________________
११२४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः ह्रस्वादीनां दीर्घाणाश्च दृष्टानां हस्खे वृत्तस्य दीर्घत्वस्य दीर्घाकरणदीर्घप्रत्ययानाधानाभ्युपगमेऽत्यन्तदीर्घाभाव एव प्रसक्तः, अत्रानिष्टापादनसाधनं-नैव दीर्घमित्यादि गतार्थं यावद्भस्वत्ववदिति, तथा तत्प्रत्ययोऽपि नेति गतार्थं यावद्भवप्रत्ययवदिति, एवं ह्रस्वत्वेऽपि, अतिदेशः-यदि ह्रखे ह्रस्वत्वमित्युपक्रम्य दीर्घशब्दस्थाने ह्रस्वशब्दं कृत्वा स एव ग्रन्थो वाच्यो यावदयमवधिरिति । 5 उभयोभयपक्षोऽपि प्रत्येकमभिहितैर्दोषैर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः, विप्रतिषेधाच्च, एवं तावन्न स्वतो न परतो नोभयतश्च हस्वदीर्घ सिद्ध्यतः, यद्यहेतुतः, खपुष्पमपि स्यादिति ।
(उभयेति) उभयोभयपक्षस्य हस्वमपि दीर्घ ह्रस्वञ्च, दीर्घमपि दीर्घ हस्खश्चेत्ययमपि उभयोभयपक्षः प्रत्येकमभिहितैर्दोषैर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः, पृथक् सिद्धिमूलत्वादपेक्षायाः, 10 किश्चान्यत्-विप्रतिषेधाच्च ह्रस्वदीर्घत्वयोर्विरोधादप्रवृत्तिरित्युक्तत्वात् , एवं तावन्न स्वतो नापि परतो नोभय
तश्च ह्रस्वदीर्घ सिद्ध्यत इति, स्यान्मतमहेतुतः सिद्ध्यत इति, अत्रोच्यते-यद्यहेतुतः खपुष्पमपि स्यात् , अहेतुतश्च न सिद्ध्यति दीर्घत्वमहेतुकत्वात् , खपुष्पवत्, यदि सिद्धयेत् खपुष्पमपि सिद्धयेत् , अहेतुकत्वादीर्घत्ववत् ।
स्यान्मतमापेक्षिकेषु ह्रस्वदीर्घादिषु स्यादयं न्यायो न तु घटादिष्वपि, नैवं मन्तव्यं यस्मात्15 एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति, न घटे घटत्वम् , परायत्तत्वाद् घटत्वस्येत्यादि
दीर्घत्वप्रतिषेधन्याय एवात्रापि, यदि हि स्वविषयमेवैतत् स्यात् घटोन घटोऽपि स्यात् , भवत्वितरेतरः तस्य चाघटत्वे एवमन्येऽपि घटा इति तस्याभावः, तस्याभावेऽघटाभावः घटापेक्षत्वादपेक्षया हवः तदपेक्षया च जम्बीरादि दीर्घम् , एवं यावन्मेरु, एकस्यैवेतरेतरापेक्षया हस्वदीर्घत्वे दृष्टे तथा ह्रखदीर्घप्रत्ययौ च, यदि ह्रखे वर्तमान दीर्घत्वं दीर्घ न करोति तत्प्रत्ययञ्च नादधाति तदा दीर्घत्वदीर्घप्रत्यययोरभावात् नितरां दीर्घस्यैवाभावः स्यादिति भावः । 20 यथा ह्रखत्वं दीर्घाकरणान्न दीर्घभवति हस्खं तथैव दीर्घत्वमपि दीर्घाकरणान्न किमपि दीर्घ भवेदिति दीर्घात्यन्ताभावः, हस्खप्रत्ययो यथा
वा न क्वापि दीर्घप्रत्ययाधायकस्तथा दीर्घप्रत्ययोऽपीति न क्वाऽपि दीर्घप्रत्ययः स्यादिति तदत्यन्ताभाव इति प्रयोगं दर्शयति-नैव दीर्घमित्यादीति, तदेवं दीर्घत्वासिद्धिरुक्ता । एवमेव ह्रखत्वासिद्धिरपि न तावद्भखत्वं हखे खात्मन्यस्ति परायत्तत्वात् अनामिकाया हस्खत्वस्य, तद्धि मध्यमादीर्घत्वायत्तं यत् स्वात्मन्यसिद्धं तत्कथं परतः सिद्धयेत् , यदि हि खविषयमेवैतत् स्यात् मध्यमादीर्घत्वं न स्यात् अपरापेक्षत्वात् , सापि ह्रस्वैव स्यात् , अनामिकावत्, न तु भवति तस्या दीर्घत्वेष्टेः, अथादीधैवेष्यते ततश्चाना25 मिकाह्रस्वत्वाभावः, तामेवापेक्ष्य हवेति व्यपेदशात् , तस्माच्च ह्रस्वत्वप्रतिपक्षस्य मध्यमादीर्घत्वस्याभावः तयोः परस्परायत्तत्वात् ,
कदाऽनामिका हवा सेत्स्यति? यदा मध्यमा दीघा न भवेत् , मध्यमा दीर्घा चानामिका ह्रस्वत्वसिद्धौ सेत्स्यतीतीतरेतराश्रयत्वादसिद्धिः, इत्येवं दीर्घग्रन्थो दीर्घशब्दस्थाने हखशब्द संयोज्य सर्वो वाच्य इत्याह-एवं हस्खेऽपीति । अथोभयत्रोभयं वर्तत इति पक्षं निराकरोति-उभयोभयेति । हवे ह्रखत्वं दीर्घत्वञ्च दीर्धे दीर्घत्वं ह्रस्वत्वं च यद्यभ्युपगम्यते तदापि प्रत्येकपक्षोदितदोषा जाग्रत्ये
वेत्याह-उभयोभयपक्षस्येति। खतोऽसिद्धयोरपेक्षयाऽप्यसिद्धिः, प्रत्येकं खतः सिद्धयोरेवापेक्षासम्भवादित्याह-प्रत्येकमिति । 30 ह्रखत्वदीर्घत्वयोः परस्पर विरोधात् सहवृत्त्यसम्भव इत्याह-विप्रतिषेधाच्चेति । एवं च हेतुतो ह्रस्वदीर्घत्वयोरसिद्विरुक्तेत्याह-एवं
तावदिति। यद्यहेतुतः ह्रस्वत्वदीर्घत्वे भवत इतीष्यते तर्हि खपुष्पादिकमपि भवेदित्याह-स्यान्मतमिति । व्याचष्टे-अहेतुतश्वेति । अथानपेक्षेषु घटादिष्वपि दीर्घत्वप्रतिषेधन्यायमवतारयति-एवं घटादीनामपीति । कथं घटादीनामसिद्धिः स्वरूपस्येत्य,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org