________________
सामग्रीदर्शनहेतुः] द्वादशारनयचक्रम्
११४५ .... अथोच्येत आदौ मध्ये, न चोत्पन्नमात्रे, कार्य तत्त्वोपनिलयनात् प्रागसदेव, तदर्थ प्रवृत्तेः, न हि तदर्थित्वं सति तस्मिन्नुपपद्यते, तत्त्वोपनिलयनादुत्तरकालमस्ति, तदर्थमप्रवृत्तेः, न ह्यसति तस्मिंस्तदर्थी न प्रवर्त्तते, एतदसत्यम् , तदसत्त्वानिवृत्तेरसदेव स्यात् पुनरपि, तदादिमध्यान्तेष्वभूतत्वात् खपुष्पवदिति । - अथोच्येतेत्यादि, आदौ-आरम्भे, मध्ये-क्रियाकाले, न चोत्पन्नमात्रे-क्रियापरिसमाप्तौ, कार्य- 5 द्रव्यादि द्रव्यत्वादि-तत्त्वोपनिलयनात् प्रागसदेव, कस्मात् ? आदौ मध्ये च तदर्थं प्रवृत्तः, न हि तदर्थित्वं सति तस्मिन्नुपपद्यते, तत्त्वोपनिलयनादुत्तरकालमस्ति, कस्मात् ? तदर्थमप्रवृत्तेः, उपरतक्रियत्वात् , न ह्यसति तस्मिंस्तदर्थी न प्रवर्त्तते, अत्र ब्रूमः-एतदसत्यं तदसत्त्वानिवृत्तेरसदेव स्यात् पुनरपि, तदादिमध्यान्तेष्वभूतत्वात् , खपुष्पवदिति, एवं तावदनुत्पादादपि शून्याः सर्वभावाः ।
इतश्च नास्ति वस्तु सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते न प्रत्येकं स्वरूपेण, 10 यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वम् ? इह लोके यावती घट इति संज्ञा कपालसामय्यां पट इति संज्ञा तन्तुसामग्र्यां रूपमिति च संज्ञा तत्सन्ताने तत्सामग्रीमात्रमेव, सामग्री च भावानां भावान्तरं प्रति व्यापारः, यथा तन्तूनां पटं प्रति व्यापारः, तत्र च सामग्यामेकैकोऽवयवो नावयवी सम्भवति, तच्छत्यभावात् , न तावद्धेतुप्रत्ययसामग्री, पृथग्भावेष्वदर्शनात् , नापि तत्स्वरूपपृथक्त्वम् , अप्रत्यक्षतः, अनुमीयतेऽपि च नास्तीति, 15 तत्सान्निध्य एव तदर्थप्रवृत्तेः, यच्च येषु नास्ति तेषु तदर्थी तदर्थं न प्रवर्तते घटपटवत्, न हि कुम्भः पटे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्त्तनं पटे दृष्टम् , पटोऽपि वा कुम्भे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्तनं कुम्भेऽपि दृष्टम् ।
(इतश्चेति) इतश्च नास्ति वस्तु सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते घटपटादयो न प्रत्येकं स्वरूपेण, यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वम् ? सिकतातैलवदित्युपनयार्थो 20
भावः । ननु पूर्वोत्तरकालयोरुभयोरसत्त्वमसिद्धम्, तत्त्वोपनिलयनात् पूर्व काले कार्यस्यासत्त्वात्तत्त्वोपनिलयनादुत्तरकाले च सत्त्वादि. त्याशङ्कते-अथोच्येतेति। व्याचष्टे-आदाविति । घटादिजनकक्रियाप्रारम्भकाले मध्ये-घटादिजनकक्रियाकाले च घटोsसन्, घटत्वोपनिलयनकालात् प्राक्कालावेतो, तदानीं घटार्थिनां घटविषयप्रवृत्तिदर्शनात्, न हि तदानीं घटे विद्यमाने घटार्थिनां घटार्थप्रवृत्तिरवलोक्यते, तस्माद्धटत्वोपनिलयनात् प्राकाले घटोऽसन्निति भावः । उत्पन्नमात्रे घट जनकक्रियापरिसमाप्तौ तु घटत्वोपनिलयनस्य संजातत्वात्तदुत्तरकालेऽस्ति घटः, तदानीं घटार्थिनां घटविषयप्रवृत्त्यदर्शनात् , न हि तदानीमसति घटे घटार्थी न 25 प्रवर्तत इति युज्यतेऽनुमन्तुम, तस्मात् पूर्वोत्तरकालयोरसत्त्वमसिद्धमित्याशयेनाह-तत्त्वोपनिलयनादिति। घटादि वस्तुनः पूर्वे काले उत्तरस्मिंश्चासतो मध्यकालेऽप्यभावेनादिमध्यान्तेष्वभूतत्वात् खपुष्पवदसत्त्वं तथापि न निवृत्तमिति सर्वभावा अनुत्पन्नाविनष्टत्वाच्छून्या एवेत्युपसंहरति-एतदसत्यमिति । अथ घटायुत्पादकत्वेनाभिमतायां सामन्यां घटादेदशेनेऽपि न सर्वभावाः सन्तीत्याह-इतश्च नास्ति वस्त्विति । ननु घटपटादयोऽवयवित्वेन सम्मता भावाः कपालतन्त्वादिसामग्यामेव स्युः तत्रैव दर्शनात्, किन्तु ते सामग्रीघटकेष्वेकैकस्मिन् स्वरूपेण न सन्ति, तथा चैकैकस्मिन् यत्स्वरूपेण नास्ति तत्समुदायेऽपि 30 नास्त्येव, प्रत्येक सि कताखसतस्तैलस्य समुदायेऽसत्त्ववत् , तस्मान्न सन्यवयवित्वेन सम्मता भावा घटादय इत्याशयेनाह-सामम्यामिति । व्याप्युपोद्वलक निदर्शनमग्रे वक्ष्यमाणमाह-सिकतेति । सामन्यां भावा दृश्यन्त इत्यस्यैव भावना क्रियते
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org