________________
ammmm
११२०
न्वायागमानुसारिणीव्याख्यासमेतम् [नियमनिययनयः कथं वपरोभयाभावः ? ब्रूमः-एभ्यो हेतुभ्यः-असिद्ध्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः-असिद्धावयुक्तौ च कः स्वभावः ? उत्पादे सति स्वः परो वा भावः स्यात् , अनुत्पादे कुतः सः ? सामग्र्या दर्शनेऽपि न स्वोभावः, अदर्शने पुनर्भेदस्वभावः इत्युपसंहारो भविष्यति, क्रमेणैते हेतवः प्रतिपाद्या इत्यत आह
असिद्धेस्तावदित्यादि, अङ्गुलिमध्यमा दीर्घा अनामिका ह्रखा, तयोर्दीर्घाया-मध्यमाया दीर्घति यः स्वभावः। दीर्घत्वं तन्न तावत् दीर्घ स्वात्मन्यस्ति, कस्मात् ? परायत्तत्वात् तस्या मध्यमायास्तस्य दीर्घत्वस्य, तद्धि तस्या दीर्घत्वमनामिकाहस्वत्वायत्तम् , तां ह्यनामिकां ह्रस्वामपेक्ष्य मध्यमा दीर्घत्युच्यते, यत्स्वात्मन्यसिद्धं खरविषाणादिवत्तत् कथं परतः सिद्ध्येत् ? ।
स्यान्मतं स्वायत्तमेवेति, तन्न अनामिकाह्रस्वत्वाभावप्रसङ्गात्
यदि हि स्वविषयमेवैतत् स्यात् , अनामिकाह्रस्वत्वं न स्यात् , अपरापेक्षत्वात् साऽपि 10 दीधैव स्यात् , मध्यमावत् , न तु भवति तस्या ह्रस्वत्वेष्टेः, अथाहस्वैवेष्यते ततश्च मध्यमादीर्घत्वाभावः, तामेवापेक्ष्य दीर्घति व्यपदेशात् , तस्माच्च दीर्घत्वप्रतिपक्षस्यानामिकाहस्वत्वस्याभावः, तयोः परस्परायत्तत्वात् , कदा मध्यमा दीर्घा सेत्स्यति ? यदाऽनामिकाह्रस्वा भवेत् , अनामिका ह्रस्वा च मध्यमादीर्घत्वसिद्धौ सेत्स्यति इति इतरेतराश्रयत्वादसिद्धिः।
( यदि हीति) यदि हि स्वविषयमेवैतत् स्यात्-यथाऽऽत्मायत्तमेव मध्यमाया दीर्घत्वं तथा 15 अनामिकाहस्वत्वं न स्यात् , अपरापेक्षत्वात् सापि दीर्धेव स्यात् यथा हि मध्यमाऽनामिकानिरपेक्षा दीर्घष्यते तथाऽनामिकापि मध्यमानिरपेक्षा स्वत एव दीर्घष्यताम् , मध्यमावत् , न तु भवति तस्या ह्रखत्वेष्टेः, अथाह्रस्वैवेष्यते ततश्च-अहस्वत्वे मध्यमादीर्घत्वाभावः तस्या अनामिकायाः स्वात्मनि ह्रस्वत्वाभावे मध्यमाया
mam
क्वचन केचन ॥' इति माध्यमिककारिका, तत्रोत्पादादिस्वभावाः खपरोभयेभ्यो न भवन्ति, असिद्धरयुक्तेश्च, उत्पादे सिद्धे हि
स स्वतो वा परतो वोभयतो वेति भवेत् स एवासिद्धोऽयुक्तश्च, न युज्यते इत्ययुक्तिर्नास्ति वा युक्तिः साधनं यस्येत्ययुक्तिस्तस्मात्, 20 एवञ्च भावासिद्धावेव कः स्वभावः कस्माद्वा भवेदित्याह-असिद्धावयुक्तौ चेति । उत्पत्तिविनाशयोः जाताजातयोर्वाऽनुत्पादादसत्त्वे कुतः खभाव इत्याह-अनुत्पाद इति । सत्यां सामग्र्यां भावा दृश्यन्ते न प्रत्येकं स्वरूपेण वा, खरूपेण च यन्नास्ति तस्य सामय्यां सत्यामपि कुतोऽस्तित्वं स्यादिति कुतः खोभाव इत्याह-सामग्र्या इति । वस्तुनो आराद्भागस्यैव दर्शनात् परमध्यभागयोरदर्शनात् एकस्यापि वस्तुनो भेदखभावतैव स्यादित्याह-अदर्शन इति । अथ प्रत्येकमेषां हेतूनां विचारं कर्तुमाह
क्रमेणैत इति । प्रथमं सौलभ्यादापेक्षिकपदार्थाश्रयेणाह-अङ्गुलिरिति, मध्यमाऽङ्गुलिदीर्घत्युच्यते, अनामिका च ह्रखेत्युच्यते, 25 तत्राङ्गुलिद्वयमध्ये मध्यमाया यद्दीर्घत्वं स्वभावस्तन्नास्ति दीर्घ खात्मनि, परायत्तत्वात् , तद्धि दीर्घत्वमनामिका ह्रखत्वमपेक्ष्य भवति,
एवञ्च यत्स्वात्मन्यसिद्धं तत्कथं परतः क्षिद्धयेत् खरविषणादिवदिति भावः । यदि तु दीर्घत्वं परायत्तं न मन्यते स्वायत्तमेव स्यात्तदा प्राह-यदि हीति। यदि मध्यमाया दीर्घत्वं खविषयमेव स्वापेक्षमेव न तु परायत्तं तयनामिकाया हस्खत्वमपि परायत्त न स्यात् , एवञ्च यदपरायत्तं स्वायत्तं तद्दीर्घ दृष्टं यथा मध्यमा तथाऽनामिकापि दीर्घा स्यात् ,अपरायत्तत्वादित्याशयेन व्याचष्टे-यथेति।
अनामिकाया दीर्घतां प्रतिपादयति-यथा हीति। इष्टापत्तिं व्युदस्यति-न तु भवतीति । मध्यमापेक्षह्रस्वत्वस्यैव तत्रेष्टत्वादिति 30 भावः । युक्तिसिद्धत्वादिष्टं विहायानामिकाया अह्रखत्वमेवेष्यते यदि तीनामिकायाः स्वात्मनि ह्रस्वत्वं नास्ति, एवं सति मध्यमाया
दीर्घत्वं कथं स्यात् अनामिकाहस्वत्वमपेक्ष्य हि तस्या दीर्घत्वमिष्यते अनामिका यदि न हवा तर्हि कामपेक्ष्य मध्यमा दीर्घा भवेत् तस्मात्तस्या दीर्घता न स्यादित्याह-अथाहस्वैवेष्यत इति । एवञ्चानामिकाहस्वत्वाभावे मध्यमादीर्घत्वाभावः, मध्यमादीर्घत्वा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org