधानप्रदर्शनस्य सुकरत्वात् शेषं पूर्ववत्, स्ववचनविरोधोद्भावनश्चकथं त्वयोच्यते मन्यते च घट इति, शेषं तथैव नेयं घटाघटार्थविशेषणं यावत् घटप्रत्ययवदिति स एव गमः, एवमघटत्वेऽपीत्यतिदेशोऽपि पूर्ववदेव, तस्य दिशं दर्शयति-नाघटेऽघटत्वमित्यादिना स्वयमेव ग्रन्थकारो यावत्कारेण यावद्भूटत्ववदनुसतव्यमिति, गतत्वान्यायस्य । . उभयोभयपक्षस्तु प्रत्येकमभिहितैर्दोषैर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः, विप्रतिषेधाच्च, एवं तावन्न स्वतो न परतो नोभयतश्च घटाघटौ सिद्ध्यतः, सिद्ध्यत्यहेतुतश्चेत् खपुष्पाद्यपि स्यात् , एवं सर्वार्थेष्वपीत्यसिद्धिरेवेति।
(उभयेति) उभयोभयपक्षस्तूभयदोषापत्तेरिति समानपूर्वोत्तरपक्षव्याख्या पूर्वातीतग्रन्थेन गतार्था, विप्रतिषेधाञ्चेत्यपि तथैव, स्यान्मतं स्वपरोभयवृत्तिहेतुमार्गेणासिद्धावप्यहेतुतः सिद्धिरिति तच्च 10 नाहेतु त], खपुष्पवदसिद्धेः, तत्रापि सिद्ध्यत्यहेतुतश्चेत् , खपुष्पाद्यपि स्यादिति पूर्ववदनिष्टापादनं नेयम् , एवं सर्वार्थेष्वपीति, घटासिद्ध्या पटरथकटादिनिरपेक्षसिद्धाभिमतसर्वार्थासिद्धिरित्यतिदेशः, इत्यसिद्धिरेवेति यथाप्रतिज्ञमसिद्धिहेतुः सिद्ध इत्युपसंहारः। - अनन्तरोक्तायुक्तिहेतुसिद्धिरधुनोच्यते तत्सम्बन्धप्रदर्शनार्थं तावदाह
अथान्तरेणापीतरेतरयोगं स्वत एव सिद्ध्यति घट इति चेदत्र ब्रूमः, यद्यस्ति घटस्त-1B तस्तस्य सत्त्वैकत्वघटत्वानामेकत्वान्यत्वयोः का युक्तिरिति विचारे तेषामेकत्वञ्चेदिष्यते ततो यत्रैकत्वं तत्रास्तित्वमपि निष्कलं स्वेनैव तत्त्वेन भवितुमर्हति, अनर्थान्तरत्वात् , यत्र यस्यानघटत्वे किमुभयो घटो भवति ? उत स्वाश्रये घट एव वर्तमान उभयो घटो भवतीत्येषोऽपि विचार्य इत्यतिदिशति-एषोऽपीति । अघटे विद्यमानं घटत्वं घटस्य घटतां घट इति बुद्धिञ्च कथं कुर्यात् , ततोऽन्यत्र वृत्तत्वादिति प्रथमविकल्पे दोषः, घट एव विद्यमानस्य घटत्वस्य तथात्वेऽपि घटादन्येनाघटेनेतरेतरयोगार्थ कल्पितेन न प्रयोजनं तत्प्रत्ययेन च, स्वाधारबलादेव तत्प्रयो-20 जननिवृत्तेः, घटेऽपि घटत्वतत्प्रत्ययानाधानेऽघटेऽपि घटत्वतत्प्रत्ययानाधानप्रसङ्ग इष्टौ च तत्र तौ, घटाघटयोः परस्परापेक्षसिद्धोंके दृष्टत्वादित्यादि प्रागिव भाव्यमित्याह-किमघट इति । घटस्य घटत्वतत्प्रत्ययानाधानाभ्युपगमे घटत्वेनाभिमतोऽयं कथं घटः स्यात् तत्प्रत्ययश्च, मन्यत उच्यते च घट इति ववचनविरोध इत्याह-स्ववचनेति । पूर्वग्रन्थमेव न्यायस्य तुल्यत्वादतिदिशति-शेषमिति । एवमेव यद्यघटेऽघटत्वमित्यादिना घटत्वस्य घटेऽघटे द्वये वाऽसिद्धयुद्भावको ग्रन्थो भाव्य इति मूलकार एवातिदिशतीत्याह-एवमघटत्वेऽपीति । घटेऽघटे च घटत्वाघटत्वपक्षोऽपि प्रत्येकपक्षसम्भविदोषकलङ्ककलङ्कित एवेत्याह-25 उभयोभयपक्षस्त्विति । पूर्वोदितदोषमेवातिदिशति-उभयेति । घटाघटत्वयोरेकत्र विरोधादवृत्तिरपि तथैव भाव्येत्याहविप्रतिषेधाच्चेति । घटाघटत्वयोरहेतुतः सिद्धिपक्षमपि निराकरोति-स्यान्मतमिति । हेतुं विना न किमपि सिद्ध्यति खपुष्पवत् , यदि सिद्ध्येत् हेतुं विनाऽपि तर्हि खपुष्पमपि सिद्ध्येदविशेषादित्याह-तत्रापीति । तदेवं न खतो नापि परतो न द्वाभ्यां नाप्यहेतुतो घटाद्यसिद्धिवत् निरपेक्षपटक गदिसर्वपदार्थानामप्यसिद्धिर्विज्ञेयेत्युपसंहरति-एवमिति । तदेवं न स्वभावो घटाद्यसिद्धेरिति संसाध्यायुक्तिहेतुनापि तदसिद्धिं दर्शयितुमाह-अथान्तरेणापीति । घटादिवस्तूनामन्योन्या- 30
१ सि.क्ष. छा. डे. किन्त्वघटे ।
द्वा० न०१७ (१४२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org..