________________
१९४६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनया भविष्यति, तद्भावना-इहलोके यावतीत्यादि, घट इति संज्ञा कपालसामग्र्यां पट इति तन्तुसामग्र्यां रूपमिति तत्सन्ताने-क्षणोत्पत्तिविनंष्ट्ररूपसन्ताने, चशब्दादन्यद्वा यत्किञ्चिद्रसादि मुष्टिपंक्त्यादि वा देशकालभिन्नावयवसंघातमात्रं सामग्रीमात्रमेवेति, का सामग्री ? उच्यते भावानां भावान्तरं प्रति व्यापारः, तत्प्रदर्शनम् यथा तन्तूनां पटं प्रति व्यापारः, अवयविनोऽवयवत्वेन व्याप्रियमाणा अवयवा एव तथातथा5 वस्थिताः सामग्रीत्युच्यन्ते, अवयववैकल्ये तदभावात् , तत्र चेत्यादि, इत्थंभूतायाञ्च सामग्र्यां व्याहतानां तन्त्वाद्यवयवानामेकैकोऽवयवो नावयवी सम्भवति, तच्छत्यभावात् प्रत्येकमसत्त्वे तत्समुदितावप्यसत्त्वमित्यवयविनः सर्वथाऽप्यभाव एव स्यात्, तद्भावयति-न तावदित्यादि, हेतुप्रत्ययसामग्री पृथग्भावेष्वदर्शनात्-नास्ति हेतुषु-तन्तुषु पटो नास्ति, प्रत्यये-निमित्तकारणेषु तुरीवेमशलाकादिषु नास्ति, तस्मान्नास्ति
सामग्री तदवयवीत्यर्थः, नापि तत्स्वरूपपृथक्त्वम् , अप्रत्यक्षत इति, प्रत्यक्षेणैव हि प्रमाणेन तन्तुस्वरूपे तुर्यादि10 स्वरूपे वा पृथगनुपलब्धा सामग्री पटाख्या, अनुमीयतेऽपि च नास्तीति, तत्सान्निध्य ए [व] तदर्थप्रवृत्तेःसन्निहितेष्वेव हेतुप्रत्ययेषु तन्तुतुर्यादिषु पटार्थी पटो नास्तीति मत्वा तदर्थं प्रवर्त्तते, ततो नास्ति, किमिव ?
इह लोक इति, इह जगति येऽमी घट इति वा पट इति वा रूपमिति वा मुष्टिरिति वा पतिरिति वा व्यपदेशा दृश्यन्ते ते सर्वेऽ. वयवसामय्यामेव भवन्ति न ततो व्यतिरिक्तः कश्चन घटाद्यवयवी वर्तते, यथा कपालसामग्र्यां घट इति व्यपदेशः तन्तुसामध्य
पट इति क्षणिकरूपादिसन्ताने रूपमित्यादि आकुञ्चिताङ्गलिसमुदाये मुष्टिरिति अव्यवहितानुपूर्वी विशिष्टाक्ष 15 विशिष्टदेशकालभेदेन विभिन्नावयवसङ्घातविशेष एव घटादय इति भावः। सामग्रीपदार्थमेव तावद्दर्शयति-का सामग्रीति,
भावान्तरं पटादिकं प्रति भावस्य तन्त्वादेविशिष्टसङ्घातरूपेण योऽयं व्यापारो-व्याप्रियमाणता सैव सामग्रीत्यर्थः। दृष्टान्तमाहयथेति । एवं सामग्रीमात्रदर्शनाद्भावानामभावे प्रतिपादितेऽपि न सर्वशून्यताऽऽयाता, सामग्रीसत्त्वादित्याशङ्कायां तस्या अप्यभावं प्रतिपादयितुं सामग्रीलक्षणं व्याचष्टे-अवयविन इति, अवयवित्वेनाभिमतस्य पटादेरवयवा एव तन्त्वादयो विशिष्टसंस्थान
रूपेण जायमानाः सामग्रीत्युच्यन्त इति भावः । विशिष्टसंस्थानेन जायमानानामवयवनामेव सामग्रीत्वात् कस्यचिदप्यवयवस्य वैकल्ये 20 कार्य न भवतीत्याह-अवयवेति, अवयवस्यासम्पूर्णतायां कार्यस्य सामग्या वाऽभावादित्यर्थः । यदि पटादि स्यात्तहीदृशी सामग्येव स्यात्, न ततो व्यतिरिक्तमिति निरूप्येदानी पटाद्यभावमाह-इत्थम्भूतायाश्चेति, विशिष्टसंस्थानसमवस्थितावयवसमुदायस्वरूपसामग्रीघटकप्रत्येकावयवस्यावयवित्वासम्भवे समुदितेष्वप्यवयवेषु नावयवित्वं सम्भवतीति घटपटाद्यवयविनः सर्वथाप्यसम्भव एवेति भावः। प्रत्येकावयवस्यावयवित्वाभावे हेतुमाह-तच्छक्त्यभावादिति, एकैकस्मिन्नवयवेऽवयवित्वभवनशक्त्यभावादित्यर्थः । प्रत्यकमसतः समुदायासत्त्वमित्याह-प्रत्येकमिति । अवयव्यभावमेवोक्तं दृढीकरणाय भावयति-न तावदित्या25 दीति, हेतुप्रत्ययेषु पृथग्भावेषु न तावत् सामम्यस्ति, अदर्शनादित्यर्थः । व्याचष्टे-नास्ति हेतुष्विति, उपादानतयाऽभिमतेषु कारणेषु सामग्री अवयविलक्षणा नास्ति, प्रत्ययेषु-निमित्तकारणेषु तुरीवेमादिष्वपि नास्ति सामग्रीति भावः। हेतुप्रत्ययखरूपव्यतिरिक्तवरूपतापि सामय्या नास्तीत्याह-नापीति, हेतुप्रत्ययस्वरूपात् पार्थक्यं सामय्या नास्तीत्यर्थः । सर्वत्र हेतुमाहअप्रत्यक्षत इति, उपलब्धिलक्षणप्राप्तस्य पृथगनुपलम्भादित्यर्थः । व्याचष्टे-प्रत्यक्षेणैव हीति। अनुमानादपि सामग्यभावमाह-अनु ऽपि चेति, हेतुप्रत्ययेषु नास्ति सामग्री, तत्सान्निध्य एव तदर्थप्रवृत्तः, वैधय॒ण घटपटवदिति प्रयोगः । 30 हेतुमाह-तत्सान्निध्य इति, हेतुप्रत्ययसन्निधान एवेत्यर्थः । हेतुं व्याचष्टे-सन्निहितेष्वेवेति । हेतुप्रत्ययेषु यदि सामग्री स्यात् तर्हि तत्सन्निधाने सति पटार्थी तदर्थं न प्रवर्तेत, पटस्य सत्त्वात् , प्रवर्त्तते तु, तस्मात्तेषु पटो नास्तीति भावः । यच्च येषु कारणासमवहितेषु नास्ति तेषु तदर्थी तदर्थं न प्रवर्तते यथा घटे कारणासन्निहिते पटस्याभावात् न हि पटार्थी पटार्थ घटे प्रवर्तत इति दृष्टम् , पटे वा कारणासन्निहिते घटाभावाद्धटार्थी घटार्थ पटे प्रवर्तत इति दृष्टमिति वैधयं प्रकाशयति-यश्च
१ सि. छा. डे. व्याप्यतानां ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org