________________
१११८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः तेषामेव भेदवाद इत्यादीति, यथाऽतीतनये रूपादिसमुदायमात्रं तत्त्वमिति समुदायो रूपादीनां विशेषाणां सामान्यमभ्युपगतम्, ततो न विशेषवाद्यसाविति निराकृतः, तथेहापि पश्चानां स्कन्धानां समुदायः सामान्यमेवेति निराकार्यो जायते सैद्धार्थीयैः तदुभयमिच्छद्भिरात्मग्राहोऽस्त्विति ।
किश्चान्यत्5 औदासीन्याच्च तत्त्वेषु मिथ्याभिनिवेशात्त्वदुब्राहप्रापिते ज्ञानसुखाद्यन्यात्मकमात्मानं पश्यसि तस्मात् तादात्म्यशक्त्यन्तरोगाहपुरस्कृतसामान्यविशेषात्मकत्वानतिक्रमात् सैद्धार्थीयत्वापत्तिः वस्तुवादित्वात् , एवं शेषवादेष्वपि स्याद्वाद एवापद्यते बलात् तत्र तत्र तथैव योजितमित्यलं प्रसङ्गिन्याः संकथायाः।
औदासीन्याचेत्यादि तत्त्वपरीक्षानादरात् मिथ्याभिनिवेशात्-अहमस्मि तत्त्वदर्शीत्यात्माभिमा10 नाच्च भवतः त्वदुद्राहप्रापिते ज्ञानसुखाद्यन्यात्मकं स्याद्वादनिरूपितमहं सुखी दुःखी रक्तो द्विष्टो वाऽस्मीत्यात्मानं पश्यसि, तस्मात्तादात्म्यशक्त्यन्तरोगाहपुरस्कृतसामान्यविशेषात्मकत्वानतिक्रमात् रूपादिसमुदायमात्रवादिनोऽपि सैद्धार्थीयत्वापत्तिः वस्तुवादित्वादिति साधूक्तम् , एवं शेषवादेष्वपीत्यतिदेशः, एवं शेषेषु पुरुषवादेष्वपि स्याद्वाद एवापद्यते बलात् , तत्र तत्र तथैव योजितमित्यलं प्रसङ्गिन्याः संकथायाः, कियदुच्यते विरमोऽस्तु वादात् एकान्तनिश्चयपुरस्कृताया वस्तुवादाभ्युपगमायाः, सम्बन्धाभावात् ।
किं तर्हि ?
एवन्तु गृह्यतां निःस्वभावमिदं सर्वम् , सुप्तोन्मत्तादिवत् , सुप्तमत्तस्थानीया एव हि रक्तद्विष्टमूढाः पापण्डिनः तदतदाकारप्रकल्पनानुपातिविज्ञानत्वात् तदतत्स्वाभाव्येन विज्ञानकल्पिताकारसुप्तमत्तादिविज्ञानविषयवत्, किमपि किमपीत्याभासात् परमार्थतो नास्ति कश्चिदाकारः
शून्यं तैः स्वैराकारैरिदं गृह्यमाणमपि बुद्ध्या ग्राहकाकारपरिप्लवाद्राह्याकारभ्रान्तेः शून्यगृहवत् 20 प्रवेष्ट्रस्थातृनिर्गन्तुकल्पोत्पादादिरहितं कल्पयितुं न्याय्यम् ।
(एवमिति) एवन्तु गृह्यतां निःस्वभावमिदं सर्वं सुप्तोन्मत्तादिवत् , यथा सुप्तस्य संवृत्तमपि क्रियत इति दर्शयति-यथाऽतीतनय इति, एकादशनय इत्यर्थः । त्वदुद्राहप्रापिते पञ्चस्कन्धसमुदाय एव स्याद्वादसम्मतमहं सुखी दुःखी वाऽस्मीति यदात्मानं पश्यसि तद्भवतस्तत्त्वपरीक्षायामनादरात् मिथ्याभिनिवेशादात्मनस्तत्त्वदर्शित्वाऽभिमानाच्चत्याह
औदासीन्याञ्चेति । व्याचष्टे-तत्त्वपरीक्षेति । एवमपि त्वं वस्तुवाद्यसि यतोऽत एव सैद्धार्थीयोऽसि, शक्त्यन्तरत्वतदात्म25 त्वाभ्यामन्यानन्यत्वरूपसामान्यविशेषात्मकवस्त्वनतिकमात्, तस्माद्रूपा दिसमुदायमात्रं तत्त्वमिति वादिन इव रूपादिपञ्चस्कन्ध
समुदायात्मक आत्मेति वादिनः सैद्धार्थीयत्वापादनं साधूक्तमित्याह-तस्मात्तादात्म्येति । इदमेवेतरवादेष्वप्यतिदिशतिएवमिति । शेषवादेष्वपि तत्र तत्र नयष्वेव सैद्धार्थीयत्वापत्तिः कृतैवेति प्रसङ्गादागतायाः एकान्तनिश्चयपूर्वकवस्तुवादाभ्युगमरूपसंकथाया अलम् , अत्र कियद्वक्तव्यम् , विरमोऽस्तु वादात्, सम्बन्धाभावादित्याह-एवं शेषेष्विति । इत्थमत्र 'वादेषु स्याद्वादत्वापत्तिप्रसङ्गेन सर्वमिदं दृश्यमानं जगत् निःखभावमेवेति गृह्यतामिति एष नयः प्राह-एवन्त्विति । व्याचष्टे30 यथा सुप्तस्येति । सुप्तो हि अवकाशलक्षणे आकाशे गजसमूहदिव्यभवनपक्षिसदृक्षस्खोड्डयनादि नरः पश्यति तत्सर्वं निःस्वभा
www
१ सि.क्ष. छा. डे. मिच्छद्भिरातामाग्रहीर्थस्त्विति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org