________________
पञ्चस्कन्धरूपात्मव्युदासः] द्वादशारनयचक्रम् मन्यानन्यत्वप्रकल्पना, तथा माधुर्याम्लादिरपि, ते मधुरादयो धर्मा येषां विरोध्यविरोधिभेदात् सन्ति ते तद्वन्तः, तेभ्यस्तद्वद्भ्यः सिद्धानि कटुकत्वादीनि, तेषु संहतेषु पानकद्रव्यमानं प्रतिज्ञा स्वतत्त्वमपीति, अपिशब्दात् परतत्त्वमपि, तद्वत्सिद्धत्वात् मधुररसवत् , यथा रसः पृथिव्याद्यनभ्युपगमेऽपि रूपादिसहभाविधर्मान्तरसङ्गतिमन्तरेणानुपलब्धेः स्वतत्त्वः परतत्त्वश्च तथा पानकमपि, न हि तद्वदित्यादि दृष्टान्तव्याख्या गतार्था ।
तथैव पुरुषद्रव्यं स्कन्धमात्रे न समानीयते यतः स्कन्धा अपि रूपम् वेदना विज्ञानं संज्ञा संस्कार इति, रूपमपि विषयेन्द्रियविज्ञप्याख्यमरूपमपि विज्ञानात्मत्वात् , एवं पञ्चापि, आत्मापि विज्ञानात्मकः ते एव रूपादयः स्कन्धा इत्यनात्मा च, तस्मात् सिद्धार्थीयस्थित्यनतिक्रमात् उदाहितवस्तूनामयुक्तं पठितमेकान्तेन राशिवदित्यादि, तत्त एवाप्राज्ञाः स्कन्धव्यतिरिक्ताव्यतिरिक्तात्मानमात्मानं स्कन्धा एवेत्याहुः, अप्राज्ञानां तेषामेव च भेदवादो यथा रूपादिसमुदायमात्रं तत्त्वमिति समुदायो रूपादिविशेषाणां सामान्यमभ्युपगतं, तथेहापि पञ्चस्कन्ध- 10 समुदायः सामान्यमेवेति निराकार्यः सैद्धार्थीयैः तदुभयमिच्छद्भिरात्मग्राहोऽस्त्विति ।
तथैव पुरुषद्रव्यमित्यादि, स्कन्धमात्रे नात्मप्रकारैः समानीयते, कथं न समानीयते ? यस्मात् स्कन्धा अपीत्युद्देशः, निर्देशो रूपमित्यादि, रूपादि चक्षुरादि, विषयेन्द्रियविज्ञप्त्याख्यं रूपं, विज्ञानात्मसात्कृतं रूप्यते तस्मात्तत् , अरूपमपि विज्ञानात्मत्वात् , एवं पञ्चापीत्यतिदिशति, वेदनादीनामपि रूपादिखाभाव्यौदारिकानौदारिकादिभेदलक्षणसम्बन्धा विनाभावात् परस्पराविनिर्भागवृत्त्यभ्युपगमात्, यथोक्तं-1B 'यथानलकलापौ द्वौ तिष्ठतोऽन्योऽन्यसंश्रितौ । एवं नाम च रूपं च तिष्ठन्तोऽन्योऽन्यसंश्रिते' ( ) इति, आत्मापीति, सोऽपि विज्ञानात्मकः, त एव रूपादयः स्कन्धा इत्यात्माऽनाल्मा च, शक्त्यन्तरतदात्मत्वाभ्यामेव, तस्मात् सिद्धार्थीयस्थित्यनतिक्रमादुद्राहितवस्तूंनामयुक्तं तैरपि पठितं एकान्तेन 'राशिवदि'त्यादि, तस्मात्त एवाप्राज्ञा ए[व] स्कन्धव्यतिरिक्ताव्यतिरिक्तात्मानमात्मानं स्कन्धा एवेत्याहुः, इत्युद्घटना, इत्य[तश्चाप्राज्ञानां
पानकसंज्ञा, अत एव पानकद्रव्यं स्वतत्त्वमपीत्याह-तथा माधुर्याम्लादिरपीति । इदञ्च रससमुदायस्य पानकद्रव्यत्वे 20 निदर्शनम् । ते मधुराम्लतिक्तादयः सन्त्येषु गुडामलकीमरीचादिषु ते तद्वन्तः, तेभ्यः सिद्धः कटुकत्वादिरसस्तदेव पानकद्रव्यं स्वतत्त्वमपि परतत्त्वमपि, तद्वत्सिद्धत्वादिति । प्रयोगार्थमाह-ते मधुरादय इति । दृष्टान्तं स्फुटयति-यथा रस इति । यथा रसः रूपादिस्वतत्त्वः रूपादिसहभाविधर्मव्यतिरेकेणानुपलब्धेः, परतत्त्वोऽपि रूपादीनां परस्परं विरोध्यविरोधिस्वरूपत्वात् तथैव पानकद्रव्यमपीति भावः । पञ्चस्कन्धखरूप एव पुरुष इति मतं निराकरोति-तथैवेति । व्याचष्टे-स्कन्धमात्र इति । आत्मद्रव्यं स्कन्धमात्रे न पर्याप्तमित्यर्थः । तत्कुत इत्यत्राह-स्कन्धा अपीति। विभज्यमानपदार्था इत्यर्थः, निर्देशो विभाग-25 प्रकारः रूपवेदनाविज्ञानसंज्ञासंस्कारस्वरूपाः पञ्चस्कन्धा इति भावः । रूपस्कन्धः क इत्यत्राह-रूपादीति। विषया इन्द्रियाणि अविज्ञप्तिश्च रूपस्कन्ध इति भावः। तस्य रूप्यरूपित्वे दर्शयति-विज्ञानेति । विज्ञानप्रतिबिम्बितं सद्रूप्यते यतोऽतस्तद्रूपमुच्यते। न हि तद् विज्ञानेनासम्बद्धं रूपितुं शक्यमिति भावः। तस्या रूपत्वन्तु विज्ञानस्वरूपत्वादेव, विज्ञानस्यारूपत्वादित्याहअरूपमपीति। रसादिपञ्चस्वप्येवमेव भाव्यमित्यतिदिशति-एवमिति । वेदनादीनामपि रूपित्वारूपित्वे दर्शयति-वेदनादीनामपीति । पञ्चस्कन्धातिरिक्तात्मा नेभ्युपगन्तुरस्य वादिनो न विशेषवादित्वम् , यथा रूपादिसमुदायमात्रं तत्त्वमित्यव्यवहितपूर्व- 30 नयवादिनो न विशेषवादित्वम् , रूपादिविशेषाणां सामान्यस्वरूपतत्समुदायस्य चाभ्युपगमात् , तथैव पञ्चानां स्कन्धानां विशेषाणां सामान्यस्वरूपतत्समुदायस्य चाभ्युपगमात्त्वमपि तद्वत् ते आत्मग्राहोऽस्त्विति सामान्यविशेषोभयमिच्छद्भिः स्याद्वादिभिर्निरा
१.सि. क.क्ष. छ. वस्तुनां ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org