________________
११२२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
ह्रस्वत्वस्य ह्रस्वाभावे क्व दीर्घत्वं वर्त्तेत ? अतोऽपि दीर्घत्वाभावः तथापि पुनरित्यादि - पुनरपि च दीर्घत्वस्वत्वयोर्भावाभ्युपगमेऽपि ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न सिद्ध्यति दीर्घत्वं स्वात्मनि परत्र वा वृत्त्यसम्भवात् ।
स्यान्मतमुभयत्र वर्त्ततेऽन्यापेक्षत्वादुभयोः ह्रस्वमपेक्ष्य [दीर्घं दीर्घमपेक्ष्य ] ह्रस्वं सिद्ध्यतीत्येतश्च — न द्वये, उक्तन्यायात्, प्रतिद्वन्द्वित्वाद्वा, उभयत्र दीर्घत्ववृत्तिरेषा च किं ह्रस्वे वर्त्तमाने दीर्घत्वे दीर्घ भवति ? उत दीर्घे एव वर्त्तमाने, यदि ह्रस्वे वर्त्तमानं दीर्घत्वमुभयत्र भावं लभते ततो ह्रस्वे वर्त्तमानं दीर्घत्वं दीर्घस्य दीर्घतां दीर्घ इति बुद्धिञ्च कथं कुर्यात् ? ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत् ।
(ति) [न]द्वये, कस्मात् ? उक्तन्यायात्, यथा दीर्घे दीर्घत्वं न परायत्तत्वादित्युपक्रम्य यावदि10 दितरेतराश्रयत्वादसिद्धिरित्युक्तन्यायान्न सिद्ध्यति दीर्घता तथा ह्रस्वेऽपि न वर्त्तत इत्यधुनोक्तन्यायान्न सिद्ध्यति, द्वयोरन्यतरत्रापि असिद्धस्य कुत उभयत्र सिद्धिः स्वपरयोः प्रतिद्वन्द्वित्वाद्वा-यथा दीर्घत्वं दीर्घे स्वे च वर्त्तते तथा ह्रस्वत्वमपि दीर्घे ह्रस्वे च वर्त्तते, अत उभयोरुभयत्र भावो विरोधी तयोः सहवृत्तिरयुक्ता विरोधित्वादेव परस्पर [त] इत्युक्तम्, तस्मान्न स्वतो न परतो नोभयतश्च दीर्घत्वं सिद्ध्यति ह्रस्वत्वं वा, एवं ह्रस्वत्वेऽपीत्यतिदेश्यमानत्वात् किञ्चान्यत् उभयत्र दीर्घत्ववृत्तिरेषा सा तु इतरेतरयोगः, एषोऽपि 15 चिन्त्यः किं ह्रस्वे स्वाश्रयाद्दीर्घादन्यत्र वर्त्तमाने दीर्घत्वे 'दीर्घं भवति ? उत स्वाश्रये दीर्घे एव वर्त्तमाने 'दीर्घं भवति ? इति निर्धार्यम्, किचात:- यदि ह्रस्वे इत्यादि - यदि हस्वे वर्त्तमानं दीर्घत्वमुभयत्र भावमितरेतरयोगं लभत इतीष्यते प्रथमविकल्प इति ततः किं ? ततो ह्रस्वे वर्त्तमानं दीर्घत्वं दीर्घस्य दीर्घतां दीर्घ इति बुद्धि च कथं कुर्यात् ?–न कुर्यात्, नादध्यात्तद्बुद्धिश्च ततोऽन्यत्र वृत्तत्वात्, यद्यतोऽन्यत्र वर्त्तते तत्तस्य तत्त
www
www.www
5
ह्रस्वत्वापेक्षस्य दीर्घत्वस्य दीर्घेऽन्यत्र वा प्रागुदितरीत्या वृत्त्यसम्भवेन नास्ति सिद्धिरित्याह - पुनरपीति । ननु केवलं 20 स्वस्मिन् परस्मिन् वा वृत्त्यसम्भवेऽपि परस्परापेक्षसिद्धिके हस्वत्वदीर्घत्वे उभयत्र स्यातामित्याशङ्कायामाह - न द्वय इति । व्याचष्टे-यथेति । दीर्घत्वस्य हस्वपेक्षस्य स्वात्मन्यवृत्तिता, परायत्तत्वात् स्वात्मन्यसिद्धस्य परतः सिद्ध्यसम्भवात् स्वतः सिद्धौ चापरायत्तत्वाद्भस्वत्वस्याप्यपरायत्तत्वेन न सिद्धिः स्यात् अनामिकापि दीधैव भवेत् तस्या अह्रस्वत्वे च मध्यमादीर्घत्वं न सिद्ध्येत्, तदसिद्धौ ह्रस्वत्वमपि न स्यात्, तयोः परस्पराश्रयत्वेनेतरेतराश्रयत्वादसिद्धिः, हखेऽपि च दीर्घत्वस्यावृतित्वोक्तेः तस्मात् स्वस्मिन् परस्मिन् वाऽसिद्धस्य दीर्घत्वस्य ह्रस्वत्वस्य वा कथमुभयत्र सम्भव इत्युक्तन्यायमेवात्रापि भाव्यमिति भावः । परस्परप्रतिद्व25 द्वित्वाच्च ह्रस्वत्वदीर्घत्वयोर्नोभयत्र वृत्तित्वमित्याह - स्वपरयोरिति । स्वस्मिन् दीर्घे परम्मिन् ह्रस्वे चोभयत्र ह्रस्वत्व दीर्घत्वे न वर्त्तते परस्परप्रतिद्वन्द्वित्वात् सहवृत्तेरसम्भवादिति भावः । उपसंहरति- तस्मान्नेति । ह्रस्वत्वस्यापि सहोतो कारणमाहएवमिति । किश्चेयमुभयत्र वृत्तिरितरस्मिन्नितरस्य योगरूपा तत्र प्रश्न उदेतीत्याह - उभयत्रेति । ह्रस्वदीर्घयोरित्यर्थः । एषोऽपीति, इतरेतरयोगोऽपीत्यर्थः । किं ह्रस्वे इति दीर्घत्वं स्वाश्रयाद्दीर्घादन्यत्र हस्खे वर्त्तमानं सत् दीर्घस्य दीर्घतां दीर्घ इति बुद्धिञ्च किं विधत्ते किं वा स्वाश्रये एव वर्त्तमानं सदिति प्रश्नार्थः । प्रथमकल्पं निराचष्टे - यदि ह्रस्व इति हखे वर्तमान 30 दीर्घत्वमितरत् इतरस्मिन् योगं दीर्घत्वं दीर्घप्रत्ययश्च करोतीति यदि मन्यसे इत्यर्थः । तत्र दोषमाह -तत इति, मन्तव्यमात्रमे - वैतत्ते हवे वर्त्तमानं दीर्घत्वमन्यत्र दीर्घतां दीर्घप्रत्ययश्च विधत्त इति, तन्नैव विधत्ते, ततोऽन्यस्य तत्त्वभूतत्वादिति भावः । तमेव हेतुमाह- ततोऽन्यत्रवृत्तत्वादिति । यद्धि यतोऽन्यस्य तत्त्वं तत्तत्स्य तत्त्वं तद्बुद्धिश्च न करोति यथा दीर्घत्वं हखादन्यस्य
१ सि. क्ष. छा. डे. दीर्घत्वं । २ छा. ततोऽन्यत्ववृत्तत्वात् । सि. क्ष. डे. ततोऽन्यतत्त्वात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org