________________
१११६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः स्याद्वादानुपातः कृतो भवति, उभयनयात्मकत्वे साधनमाह-नरादिसामान्यतादात्म्येऽपि चेत्यादि यावद्रूपरसार्थान्तरत्ववदिति, यथा हि भवनसामान्येन भवदपि रूपं रसादर्थान्तरं रसोऽपि रूपात्, रूपान्तरेण निरूपितरूपत्वात् तथा गन्धादेर्गन्धादिरपि, ताभ्यां तत्स्वरूपं शक्त्यन्तरं यतः तत्र वृत्तौ रूपरसौ, ततोऽन्यौ परस्परतः, एवं नरादय एव सेनेति तत्सामान्यतादात्म्ये सत्यपि सेनाऽन्यापि तेभ्यः, अपिशब्दादनन्यापि 5 तत्समुदायमात्रत्वात् तदात्मत्वात् तस्मादेव प्रागिव न्यायः, तद्यथा 'नृरथाश्वेत्यादि श्लोकः, शक्त्यन्तरादन्या तादात्म्यादनन्येति ।
तथा शिखरादिभ्यः प्रत्येकमसत्त्वात्तेष्वेव सत्त्वादन्योऽनन्यश्च शिखरी, तथा मरिचादिभ्यः पानकस्यान्यानन्यते वातादिरोगकोपोपशमादिसत्त्वासत्त्वाभ्यां पृथक् समुदाये च,
तथाऽऽत्मापि सुखादिसहक्रमभाविपर्यायात्मकत्वादनन्यः, अन्यस्तु प्रत्येकं तेषां विरोध्यविरो10 धिभेदात्, पानकद्रव्यमानं स्वतत्त्वमपि, तद्वत्सिद्धत्वात् , मधुररसवत्, न हि तद्वत्सिद्धो रसः रूपादिसहभाविधर्मान्तरसङ्गतिमन्तरेणोपलभ्यतेऽतः स्वतत्त्वः परतत्त्वश्च ।
__ तथा शिखरादिभ्य इति, शिखरसान्वादिषु प्रत्येकमसत्त्वादन्यः समुदितेषु तेष्वेव सत्त्वादनन्यः शिखरी तेभ्यः, तथा मरिचेत्यादि, 'युक्तितो मिश्रितेष्विति वचनात् पानकस्य मरिचादिभ्योऽन्यत्वमसत्त्वाच्च
पृथक्, तदात्मत्वादनन्यता, वातादिरोगकोपोपशमादिशक्त्यन्तरसत्त्वासत्त्वाभ्यां पृथक् , समुदाये चेति, 15 तथाऽऽत्मापि सुखदुःखेच्छाद्वेषादिसहक्रमभाविपर्यायात्मकत्वादनन्यः, तेषां सुखादीनामात्म[प]रिणाममात्रत्वात्तदभेदाच्च, अन्यस्तु प्रत्येकं तेषां विरोध्यविरोधिभेदात् , तावत् परिसमाप्तश्च शक्त्यन्तरतदात्मत्वाभ्या
भयनयात्मकस्याद्वादानुपात एवेति भावः । उभयनयात्मकत्वमेव हेतुद्वारा साधयति-नरादीति, नरादिसामान्ययोस्तादाम्ये सत्यपि सेना ततोऽन्यापि तत्समुदायरूपत्वात् , अनन्यापि तदात्मत्वादिति भावः । तत्र दृष्टान्तमाह-यथा हीति ।
रूपरसगन्धस्पर्शाः भवनात्मकाः, तथा च ते भवनसामान्येन भवन्तोऽपि रूपं रसादिभ्यः रसादयो रूपात्, रूपरसौ 20 गन्धादेः गन्धादिश्च रूपरसाभ्यामर्थान्तरं भवति रूपादीनां विभिन्नखरूपैर्निरूपितखरूपत्वादिति भावः । ताभ्यामिति,
रूपरसाभ्यां तत्स्वरूपं भवनं शक्त्यन्तरं, अर्थान्तरं यस्मात् रूपरसौ भवने वृत्ती, ततोऽन्यौ इति भावः । दार्टान्तिकेऽन्यानन्यत्वे आह-एवं नरादय एवेति । अत्रापि नृरथाश्वेति श्लोकोऽस्माभिः नोपलब्धः, तथापि 'नृरथाश्वद्विपवती सेना शक्त्यन्तरत्वतः। अन्यापि च तदात्मत्वादनन्या सा भवेदिति ॥ एवं स्यादिति सम्भाव्यते । अन्यानन्यत्वे शिखादि
दृष्टान्तेषु दर्शयति-तथा शिखरादिभ्य इति । शिखरसानुपाषाणादिषु शिखरिणः प्रत्येकमसत्त्वादन्यः शिखरी तेष्वेव 25 शिखरादिषु वृत्तेश्च तदात्मत्वादनन्यः । शिखरादिभ्य इत्याह-शिखरेति । पानकदृष्टांतं भावयति-युक्तित इति, मरीचादिषु
प्रत्येकं पानकस्यासत्त्वादन्यता तेष्वेव वृत्तेस्तदात्मत्वादनन्यतेति भावः । प्रकारान्तरेणान्यत्वानन्यत्वे घटयति-वातादीति, वातादिरोगोपशमनरूपं शक्त्यन्तरं पानक एवास्ति, न मरीचादिप्रत्येकं तस्माच्छक्त्यन्तरत्वादन्यत्वं तदभावाच्च मरीचादेस्ततोऽन्यत्वमिति भावः । आत्मदृष्टान्तं भावयति-तथाऽऽत्मापीति, सुखदुःखेच्छाद्वेषादिसहक्रमभाविपर्यायात्मक एवात्मा सुखादयो ह्यात्मपरिणामाः परिणामपरिणामिनोश्चामेदः, सुखदुःखादीनां प्रत्येकं विरोध्यविरोधित्वाभ्यां भेद इति तावच्छक्त्यन्तर30 तदात्मत्वाभ्यामन्यानन्यत्वप्रकल्पना विज्ञेयेति भावः । मधुराम्लादिविरोध्यविरोधिमेदभिन्नानां संहत्या सिद्धे कटुकत्वादिरसविशेषे
१ सि. क्ष. छा. डे. तञ्चरूपं । २ सि.क्ष. छा. डे. तयोस्तन्त्र ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org