Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 272
________________ वस्तुदर्शनाभावसाधनम् ] द्वादशारिनयचक्रम् ११४९ www ww सर्वथाप्ययुक्तय इत्यादि - न सन्ति युक्तयो येषामर्थानामयुक्तयस्ते, यद्यपि युक्तितो नोपलभ्यन्ते प्रत्यक्षत उपलभ्यन्ते दृश्यन्ते दृश्यमानाश्च निराकर्तुं न शक्यन्ते, अतो दर्शनावगृहीत सद्भावाः सन्तोऽर्थाः कल्पयितव्या इति, यदि कल्पयेरन् तथापि न सन्ति, तस्य दर्शनस्यासम्भवात् तद्व्याख्या - तदपि च दर्शनं नास्त्येव, कथं दर्शनं नास्ति ? उच्यते - यतो यावदित्यादि - यावद् दृश्यं तावत्, [ आरान्मध्य ] परभागम्, दृश्याभिमतस्य हि वस्तुन आराद्भाग एव दृश्यते न परमध्यभागौ दृश्येते तैश्चावश्यमारान्मध्यपरभागैर्भवितव्यं वस्तुनः, 6 तत्र यद्याराद्भागो दृश्यत इति प्रत्यक्षमिष्यते परमध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते ? तस्माददर्शनमेव वस्तुनः, न हि आराद्भागमेव वस्त्विति । www अथ मतमाराद्भागो नियमात् प्रत्यक्षतो ग्रहीष्यते परमध्यभागावप्यनुमानात् कालान्तरे च प्रत्यक्षतो ग्रहीष्येते इति, न तत्रापि त्रिभागत्वतुल्यत्वाददर्शनमेव सावयवत्वात् समस्तवस्त्वदर्शनवत् अथ मतं भागो द्रक्ष्यत इति परमाणवस्तर्हि गृह्यताम्, तेष्वदृश्यमानेषु 10 निर्भागेषु भागवद् दृश्यत इति का कथा ? भागान्तरादृश्यत्वात्, सिकता तैलवद्वा प्रत्येक दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात्, यदा च परमाणुर्न कस्यचिद् दृश्यस्तदा कुतः परमाणु संघातो भागवान् द्रक्ष्यते ? भागवति वा परमध्याग्रहणादगृह्यमाणे तदंशा निर्विभागाः परमाणवो ग्रहीष्यन्ते ? इति । www अथ मतमित्यादि, स्यादियं ते मतिराराद्भागस्तावग्रहीष्यते नियमात् प्रत्यक्षतः तथा मध्यपर- 15 भागानप्यनुमानात् कालान्तरे प्रत्यक्षतो ग्रहीष्येते, तस्मान्नादर्शनतेति, अत्र ब्रूमः - न तत्रापि त्रिभागत्वतुल्यत्वात्-आराद्भागेऽपि दृश्याभिमते त्रयो भागाः सम्भवन्त्येव, आरान्मध्यपरभागाख्याः सावयवत्वात्, विभज्यमानं हि सावयवं त्रिधा व्यवतिष्ठते ततस्तवात्रापि परमध्यभागा दर्शनम् त्रिभागतुल्यत्वात् समस्तवस्त्वदर्शनवदिति, एवं तावत् सावयवस्य त्रिभागस्य दर्शनासम्भवः, अथ मतं भागो द्रक्ष्यत इति-यन्निर्विभा दपीति । यद्यपि भावा युक्तिभिर्न सिद्ध्यन्ति प्रत्यक्षतस्तूपलभ्यन्ते, उपलभ्यमानाश्च प्रतिषेद्धुं न शक्याः, तस्माद्दर्शनबलेन 20 सिद्धसत्ताका भावा अभ्युपेया एवेति कथं शून्यतेत्याशङ्कते - तत्र परमताऽऽशङ्केति । एवं स्यात् कल्पना तेषां परन्तु भावानां दर्शनमेव तावन्न सम्भवतीत्याह-यदि कल्पयेरन्निति । कथं दर्शनं न सम्भवतीत्यत्राह - तदपि चेति । यद्दृश्यत्वेनाभिमतं तत् सभागम्, आरान्मध्यपरभागम्, तत्र दृश्यत्वेनाभिमतं वस्तु चक्षुषा न पूर्ण गृह्यते किन्त्वाराद्भाग एव तस्य गृह्यते, न तु मध्यपरभागौ, सन्निकर्षासम्भवात् न चाराद्भागमात्रमेव वस्तु भवितुमर्हति भागत्रयव्याप्यत्वाद्वस्तुन इति वस्तु न दर्शनविषय इत्याह- यावद् दृश्यमिति । भागत्रयव्याप्यत्वं वस्तुन आह - तैश्चेति । तत्राराद्भागमात्रदर्शनादेव यदि वस्तुनः 25 प्रत्यक्षत्वमिष्यते तर्हि विनिगमकाभावान्मध्यपरभागयोरदर्शनाद्वस्तुनोऽप्रत्यक्षत्वमेव कुतो नेष्यते ? तस्मादाराद्भागमात्रस्यावस्तुत्वाद्वस्तुनोऽदर्शनमेव युक्तमित्याह-यत्र यदीति । नन्विदानीमाराद्भागस्य प्रत्यक्षनैयत्ये मध्यपरभागयोरनुमानाद्वहः कालान्तरे वा प्रत्यक्षत इति वस्तुनो दर्शनं स्यान्नादर्शनमिति शङ्कते - अथ मतमिति । व्याख्याति - स्यादियमिति, आराद्भागेणेन्द्रियसन्निकर्षस्यावश्यं सद्भावात् स गृह्यतां नाम, मध्यपरभागौ तु तदानीमनुमानतः कालान्तरे वा प्रत्यक्षतो गृह्येते इत्येवं वस्तुप्रत्यक्षतेति भावः । घटादेरिव आराद्भागस्यापि भागत्रयव्याप्यत्वात्तस्यापि भाग एव गृह्यते नाराद्भागस्य पूर्णस्येत्युत्तरयति - न 30 तत्रापीति, आराद्भागेऽपीत्यर्थः । व्याचष्टे - आराद्भागेऽपीति भागत्रयाणामपि सावयवत्वात्तेऽपि त्रित्रिभागाः तेषु भागत्रयेष्वपि आराद्भाग एव गृह्येत न मध्यपरभागौ, तस्मान्न परिपूर्णवस्तुदर्शनं तत्रापीति भावः । एवं भागानां विभज्य - मानानां योऽयमन्तिमो भागो निर्विभागरूपः स तु गृह्यत एवेत्याशङ्कते - अथ मतमिति । व्याचष्टे - यदिति । स हि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364