________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
अथाघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे घटत्वस्याभावात् प्रतिद्वन्द्वित्वाच्चाघटे कथं घटत्वं स्यात्, ह्रस्वदीर्घत्ववत्, अघटस्य च घटत्वे घट एव सः प्राप्तः तस्मात् को घटो नामघटादन्य इति घटाभावः, घटत्वाभावात्मकत्वादघटत्वस्य, अघटाभावाच्च नास्ति घटत्वम्, घटत्वास्याघटे वृत्ते घटत्वावष्टब्धेऽघटत्वानवकाशात्, अघटाभावे व घटत्वं वर्त्तेत ? 5 तथापि पुनर्न सिद्ध्यति घटत्वं स्वात्मनि परत्र वा वृत्त्यसम्भवात् ।
(अथेति) अथाघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे पटादौ घटत्वास्याभावात् प्रतिद्वन्द्वित्वाच्चविरोधिन्यघटे घटत्वं विरोधि कथं स्यात् ? विरोधिनो: सहाभावे दृष्टान्तः - हस्वदीर्घत्ववत्, अघटस्य च घटत्वे-अघटे चेद्वर्त्तते घटत्वं घट एव सोऽघटः संवृत्तः, तस्मात् को घटो नामाघटादन्य इति घटाभावः, कस्मात् ? घटत्वाभावात्मकत्वादघटत्वस्येत्यादि पूर्वोक्तहस्वदीर्घत्ववदिहापि नेयम् ।
११२६
10
स्यान्मतमुभयत्रेति तत्—
न द्वये, उक्तन्यायात् द्वयोरन्यतरत्राप्यसिद्धस्य कुत उभयत्र सिद्धिः स्वपरयोः, प्रतिद्वन्द्वत्वाद्वा तयोः सहवृत्तिरयुक्ता, अयमपि च न्यायश्चिन्त्यः किमघटे घटत्वं वर्त्तमानमुभयत्र भावं लभते ? उत घट एव वर्त्तमानमिति, यद्यघटे विद्यमानमुभयत्र भावं लभते ततो वर्त्तमानं घटत्वं घटस्य घटत्वं कथं कुर्यात्, तद्बुद्धिञ्चादध्यात् ? ततोऽन्यत्र वृत्तत्त्वात् ह्रस्वादीर्घ15 प्रत्ययवत्, अथ घट एव घटत्ववृत्तिरिष्यते ततो घट एव वर्त्तमानं घटत्वं घटतां करोति तत्प्रत्ययञ्चाधत्ते तत्रेतीष्यते किन्तु अघटेन घटेतरेणेतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारबलादेव तत्सिद्धेः, अथ तथापि तत्र घटतां न करोति न एतत्प्रत्ययश्चादधातीति मन्यसे ततः कथं त्वयोच्यते मन्यते च घट इति ततोऽन्यत्र वृत्तत्वात् हस्वादीर्घत्वप्रत्ययवत् अथोच्येताघटे घटतां नैव करोति तत्प्रत्ययमपि नादधातीति, तदपि न, घटाघटयोः परस्परापेक्ष20 सिद्धेर्लोके दृष्टत्वात् तद्यथा - सिद्धार्थकेत्यादि मेरुपर्यन्तानामितरेतरापेक्षघटाघटानां दृष्टानामघटे वृत्तस्य घटत्वस्य घटाकरणघटप्रत्ययानाधानाभ्युपगमेऽत्यन्तघटाभाव एव प्रसक्तः, नैव घटो भवेत् घटाकरणात् ह्रस्वत्ववत् तत्प्रत्ययोऽपि न भवेत्, घटप्रत्ययानाधानात्, हस्वप्रत्ययवदिति, एवं न घटत्वेऽपि नाघटेऽघटत्वमित्यादि यावद्घटत्ववदनुसर्त्तव्यम् ।
"
( न द्वय इति ) न द्वये यथा घट इत्यादि ह्रस्वदीर्घयोरिव घटाघटयोः प्रत्येकमसिद्धेर्भावितमेव
25 मूलम् - स्यान्मतमिति । अघटे घटत्वं निरस्यति - अथाघटेऽपीति । अघटे घटत्वस्य प्रत्यक्षतो विरोधान्न सम्भवतीत्याहप्रत्यक्षत एवेति । घटाघटत्वयोः विरोधित्वेन परस्परपरिहारस्थितिकत्वात् अघटे घटत्वं कथं स्यात्, यथा हस्खे दीर्घत्वस्य नास्ति वृत्तिता तद्वदित्याह - प्रतिद्वन्द्वित्वाच्चेति । तथापि तद्वृत्तित्वाङ्गीकारे घटत्वावष्टब्धस्य घटत्वादघटोऽपि घट एव स्यात्, तथा चाघटादन्यस्य घटस्याभावात् कस्तदन्यो घट इति घटाभावः प्रसक्तः, अघटस्य घटत्वाभावात्मकत्वादित्याह - अघटस्य चेति । भवतु घटाघटोभयविषयं घटत्वमित्याशङ्कायामाह - न द्वय इति । प्रत्येकवृत्तिन्यायमुक्तं स्मारयति - यथा घट इत्यादीति । 30 यथा न घटे घटत्वं परायत्तत्वादिना तथाघटेऽपि न घटत्वमित्यादिना च ह्रस्वदीर्घयोरिव प्रत्येकमसिद्धिर्भाविता, एवं स्वपरयोरपि भावनीयाऽसिद्धिः, प्रत्येकमसिद्धसत उभयत्र सिद्धसत्त्वायोगादिति भावः । इतरेतरयोगरूपोभयत्र वृत्तिर्घटादन्यत्राघटे वर्त्तमाने
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org