________________
mammam
घटादिस्वरूपासिद्धिः] द्वादशारनयचक्रम्
११२५ घटत्वस्य, सोऽप्येवमघटो न भवति, एतद्धटायत्तत्वादघटत्वस्य, तयोः परस्परायत्तवृत्तित्वात् कदा घटः सेत्स्यति प्रत्येकव्यत्यात्मा ? यदाऽसावघटो भवेत्, अघटश्च घटसिद्धौ सेत्स्यतीतीतरेतराश्रयत्वादसिद्धिः।
(एवमिति) एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति, तद्व्याचष्टे-न घटे घटत्वम्, परायत्तत्वात् घटस्येत्यादि यो दीर्घत्वप्रतिषेधे न्यायः स एवात्रापि दीर्घस्थाने घटं कृत्वा हस्वस्थाने पटाद्यघटं घटान्तरं । च कृत्वा, घट एवाघटो दृष्टः, इतरस्य घटस्येतरघटत्वाभावात् देशकालाकारादिभेदाच्च परस्परतः, तस्मात् परायत्तत्वं-घटान्तरे पटादौ वाऽऽयत्तं, यदि हि स्वविषयमेवैतत् स्यात् घटो न घटोऽपि स्यात् , कथं पुनरघटोऽपि भवतीत्यत आह-भवत्वितरेतरः तस्य चाघटत्वे एवम्-तस्य घटस्यैवाघटत्वे यथाऽसावघटः तथाऽन्येऽपि घटा अघटा एवेति घटाभावः, पटादयस्त्वघटा एव सिद्धाः, तस्य-घटस्याभावेऽघटाभावः, कस्मात् ? घटापेक्षत्वादघटत्वस्य, सोऽप्येवमघटो न भवतीत्यघटः, तस्मादन्यो घटः पटो वा, 10 एतद्भूटत्वायत्तत्वादघटत्वस्य, परस्परायत्तवृत्तित्वात् घटत्वाघटत्वयोः, तद्दर्शयति-कदा घटः सेत्स्यति प्रत्येकव्यक्त्यात्मा घटान्तरव्यावृत्तविविक्तस्वरूपः ? यदासावघट इत्यादि पूर्ववदन्थो नेयो दीर्घह्रस्वयोरिव घटाघटयोर्यावदितरेतराश्रयत्वादसिद्धिः, एवं तावत् घटे नास्ति घटत्वम् ।
स्यान्मतमेवं तर्हि देर्शितदिशाऽघट इत्याद्यधुना व्याख्यातदिशाऽघट' एव घटत्वं वर्त्तते तथा दृष्टत्वादिति मन्यसे चेत्-अत्रापि ब्रूमः
15
त्राह-न घट इति। स एव दीर्घत्वप्रतिषेधग्रन्थं न तावद्धटे स्वात्मनि घटत्वं वर्तते परायत्तत्वात् , घटत्वं ह्यघटव्यावृत्तिरूपमतोऽ पेक्षतेऽघटं घटत्वम्, यत् स्वात्मन्यसिद्धं सिद्ध्येत्तत् कथं परतः? इति दीर्घस्थाने घटं प्रक्षिप्य ह्रस्वस्थाने चाघटं पटादि घटान्तर वा संयोज्य गमनीयमिति भावः । ननु कथमघटो घटान्तरमित्यत्राह-घट एवाघटो दृष्ट इति, न ह्यपरघटोऽप्येतद्धट एव, एतद्धटवृत्तित्वविशिष्टघटत्वस्य तत्राभावात् , घटघटान्तरयोश्च भिन्नदेशवृत्तित्वात् , भिन्नकालवृत्तित्वात् , भिन्नाकारादित्वाच परस्परं भेदादिति भावः। तस्मात् परायत्तत्वमित्याह-तस्मादिति । नन्वात्मायत्तमेव घटे घटत्वं न परायत्तम् , नैवम् , अघट-20 स्याघटत्वं न स्यादपरायत्तत्वात् , सोपि घट एव स्यात् , यथा हि घटोऽघटनिरपेक्षो घटस्तथाऽघटोऽपि घटनिरपेक्षः खत एव घटः स्यात् , घटवत्, न तु भवति, तस्याघटत्वेष्टेः, अथापि घट एवेष्यते घटस्य घटत्वं न स्यात् , एवञ्च घटोऽघटः स्यादित्याशयेनाह-यदि हीति । कथं घटस्या घटत्वमित्यत्राह-भवत्विति, अघटे घटत्वस्य घटेऽघटत्वस्य योगे भवतीति भावः। ततः किमित्यत्राह-तस्य चेति, एवं सति सर्वेषां घटानामभावः स्यात्, एतद्धटस्याघटत्ववदितरेषामपि घटानामघटत्वादिति भावः । अघटो हि पटादिरपि घटोऽपि, पटादौ घटाभावस्तु सिद्ध एव, किन्तु घटस्याभावः स्यात् , घटो ह्यघटमपेक्ष्य घट उच्यते स 25 चेदघटो न भवति कमन्यमपेक्ष्य घटो घटः स्यादिति घटाभावः, एवञ्च घटस्य घटत्वाभावात् घटापेक्षाघटस्याऽप्यभाव इत्याहतस्येति । घटादन्योऽघटः पटो घटो वेत्याह-तस्मादन्य इति। पटघटान्तरयोरघटत्वमेतद्धटापेक्षं घटत्वाघटत्वयोः परस्परायत्तवृत्तित्वादित्याह-एतद्धटत्वेति । कदा घटः सेत्स्यति सजातीयविजातीयव्यावृत्तः ? यदाऽसावघटो भवेत् , अस्याघटत्वच्च घटस्य घटत्वसिद्धौ सेत्स्यतीति परस्पराश्रयत्वान्न सिद्धिः परस्परप्रतिबद्धवाताहतनौद्वयवदित्याह-कदा घट इति । इत्थं नास्ति घटे घटत्वमित्युपसंहरति-एवं तावदिति । नन्वपरापेक्षत्वात् घटस्याघटनिरपेक्षघटत्ववदघटोऽपि घटनिरपेक्षो घटः स्यादित्युक्त-30 दिशाऽघट एव घटत्वं वर्तते, अघटायत्तं घटत्वमपि घटस्य भवितुमर्हति, तथा चाघटे घटत्वमघटत्वञ्च स्यादित्यवतारयति
१ सि. क्ष. छा. डे. नाघटोऽपि । २ सि. क्ष. छा. डे. भावोऽघटा०। ३ सि. क्ष. छा. डे. दर्शितदिगघट० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org