SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ __न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः विनष्टाविनष्टो विनश्यत्यसम्भवात् , असम्भवो विरोधादुभयदोषाञ्चेति पूर्वोक्तन्यायानुसोरण, इत्थं नोत्पत्तिस्थितिभङ्गाः सिद्ध्यन्ति, तदसिद्धेरनुत्पन्नास्थिताविनष्टत्वात् खपुष्पवदभाव एव स्याद्वस्त्विति । ___ अथोच्येत किं न एताभ्यामस्वरूपाभ्यामाद्यन्ताभ्यां प्रयोजनम् , एतौ हि वस्तुन आत्मलाभात् पूर्वोत्तरकालौ, तयोरभावेऽपि तन्मध्ये वस्तु भवितुमर्हत्येव, अत्र ब्रूमः, तन्मध्ये 5 मध्यं वा किं जातमजातं वा वस्तु स्यात् ? यदि जातम् , अनुत्पादस्तहस्य जातत्वानिवृत्तघटवदित्यादि स एव ग्रन्थः, यावपि च तो कालौ तावपि न स्तः, विनष्टानुत्पन्नत्वात् तदभावे तदपेक्षत्वात्तन्मध्यवस्त्वभावः, दग्धेन्धनज्वालावत् , यद्धि पूर्वोत्तरयोः कालयोर्नास्ति तन्मध्ये कथं सम्भाव्येत ? असत्तद्भवति, पूर्वोत्तरकालयोरसत्त्वात् , खपुष्पवदिति । अथोच्येत किं न इत्यादि, स्यान्मतं किमताभ्यामाद्यन्ताभ्यां वस्तुनोऽस्वरूपाभ्यां विचारिताभ्यां 10 प्रयोजनम् , वस्तु विचार्यम् , एतौ ह्याद्यन्तौ वस्तुन आत्मलाभात् पूर्वोत्तरौ कालौ-वस्त्यात्मलाभात् पूर्वः काल आदिरुच्यते, उत्तरोऽन्तः, तयोरभावेऽपि वस्तु भवितुमर्हत्येव तन्मध्ये, तस्मादस्ति वस्त्वित्यत्र ब्रूमः तन्मध्ये मध्यं वेत्यादि तयोः पूर्वोत्तरकालयोर्मध्ये यत्तद्वस्तु भवितुमर्हतीति मन्यसे, यो वा पूर्वोत्तरकालयोमध्यक्षणश्चिन्त्यते तदुभयमपि किं जातमजातं वा वस्तु स्यात्, यदि जातमनुत्पादस्तबस्य जातत्वात् , निवृत्तघटवदित्यादि स एव त्रिषु योज्यो दोषापादनग्रन्थः, तुल्यदोषत्वात् , किश्चान्यत्-यावपि च तौ 16 कालौ पूर्वोत्तरौ तावपि न स्तस्त्वन्मतादपि, विनष्टानुत्पन्नत्वात् , तदभावे-तयोः कालयोरभावे तदपेक्षत्वास्तन्मध्यवस्त्वभावः, किमिव ? दग्न्धनज्वालावत् , यथेन्धनापेक्षया ज्वाला इन्धनापेक्षा भवन्तीति सम्भाव्या अपि निर्दग्धे तस्मिन्निन्धने न सन्ति तदपेक्षत्वात्तदभावे, तथा पूर्वोत्तरकालापेक्षं मध्यमित्यभिमतं वस्तु तदपेक्षत्वात्तदभावे नास्तीति प्रसक्तमेव, यद्धि पूर्वोत्तरयोः कालयोर्नास्ति तस्य मध्येऽस्तित्वं कया युक्त्या सम्भाव्येत ? न सम्भाव्यमित्यभिप्रायः, असत्तद् भवतीत्यादि, अत्र साधनमसत्तत् पूर्वोत्तरकालयोरसत्त्वात् , 20 खपुष्पवदिति । संस्कृतम्' इति ॥ इत्थमुत्पादस्थितिभङ्गानामसिद्धयाऽनुत्पन्नत्वादस्थितत्वादविनष्टत्वात् खपुष्पवद्वस्त्वसदेवेत्याह-इत्थमिति । भन्वाद्यन्तौ न वस्तुनः स्वरूपे तस्मात्तद्विचारेण नार्थः कश्चिदस्ति, वस्तुनः पूर्वोत्तरकालत्वात्तयोः, मध्यकाले तयोरभावेऽपि वस्तु भवितुमर्हत्येवेयाशङ्कते-अथोच्येतेति । व्याचष्टे-स्यान्मतमिति, कारणमादिः, अन्तो विनाशः, घटस्य पूर्वकालो मृत् आदिरुच्यते शकलादिश्चान्त उत्तरकाल उच्यते तौ च न वस्तुनः स्वरूपे, तयोरभावेऽपि मध्यकाले घटोऽस्त्येव, तस्मान्न वस्तुनोऽसत्त्व25 मिति भावः । आद्यन्तयोर्मध्यकाले यद्वस्तु यश्चाद्यन्तयोर्मध्यकालस्ते उभे किं जाते अजाते जाताजाते वा निष्ठिते अनिष्ठिते निष्ठिता; निष्ठिते वा विनष्टेअविनष्टे विनष्टाविनष्टे वेति विकल्पैर्विचार्यमाणयोः पूर्ववदनुत्पन्नत्वादसत्त्वं तयोः प्रसज्यत इत्यतिदिशति-तन्मध्ये मध्यं वेत्यादीति। यो च पूर्वोत्तरकालौ तौ मध्यकाले न स्तः पूर्वकालस्य विनष्टत्वात् , उत्तरकालस्य चानुत्पन्नत्वात्, तयोस्त्वभावे मध्यकालोऽपि न भवति तस्य पूर्वोत्तरकालसापेक्षत्वेन तदभावे कथं मध्यकालो भवेत् , तदभावे च मध्यकालीनवस्तुनो ऽप्यभाव एवेत्याह-यावपि चेति । दृष्टान्तमाह-दग्धेन्धनज्वालावदिति, भस्मीभूते सतीन्धने तदपेक्षा यथा ज्वाला न 30 भवति तद्वदित्यर्थः । तमेव व्याचष्टे-यथेन्धनापेक्षयेति । दार्टान्तिकमाह-तथा पूर्वोत्तरेति । यद्वस्तु पूर्वकाले उत्तरकाले च नास्ति तन्मध्यकालेऽस्तीति कथं सम्भाव्यतेत्याह-यद्धीति । इदमेव प्रयोगेण दर्शयति-असत्तदिति । मध्यकालीनत्वेनाभिमतं वस्तु न सत्, पूर्वोत्तरकालयोरसत्त्वात् , यद्धि पूर्वोत्तरकालयोर्नास्ति तन्मध्येऽपि नास्ति, यथा खपुष्पादि, तथा चेदमिति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy