________________
आदिरनित्य इति दूषणम्] द्वादशानियचक्रम् अनिवृत्तघटवत् , अनिष्ठितश्चासन् , असत्त्वादक", अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठति, नोभयमुक्तवत् , अन्तेऽपि किं विनष्टो विनश्यति, किं वाऽविनष्टः ? यदि विनष्टो विनश्यतीतीष्यते ततोऽनुत्पाद एव विनष्टत्वात् विनष्टघटवत् , नाविनष्टोऽक्षतघटवदभूतविनश्यद्भावत्वादाकाशवदिति वा, अस्यानुगमं कृत्वा प्रसङ्गः नोभयमुक्तवदिति नोत्पत्तिस्थितिभङ्गाः सिद्ध्यन्ति ततश्च खपुष्पवदभाव एव स्याद्वस्तु ।
अथ[]नित्यत्व इत्यादि, आदेर्नित्यत्वे दोषं दृष्ट्वा तत्परिहारार्थमादिरनित्य इतीष्यते तत्र त्रयी गतिः-जातस्य, अजातस्य, जाताजातस्य वा, किं जातः ? किमजातः ? इति विकल्पद्वयप्रश्नादेव तत्संयोगस्य तृतीयस्य विकल्पस्य सिद्धेः, यदि जात इत्यादिना द्वयोराद्यविकल्पयोरुत्पादाभावोऽनुत्पन्नत्वादसदिति गतार्थम् , जाताजातश्चेदिति तृतीयविकल्पस्य विरोधादसम्भवः, किञ्चोभयदोष[स]म्बन्धाच-यो जातत्वे दोषो यश्चाजातत्वे ताभ्यां युक्तो जाताजातत्वपक्षोऽतस्त्याज्यः, एवमुत्पादे दोषाः, निष्ठायामपीत्यादि, किं 10 निष्ठितोऽनिष्ठितो निष्ठितानिष्ठितो वेति त एव विकल्पाः, तेष्वपि त्रिषु दोषा उत्पादवदुक्तन्यायेन नीता एव यावन्नोभयमुक्तवदिति, अनिष्ठितोऽसन्नसत्त्वादकर्ता, अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठतीति विशेषो गतार्थः, अन्तेऽपीत्यादि, विनाशेऽपि किं विनष्टो विनश्यति ? अविनष्टः ? विनष्टाविनष्टो वा ? यदि विनष्टो विनश्यतीतीष्यते इत्युपक्रम्य त्रिष्वपि विकल्पेषु यावन्नोभयमुक्तवदिति, नाविनष्टोऽक्षतघटवदित्यस्य व्याख्यानं-अभूतविनश्यद्भावत्वात्-अभूतोऽनुत्पन्नो विनश्यद्भावोऽस्येत्यभूतविनश्यद्भावः, तस्मादभूतविन- 15 श्यद्भावत्वात्, अक्षतघटवदिति, आकाशवदिति वा, अभूतविनश्यद्भावत्वादित्यस्यैव हेतोदृष्टान्तान्तरम् , अस्यानुगमं कृत्वा प्रसङ्गः, कोऽर्थः ? शुद्धपदवाच्यत्वादित्यादि यावद्विज्ञानमात्रार्थतेत्यादि, नोभयमुक्तवत्-न
आदेर्नित्यत्व इति, आदिः प्रधानादिकारणमनित्य उत्पत्तिमदिति पक्षे त्रिधा शङ्का स्यात्, किमुत्पन्नस्वभावः किं वाऽनुत्पन्न खभावः किमुतोत्पन्नानुत्पन्नखभाव उत्पद्यत इत्याह-तत्र त्रयीगतिरिति । तदेव स्फुटयति-किं जात इति। तृतीयो विकल्पो मूलेऽनुक्तोऽपि ग्राह्य इत्याह-विकल्पद्वयेति । जातखभावस्याजातखभावस्य वोत्पादासम्भवः निर्वृत्तानिवृत्तघटवत् , अनुत्पन्न- 20 त्वाचासत्त्वमिति दर्शयति-यदि जात इत्यादिनेति । तृतीयपक्षस्तु परस्परविरोधान सम्भवति, सम्भवे वा पक्षद्वयोदितदोषसङ्कम इत्याह-जाताजातश्चेदितीति । उभयदोषसम्बन्धं प्रकाशयति-यो जातत्व इति । एवमुत्पादे दोषमभिधाय निष्ठानपक्षे दोषमाह-निष्ठायामपीत्यादीति । अत्रापि गतित्रयमाशङ्कय प्रागुदितन्यायेनैवासत्त्वमापाद्यमिति दर्शयति-किं निष्ठित
मानो न नितिष्ठते न वाऽविद्यमानो नाप्यभयरूपो वा. सर्वत्रानुत्पादादसत्त्वमेव दोष इति भावः । अनिष्ठितत्वे दोष.. विशेषमाह-अनिष्ठित इति । अथ विनाशपक्षेऽपि तथैव विकल्प्य दोषमाह-अन्तेऽपीत्यादीति । अविनष्टपक्षे विशेषमाह-25 नाविनष्ट इति । अभूतेति, यस्य घटस्याकाशस्य वा विनश्यत्ता नोत्पन्ना तथाविधत्वान्नाविनष्टो विनश्यतीति भावः । एवमविनष्टत्वादाकाशस्यासत्त्वसिद्धौ प्राग्वत् नन्वाकाशं शुद्धपदवाच्यत्वानिवृत्त निष्ठित सदेव प्रमाणज्ञानवदित्येवमनुगमं विधाय कुतोऽस्य शुद्धपदतेत्यादि यावद्विज्ञानमात्रार्थतेति ग्रन्थोक्तप्रसङ्गोऽत्रापि कार्य इत्याह-अस्यानुगममिति । विनष्टाविनष्टपक्षे दोषमाहनोभयमिति । व्याचष्टे-नेति । माध्यमिककारिका अत्र भाव्याः 'निरुध्यमानस्योत्पत्तिने भावस्योपपद्यते। यश्चानिरुध्यमानस्तु . स भावो नोपपद्यते ॥ स्थितिनिरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ निरुध्यते नानिरुद्धं न 30 निरुद्ध निरुध्यते। तथा निरुध्यमानञ्च ॥ उत्पत्तिस्थितिभङ्गानामसिद्धर्नास्ति संस्कृतम् । संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्य
द्वा० म० १९ (१४४)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org