________________
दीर्धे दीर्घत्ववृत्तौ दोषः] द्वादशारनयचक्रम्
११२३ न करोति न च तद्बुद्धिमादधाति ह्रस्वादीर्घत्व प्रत्ययवत्- यथा ह्रखे दीर्घत्वं न करोति नादधाति तत्प्रत्ययं तथा दीर्घत्वं दीर्घ प्रत्ययश्च न कुर्यान्नादध्यादिति ।।
___ अथ दीर्घ एव दीर्घत्ववृत्तिरिष्यते ततो दीर्घ एव वर्तमानं दीर्घत्वं करोति तत्प्रत्ययञ्चाधत्ते इति ह्रस्वेन दीर्धेतरेणेतरेतरयोगार्थ कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारबलादेव तत्सिद्धेः, अथ तथापि तत्र दीर्घे दीर्घतां न करोति न तत्प्रत्ययश्चादधातीति मन्यसे । ततो हस्वे कथं दीर्घत्वं तद्बुद्धिश्च कुर्यात् , ततोऽन्यत्र वृत्तत्वात् , ह्रस्वादीर्घत्वप्रत्ययवत् , अथोच्येत ह्रस्वे दीर्घतां नैव करोति दीर्घप्रत्ययमपि नादधातीति, एतदपि नोपपद्यते ह्रस्वदीर्घयोः परस्परापेक्षसिद्धेोके दृष्टत्वात् , तद्यथा-सिद्धार्थकेत्यादि मेरुपर्यन्तानामितरेतरापेक्षहस्वदीर्घाणां दृष्टानां ह्रस्वे वृत्तस्य दीर्घत्वस्य दीर्घाकरणदीर्घप्रत्ययानाधानाभ्युपगमेऽत्यन्तदीर्घाभाव एव प्रसक्तः, नैव दीर्घ भवेत् दीर्घाकरणात् , ह्रस्वत्ववत् , तत्प्रत्ययोऽपि न भवेत् , दीर्घ- 10 प्रत्ययानाधानात् , ह्रस्वप्रत्ययवदिति, एवं ह्रस्वत्वेऽपि ।
(अथेति) अथ मा भूदेषदोष इति दीर्घ एव दीर्घत्ववृत्तिरिष्यते, अत्र ब्रूमः-दीर्घ एव वर्तमानमित्यादि, तत इदमापन्नं दीर्घ एव वर्तमानं दीर्घत्वं दीर्घतां करोति तत्प्रत्ययश्चाधत्ते तत्रेति इष्यत एतत् , किन्तु हवेन दीर्धेतरेणेतरेतरयोगार्थं कल्पितेन नार्थः, न च तत्प्रत्ययेन, स्वाधारबलादेव तत्सिद्धेः, इतरेतरयोगप्रस्तुतेवायमपि दोषः, अथ तथेत्यादि-हस्वहस्खप्रत्ययवैयर्थ्यदोषपरिहारार्थमितरेतरयोगे सत्यपि तत्र दीर्घे दीर्घतां 15 न करोति न दीर्घप्रत्ययं चादधातीति मन्यसे तत इदमन्यदोषजातं प्राप्तं-हवेऽपि दीर्घत्वं न करोति न च दीर्घप्रत्ययमाधास्यतीति प्राप्तम् , एतदर्थप्रदर्शनं-हस्वे कथमित्यादि गतार्थं पूर्वसाधनं यावत् हस्खादीर्घत्वप्रत्ययवदिति, अथोच्येत्तदोषपरिहारार्थ त्वया ह्रस्वे दीर्घतां नैव करोतीति दीर्घप्रत्ययमपि नादधातीति, एतदपि नोपपद्यते-हस्वदीर्घयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात् , तत्प्रत्ययस्य च, तस्यैव चैकस्य वस्तुनोऽर्थान्तरापेक्षस्य ह्रखत्वदीर्घत्वदर्शनात् , तद्यथा-सिद्धार्थकेत्यादि दण्डकोक्तानां सिद्धार्थकादारभ्य मेरुपर्यन्तानामितरेतरापेक्ष- 20 दीर्घस्य तत्त्वं, तद्दीर्घत्वं ह्रखस्य दीर्घत्वं दीर्घ इति प्रत्ययञ्च न करोति तथा ह्रखस्य तत्त्वभूतं दीर्घत्वं हखादन्यस्मिन् दीर्घे दीर्घत्वं दीर्घ इति प्रत्ययञ्च न कुर्यादिति निरूपयति-यद्यत इति, अथ द्वितीयं स्वाश्रये दीर्घ एव वर्तमानं दीर्घत्वं दीर्घत्वदीर्घबुद्ध्योर्विधायकमिति पक्षे दोषमाह-अथ दीर्घ एवेति । टीकयति-अथ मा भूदिति । एवं तर्हि ह्रखस्य तत्प्रत्ययस्य च वैयर्थं प्रसज्यते, इतरेतरयोगार्थ दीर्घ च ह्रखापेक्षदीर्घत्वतत्प्रत्ययत्वयोः सम्पत्त्यर्थं तौ प्रकल्प्यौ, यदा तु दीर्घत्वं खाधारे एव वर्त्तते न परापेक्षं तदा वाधारबलादेव तयोः सिद्धरित्याह-तत इदमापन्न मिति । इतरेतरयोगप्रस्तावादन्यमपि दोषमाहेति दर्शयति-इतरे-25 तरेति । अथ ह्रस्वत्वतत्प्रत्यययोर्मा भूद्वैयर्थ्यमिति उभयत्र सम्बन्ध्यपि दीर्घत्वं दीर्घ दीर्घत्वतत्प्रत्ययाधायकं न भवतीति मन्यत इत्याह-हखेति । यद्येवं तर्हि हखेऽपि दीर्घत्वतत्प्रत्यययोराधायकं न स्यात् इष्यते च तत्र तौ, अनामिकायाः कनिष्ठिकापेक्षयोस्तयोर्भावात् , अन्यथेतरस्मिन्नितरस्य योग एव व्यर्थः स्यादित्याशयेनाह-हस्खेऽपीति । हस्खेऽपि दीर्घतां दीर्घ इति बुद्धिञ्च कथं कुर्यात् , हस्खादन्यस्य दीर्घस्य तत्त्वभूतत्वात् , ह्रस्वादन्यत्र वृत्तेर्वा, ह्रखादीर्घत्वप्रत्ययवदिति प्रागुक्तमिति स्मारयति-हवे कथमित्यादीति । ननु नेष्यत एव हखे दीर्घत्वं दीर्घप्रत्ययञ्च करोतीति, को दोष इत्याशङ्कते-अथोच्येतेति । दृष्टा हि लोके ह्रस्वत्वस्य 30 दीर्घत्वापेक्षया दीर्घत्वस्य च ह्रस्वत्वापेक्षया सिद्धिः, एकस्यैवानामिकादेमध्यमापेक्षहस्खप्रत्ययः कनिष्ठिकापेक्षदीर्घप्रत्ययश्चेति समाधत्तेहखदीर्घयोरिति । तत्रैव दृष्टान्तानाह-तद्यथेति। सर्षपापेक्षया चणको दीर्घः आमलकापेक्षया हवः साप्यामलकी जम्बीराद्य
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org