________________
Aam Animw
दीर्घत्वाभावापादनम्] द्वादशारनयचक्रम्
११२१ दीर्घत्वं न स्यात् , तामेवापेक्ष्य-ह्रस्वानामिकां दीर्घति व्यपदेशात् सा चेदनामिका ह्रस्वा न भवति कामन्यामपेक्ष्य दीर्घा स्यान्मध्यमा ? इति तस्या दीर्घत्वाभावः, तस्माच्च-मध्यमादीर्घत्वाभावात् दीर्घत्वप्रतिपक्षस्यानामिकाह्रखत्वस्याभावः, तयोः परस्परायत्तत्वात् , तद्भावयति-कदा मध्यमेत्यादि यावत् सेत्स्यतीति गतार्थमितरेतराश्रयत्वभावनम् , इतीतरेतराश्रयत्वादसिद्धिः-इत्थमुक्तेतरेतराश्रयत्वान्न सिद्धिः परस्परप्रतिबद्धवाताहतनौद्वयवद्विशीर्यते हस्वदीर्घत्वकल्पना, एवं तावत् दीर्घे दीर्घत्ववृत्तिमिच्छतः प्रसङ्गादुभयोरभाव 5 आपादितः।
स्यान्मतं ह्रखे तर्हि दीर्घता भविष्यति त्वदुक्तविधिना, ह्रस्वापेक्षत्वाद्दीर्घत्वस्य, अनामिकाहस्वत्वायत्तत्वाभिमतमध्यमादीर्घता भवितुमर्हत्यतः सिद्ध्यति दीर्घत्वं तथा ह्रस्वत्वमितरापेक्षत्वादित्यत्रोच्यते
न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्वित्वात्तयोस्तमःप्रकाशवत् जीवितमरणवच्चैकत्र कुतो भावः तस्य वाऽदीर्घत्वेऽभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत् ? हस्वत्वाभावाच्च नास्ति 10 दीर्घत्वम् , दीर्घत्वस्य ह्रस्वे वृत्ते तदवष्टब्धे ह्रस्वत्वस्यानवकाशात् , तथापि पुनः ह्रस्वप्रतियोगिनो दीर्घत्वस्याभावान्न सिद्ध्यति दीर्घत्वम् , स्वात्मनि परत्र वा वृत्त्यसम्भवात् ।
(नेति) न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्वित्वात् , दीर्घत्वेन ह्रस्वत्वेन विरोधात् ह्रस्वत्वदीर्घत्ययोः परस्परविरोधात् तमःप्रकाशवजीवितमरणवञ्चैकत्र कुतो भावः ? तस्य वाऽदीर्घत्वेऽभावात्मकत्वात्-तस्य ह्रस्वत्वस्य दीर्घत्वाभावात्मकत्वात् , यद्धि लोके दीर्घं न भवति उच्यते ह्रस्वमिति तस्मात् तस्य दीर्घत्वाभावात्मकत्वात् 15 कुतो दीर्घत्वमागतमन्यत् ? ह्रस्वत्वाभावाच्च नास्ति दीर्घत्वं-दीर्घत्वस्य ह्रस्वे वृत्ते दीर्घत्वावष्टब्धेऽनवकाशात्
भावे चानामिकाह्रखत्वाभावः, ह्रस्वत्वदीर्घत्वयोः परस्परायत्तत्वादित्याह-तस्माञ्चेति । एवमितरेतराश्रयत्वाद्धस्वत्वदीर्घत्वयोरसिद्धिः न हि परस्पराश्रयाणि कार्याय कल्पेरन् परस्परप्रतिवद्धवाताहतनौद्वयवदुभयमपि विनश्येतेति भावयति-कदा मध्यमेत्यादीति। इतरेतराश्रयत्वे च हानिमाह-इतीतरेतराश्रयत्वादिति । एवं दीर्घादीर्घत्वस्वभावाभाव आपादित इत्याह-एवं तावदिति ।। भवतु त्वदुक्तरीत्या स्वत एव मध्यमानपेक्षा दीर्घताऽनामिकायाः, अपरापेक्षत्वात् , मध्यमायामपि अनामिकाहखत्वापेक्षं दीर्घत्वं 20 स्यात्, एवञ्च दीर्घत्वह्रखत्वयोः सिद्धिरितरापेक्षत्वादित्याशङ्कते-न हखेऽपीति । हस्खत्वदीर्घत्वयोः परस्परं प्रतिद्वंद्वित्वादेकत्रासत्त्वाद्धख दीर्घता न सम्भवतीति व्याचष्टे-नेति। तमःसम्बन्धावच्छेदेन जीवनकालावच्छेदेन वैकत्र यथा प्रकाशस्य मरणस्य वा सद्भावो नास्ति तथा ह्रस्वत्वदीर्घत्वयोरेकत्र न सम्भव इत्याह-तमःप्रकाशवदिति । यदि च दीर्घत्वविरोधिनो ह्रस्वत्वस्यादीर्घत्वं-दीर्घत्वाभावात्मकत्वं तर्हि मध्यमायां दीर्घत्वं कुत आगतं ह्रस्वत्वापेक्षं हि तत्, ह्रस्वत्वस्यैवाभावे कुतो दीर्घत्वम् ? यद्वा हवत्वस्य दीर्घत्वाभावात्मकत्वे दीर्घत्वाभाववति ह्रखे कुतोऽन्यद्दीर्घत्वमागतम् ? इत्याशयेनाह-तस्य वेति । प्रतिद्वन्द्विनो 25 ह्रखत्वस्येत्यर्थः । कथं ह्रखत्वं दीर्घत्वाभावात्मकमित्यत्र लोकव्यवहारं दर्शयति-यद्धि लोक इति, लोके हि यद्दीर्घ न भवति तद्धस्वमित्युच्यतेऽतो दीर्घत्वाभावात्मकं ह्रस्वत्वमिति भावः । प्रकारान्तरेण ह्रख दीर्घत्वं नेत्याह-हस्वत्वाभावाच्चेति. ह्रस्वे दीर्घत्वस्य वृत्तौ सत्यां स दीर्घत्वेनाकान्तः, अतो ह्रस्व एव नास्ति, न हि तत्पदप्रवृत्तिनिमित्तसद्भावे तदन्यपदवाच्यो भवितुमर्हति घटे घटपदप्रवृत्तिनिमित्तस्य घटत्वस्य सत्त्वे स घटः पटपदवाच्यो न हि भवति, तथा ह्रस्वाभिमते दीर्घत्वस्य सत्त्वे स दीर्घ एव भवेत न तु ह्रख इति हृवत्वस्यानवकाशेन ह्रस्वाभावात् कुत्र दीर्घत्वं वर्ततामिति भावः । एवमपि खरूपतो दीर्घत्वे हखत्वेऽङ्गीकृतेऽपि 30
१ सि. क्ष. छ. डे. स्वावश्रब्धस्याचव० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org