Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
________________
mawwwm
अवयवावयव्यभावः]
द्वादशारनयचक्रम् घटपटवत्-यथा घटे सन्निहितेऽपि पटार्थी पटो नास्तीति मत्वा तदर्थ [न हि] प्रवर्तते, पटे वा सन्निहिते घटार्थी घटार्थम् , यच्च येषु नास्तीत्युपनयो गतार्थो यावत् कुम्भेऽपि दृष्टम् , नहीति वर्तते ।
अत्राह. ननु कुम्भस्य सिकताकणेषु प्रत्येकमदृष्टस्य दर्शनादिति, न सामग्रीतुल्यत्वात् , सामग्री हि साध्या तयैव तुल्यः कुम्भोऽपि, अस्माभिर्यदि दृष्टः स्यान्नत्वेतत्साध्यते-अस्ति : नास्ति वा सामग्रीति, तस्यैवोपन्यासात्तद्विपक्षाभिमत्याऽनैकान्तिकत्वचोदनं पाठमात्रमेतत् प्रत्येकमदृष्टस्य सिकतासु कुम्भस्य दर्शनमिति ।
(नन्विति) ननु सिकताकणेषु प्रत्येकमदृष्टः कुम्भः सामग्र्यां दृष्ट इत्यनैकान्तिकदोषोद्भावनं परः कुर्यात्-कुम्भस्य सिकताकणेषु प्रत्येकमदृष्टस्य दर्शनादित्य [त्र] ब्रूमः-न, सामग्रीतुल्यत्वात्-नानैकान्तिकः प्रत्येकमसत्त्वात् समुदायेऽप्यसदिति, यस्मात् सामग्री साध्या तयैव तुल्यः कुम्भोऽपि विपक्षत्वाभिमतः 10 साध्यत्वात् पक्ष एव, तस्यापि कुम्भपरिणामस्य समुदायत्वात् , तस्माद्विपक्षासिद्धेरनैकान्तिकचोदनाभासं जात्युत्तरमिदम् , तद्व्याख्या-अस्माभिर्यदि दृष्टः स्यान्नैवमुच्येत सामच्या अप्यभाव इति, तदेव स्मारयति प्रस्तुतं-न त्वैतत्साध्यते अस्ति नास्ति [वा] सामग्रीति, तस्यैवोपन्यासात्तद्विपक्षाभिमत्याऽनैकान्ति [क] त्वचोदनं पाठमात्रमेतत् प्रत्येकमदृष्टस्य सिकतासु कुम्भस्य दर्शनमिति, एवं तावत् सामग्री नास्तीति प्रतिपादितम् ।
अवयवास्तर्हि सन्तीति चेन्न, आरूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात् , रूपादयोऽपि 15 न स्वतो रूपादित्वं लभन्ते यस्मात् रूपादयस्तु रूपणादिनिरूपित विज्ञानसाराः तत्र रूपादीनां परस्परतः पृथक्त्वं हेतुत्वञ्च बुद्धौ वृत्तेरेव नावृत्तेः, तस्मान्न बहिरस्तित्वं जनयितुमहंतस्ते हेत्वाद्यभावे सामग्यभावात् , सामग्रयभावे च का द्रव्यता? इतरेतरदोषाच्चेति ।
(अवयवा इति) अवयवास्तर्हि सन्तीति चेत्-स्यान्मतं पटस्य तन्तवोऽवयवाः सन्तीति, तन्न, येष्विति । ननु नास्ति सामग्री प्रत्येकासत्त्वात्, सिकतातैलवदिति यदुक्तं तत्र हेतोरनै कान्तिकत्वमुद्भावयति-ननु कुम्भ-20 स्येति । व्याचष्टे-नन्विति। सिकतासमूहे हि कुम्भो दृश्यते प्रत्येकं सिकताकणेष्वसन्नपीति प्रत्येकासत्त्वहेतोरनैकान्तिकत्वमिति भावः । कुम्भः सामग्र्यामस्तीत्येतदेवासिद्ध सामग्रीतुल्यत्वात् कुम्भस्य, सामग्रीमात्रस्यासत्त्वं हि मया निरूप्यते त्वया सामग्री. विशेषस्य कुम्भस्य सत्त्वं मन्वानेनानैकान्तिकत्वमुद्भाव्यते तच्चानैकान्तिकत्वोद्भावनमाभासमेव साध्यसमत्वाजात्युत्तररूपमिति समाधत्ते-सामग्रीतुल्यत्वादिति। नानकान्तिक इति, समुदायेऽप्यसत्, प्रत्येकमसत्त्वादिति मानं नानैकान्तिकमित्यर्थः । सामग्रीतुल्यतां स्फुटयति-यस्मादिति । समुदाये सत्त्वाभिमतः सामग्रीविशेषः कुम्भस्तव विपक्षतयेष्टः सामग्रीमात्रपक्षान्तर्गत-26 त्वात् पक्ष एवेति नास्य विपक्षतासिद्धिरिति अनैकान्तिकत्वचोदनाऽऽभासरूपाऽतो जात्युत्तरमिदमिति भावः । विपक्षत्वासिद्धिमेव स्फुटयति-अस्माभिरिति, कुम्भेऽस्माभिरपि समुदायनिरूपितं सत्त्वं यदि दृष्टं भवेत् तर्हि समुदाये सामग्री वर्तते न वा वर्तत इति सत्त्वासत्त्वान्यतरसाधनप्रयासः कथं क्रियेत, तस्माद्यत्रासत्त्वं सिषाधयिषितं तदेव गृहीत्वा विपक्षतया त्वयोद्भावनं प्रत्येकमदृष्टस्यापि सिकतासमुदाये कुम्भस्य दर्शनमिति तत् केवलं पाठमात्रमेव नानकान्तिकत्वसमर्थकमिति भावः । निगमयति-एवं तावदिति । ननु मास्तु सामग्री, तदवयवास्तु सन्त्येवेति कथं सर्वभावशून्यता सेत्स्यतीत्याशङ्कते-अवयवास्तौति । 30 व्याख्याति-स्यान्मतमिति सामग्र्यात्मकस्य पटस्याभावेऽपि तदवयवास्तन्तवो विद्यन्त एवेति न बाह्यार्थमात्रशून्यतेति भावः
mmarwww
१ सि.क्ष. छा. डे. कुम्भत्वस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364