________________
निःस्वभावताख्यापनम्] द्वादशारनयचक्रम्
१११९ अवका[शे] हस्तियूथादिदर्शनं निःस्वभावविषयं तदतत्स्वभावशून्यं तथा जाग्रतोऽपि, यथा वा मत्तस्य मदाद्याकुलस्य, सुप्तमत्तस्थानीया एव हि रक्तद्विष्टमूढाः पाषण्डिनः तदतदाकारप्रकल्पनानुपातिविज्ञानत्वात् , तदतत्वाभाव्येन विज्ञानकल्पिताकारसुप्तमत्तादिविज्ञानविषयवत् किमपि किमपीत्याभासात् परमार्थतो नास्ति कश्चिदाकारः, शून्यं तैस्तैराकारैरिदं गृह्यमाणमपि बुद्ध्या, प्राहकाकारपरिप्लवाद्राह्याकारभ्रान्तेः, तस्मान्न ग्राहकं शून्यमेवेति कल्पयितुं न्याय्यम् , किमिव ? शून्यगृहवत् प्रवेष्ट्रस्थातृनिर्गन्तृकल्पोत्पादादिरहितम्- 5 यथा शून्यगृहे न प्रवेष्टा न स्थाता [न] निर्गन्ता [नैवम ]त्रापि उत्पत्तिस्थितिविनाशसम्बन्धाः तथैवोत्पादस्थितिभङ्गरहितमिदं ज्ञानविज्ञेयाभिमतमित्युद्देशः ।
स च स्वभावश्चिन्त्यमानो न स्वतः नापि परतो न द्वाभ्याम्, नाप्यहेतुतः, अथ कथं स्वपरोभयाभावः ? ब्रूमः, असिद्ध्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः, असिद्धेस्तावत् दीर्घहस्वयोर्मध्यमानामिकाङ्गुल्योः दीर्घाया दीर्घस्वभावो न तावदीर्घ स्वात्मन्यस्ति परायत्तत्वा- 10 त्तस्यास्तस्य तद्धि अनामिकाह्रस्वत्वायत्तं यत् स्वात्मन्यसिद्धं तत् कथं परतः सिद्ध्येत् ।
(स चेति) स च स्वभावश्चिन्त्यमानो हेतुतो[ऽहेतुतो] वा स्यात् , यदि हेतुतः स्वतः परत उभयतो वा स्यात् , स च स्वभावो 'न स्वतो नापि परतो न द्वाभ्यां, नाप्यहेतुतः', अत्रोपपत्तिप्रश्नः अथ
वत्वाच्छून्यमेव, न हि यथा तत् पश्यति तत्तत्स्वभावमन्यस्वभावं वा, एवं जाग्रदवस्थायां दृश्यमाना घटादयोऽपि तथाविधा इति भावः। एवं मत्तपुरुषजन्यज्ञानविषयपदार्थानां निःस्वभावतावदपि जगन्निःस्वभावमित्याह-यथा वेति । जगद्वस्तुप्ररूपकाः 15 पाषंडिनोऽपि रक्तद्विष्टमूढाः सुप्तमत्तोन्मत्तस्थानीया एवेति तद्विज्ञानं वस्तूनां निःस्वभावत्वेऽपि तदाकारामतदाकाराञ्च प्रकल्पनामनुसरति सुप्तादिविज्ञानवदित्याह-सुप्तमत्तेति । यथा सुप्तमत्तादिपुरुषीयविज्ञानविषयाणां तत्स्वभावतयाऽतत्स्वभावतया च विज्ञानैः परिकल्पिताकारत्वं तथैव जाग्रदवस्थायामपि किमपीदं किमपीदमिति प्रतिभासते वस्तु, परमार्थतस्तु नास्ति कश्चिदाकारो वस्तूनां किन्तु शून्यमेव तत्त्वमतो ग्राह्याभावाद्वाहकमपि न किञ्चिदस्ति, तस्माच्छून्यमेव सर्वमिति कल्पयितुं युक्तमित्याह-तदतत्स्वाभाव्येनेति । एतन्नये विज्ञानमेव तत्त्वं, परमार्थभूतः बाह्यः पदार्थो नास्ति, बुद्धिमात्रेणैव प्रमाणप्रमेयादिविभागः, न हि बाह्योऽर्थो 20 ग्राह्यो भवत्यसम्बन्धात् तादात्म्यासम्भवात् जन्यजनकभावासम्भवाच्च, न हि विज्ञानेनार्थस्योत्पत्तिः, न वाऽर्थेन विज्ञानस्य, विज्ञानं हि खाव्यवहितपूर्ववर्तिविज्ञानहेतुजन्यम्, नान्यः कश्चन सम्बन्धोऽस्ति, न च नीलपीतादिविज्ञानवैचित्र्यान्यथानुपपत्या बाह्योऽर्थों निमित्तहेतुर्भवति, विज्ञाने नीलादेः खाकारार्पणाक्षमत्वात् , अन्याकारस्यान्यत्रार्पणासम्भवात् , अन्यथा स्वस्य निराकारत्वापत्तेः, तस्मान्नास्ति बाह्य ग्राह्यम् , ज्ञानाकारवैचित्र्यन्तु पूर्वविज्ञानवैलक्षण्योद्भावितपूर्वपूर्वज्ञाननिष्ठशक्तिविशेषादेव, संसारस्यानादित्वात् , तस्मात् विज्ञानमेव वासनावैचित्र्यान्नीलपीताद्याकारमवभासते न बाह्यो नीलादिः परमार्थः, तस्मादयं नील इत्यादिजाग्रद्विज्ञानं 25 स्वप्नविज्ञानं स्वावभासमात्रं बहिर्वदवभासस्तु वासनाविपर्पयकृतो भ्रम एवेति विज्ञेयम् , अत एव बुद्ध्या तैस्तैराकारैर्नीलादिभिर्गृह्यमाणमपीदं शून्यमेव वासनावैचित्र्यादेव ग्राहके विज्ञाने आकारस्य परिप्लवात् परितो गमनात् ग्राह्याकारो बाह्यो भ्रम एव, तस्मान्न बाह्यवस्तुग्राहक विज्ञानमिति विज्ञानव्यतिरिक्तत्वेनाभिमतं सर्व शून्यमेवेत्याह-तैस्तैराकारैरिति । प्रवेष्ट्रस्थातृनिर्गन्तृरहितशून्यगृहवत् उत्पत्तिस्थितिविनाशसम्बन्धरहितं ज्ञानाज्ज्ञेयत्वेनाभिमतमिदं सर्व जगदिति निराकारविज्ञानवादिमतवस्तुसंकीर्तनमित्याहशून्यगृहवदिति । वस्तूनां निःस्वभावत्वसिद्ध्यर्थ वस्तु स्वभावत्वेनाभिमतं स्वभावं निराकर्तुमाह-सच स्वभाव इति । 30 उत्पादस्थितिभङ्गा एव वस्तूनां स्वभावः, तत्र विद्यमानस्य कथमुत्पादः, अविद्यमानस्य खपुष्पायमाणत्वात् कथमुत्पादः, एवञ्च स न खभावो भवितुमर्हति एवं स्थितिरपि, निरुद्धं निरुध्यमानञ्च न निरुध्यते, अनिरुद्धमपि न निरुध्यत इति निरोधो न स्वभावः, तस्मात्-'यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादः तथा स्थानं तथा भङ्ग उदाहृतः ॥ इति माध्यमिका कारिका । तत्र वस्तूनां स्वभावः किं हेतुतः उताहेतुतो भवति, यदि हेतुत उच्यते स हेतुः खं वा परो वोभयं वेत्याह-स चेति । हेतुतः स न सम्भवतीत्याह-स च स्वभाव इति । 'न खतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः 35
द्वा० न० १६ (१४१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org