Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 269
________________ १९४६ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनया भविष्यति, तद्भावना-इहलोके यावतीत्यादि, घट इति संज्ञा कपालसामग्र्यां पट इति तन्तुसामग्र्यां रूपमिति तत्सन्ताने-क्षणोत्पत्तिविनंष्ट्ररूपसन्ताने, चशब्दादन्यद्वा यत्किञ्चिद्रसादि मुष्टिपंक्त्यादि वा देशकालभिन्नावयवसंघातमात्रं सामग्रीमात्रमेवेति, का सामग्री ? उच्यते भावानां भावान्तरं प्रति व्यापारः, तत्प्रदर्शनम् यथा तन्तूनां पटं प्रति व्यापारः, अवयविनोऽवयवत्वेन व्याप्रियमाणा अवयवा एव तथातथा5 वस्थिताः सामग्रीत्युच्यन्ते, अवयववैकल्ये तदभावात् , तत्र चेत्यादि, इत्थंभूतायाञ्च सामग्र्यां व्याहतानां तन्त्वाद्यवयवानामेकैकोऽवयवो नावयवी सम्भवति, तच्छत्यभावात् प्रत्येकमसत्त्वे तत्समुदितावप्यसत्त्वमित्यवयविनः सर्वथाऽप्यभाव एव स्यात्, तद्भावयति-न तावदित्यादि, हेतुप्रत्ययसामग्री पृथग्भावेष्वदर्शनात्-नास्ति हेतुषु-तन्तुषु पटो नास्ति, प्रत्यये-निमित्तकारणेषु तुरीवेमशलाकादिषु नास्ति, तस्मान्नास्ति सामग्री तदवयवीत्यर्थः, नापि तत्स्वरूपपृथक्त्वम् , अप्रत्यक्षत इति, प्रत्यक्षेणैव हि प्रमाणेन तन्तुस्वरूपे तुर्यादि10 स्वरूपे वा पृथगनुपलब्धा सामग्री पटाख्या, अनुमीयतेऽपि च नास्तीति, तत्सान्निध्य ए [व] तदर्थप्रवृत्तेःसन्निहितेष्वेव हेतुप्रत्ययेषु तन्तुतुर्यादिषु पटार्थी पटो नास्तीति मत्वा तदर्थं प्रवर्त्तते, ततो नास्ति, किमिव ? इह लोक इति, इह जगति येऽमी घट इति वा पट इति वा रूपमिति वा मुष्टिरिति वा पतिरिति वा व्यपदेशा दृश्यन्ते ते सर्वेऽ. वयवसामय्यामेव भवन्ति न ततो व्यतिरिक्तः कश्चन घटाद्यवयवी वर्तते, यथा कपालसामग्र्यां घट इति व्यपदेशः तन्तुसामध्य पट इति क्षणिकरूपादिसन्ताने रूपमित्यादि आकुञ्चिताङ्गलिसमुदाये मुष्टिरिति अव्यवहितानुपूर्वी विशिष्टाक्ष 15 विशिष्टदेशकालभेदेन विभिन्नावयवसङ्घातविशेष एव घटादय इति भावः। सामग्रीपदार्थमेव तावद्दर्शयति-का सामग्रीति, भावान्तरं पटादिकं प्रति भावस्य तन्त्वादेविशिष्टसङ्घातरूपेण योऽयं व्यापारो-व्याप्रियमाणता सैव सामग्रीत्यर्थः। दृष्टान्तमाहयथेति । एवं सामग्रीमात्रदर्शनाद्भावानामभावे प्रतिपादितेऽपि न सर्वशून्यताऽऽयाता, सामग्रीसत्त्वादित्याशङ्कायां तस्या अप्यभावं प्रतिपादयितुं सामग्रीलक्षणं व्याचष्टे-अवयविन इति, अवयवित्वेनाभिमतस्य पटादेरवयवा एव तन्त्वादयो विशिष्टसंस्थान रूपेण जायमानाः सामग्रीत्युच्यन्त इति भावः । विशिष्टसंस्थानेन जायमानानामवयवनामेव सामग्रीत्वात् कस्यचिदप्यवयवस्य वैकल्ये 20 कार्य न भवतीत्याह-अवयवेति, अवयवस्यासम्पूर्णतायां कार्यस्य सामग्या वाऽभावादित्यर्थः । यदि पटादि स्यात्तहीदृशी सामग्येव स्यात्, न ततो व्यतिरिक्तमिति निरूप्येदानी पटाद्यभावमाह-इत्थम्भूतायाश्चेति, विशिष्टसंस्थानसमवस्थितावयवसमुदायस्वरूपसामग्रीघटकप्रत्येकावयवस्यावयवित्वासम्भवे समुदितेष्वप्यवयवेषु नावयवित्वं सम्भवतीति घटपटाद्यवयविनः सर्वथाप्यसम्भव एवेति भावः। प्रत्येकावयवस्यावयवित्वाभावे हेतुमाह-तच्छक्त्यभावादिति, एकैकस्मिन्नवयवेऽवयवित्वभवनशक्त्यभावादित्यर्थः । प्रत्यकमसतः समुदायासत्त्वमित्याह-प्रत्येकमिति । अवयव्यभावमेवोक्तं दृढीकरणाय भावयति-न तावदित्या25 दीति, हेतुप्रत्ययेषु पृथग्भावेषु न तावत् सामम्यस्ति, अदर्शनादित्यर्थः । व्याचष्टे-नास्ति हेतुष्विति, उपादानतयाऽभिमतेषु कारणेषु सामग्री अवयविलक्षणा नास्ति, प्रत्ययेषु-निमित्तकारणेषु तुरीवेमादिष्वपि नास्ति सामग्रीति भावः। हेतुप्रत्ययखरूपव्यतिरिक्तवरूपतापि सामय्या नास्तीत्याह-नापीति, हेतुप्रत्ययस्वरूपात् पार्थक्यं सामय्या नास्तीत्यर्थः । सर्वत्र हेतुमाहअप्रत्यक्षत इति, उपलब्धिलक्षणप्राप्तस्य पृथगनुपलम्भादित्यर्थः । व्याचष्टे-प्रत्यक्षेणैव हीति। अनुमानादपि सामग्यभावमाह-अनु ऽपि चेति, हेतुप्रत्ययेषु नास्ति सामग्री, तत्सान्निध्य एव तदर्थप्रवृत्तः, वैधय॒ण घटपटवदिति प्रयोगः । 30 हेतुमाह-तत्सान्निध्य इति, हेतुप्रत्ययसन्निधान एवेत्यर्थः । हेतुं व्याचष्टे-सन्निहितेष्वेवेति । हेतुप्रत्ययेषु यदि सामग्री स्यात् तर्हि तत्सन्निधाने सति पटार्थी तदर्थं न प्रवर्तेत, पटस्य सत्त्वात् , प्रवर्त्तते तु, तस्मात्तेषु पटो नास्तीति भावः । यच्च येषु कारणासमवहितेषु नास्ति तेषु तदर्थी तदर्थं न प्रवर्तते यथा घटे कारणासन्निहिते पटस्याभावात् न हि पटार्थी पटार्थ घटे प्रवर्तत इति दृष्टम् , पटे वा कारणासन्निहिते घटाभावाद्धटार्थी घटार्थ पटे प्रवर्तत इति दृष्टमिति वैधयं प्रकाशयति-यश्च १ सि. छा. डे. व्याप्यतानां । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364