Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 268
________________ सामग्रीदर्शनहेतुः] द्वादशारनयचक्रम् ११४५ .... अथोच्येत आदौ मध्ये, न चोत्पन्नमात्रे, कार्य तत्त्वोपनिलयनात् प्रागसदेव, तदर्थ प्रवृत्तेः, न हि तदर्थित्वं सति तस्मिन्नुपपद्यते, तत्त्वोपनिलयनादुत्तरकालमस्ति, तदर्थमप्रवृत्तेः, न ह्यसति तस्मिंस्तदर्थी न प्रवर्त्तते, एतदसत्यम् , तदसत्त्वानिवृत्तेरसदेव स्यात् पुनरपि, तदादिमध्यान्तेष्वभूतत्वात् खपुष्पवदिति । - अथोच्येतेत्यादि, आदौ-आरम्भे, मध्ये-क्रियाकाले, न चोत्पन्नमात्रे-क्रियापरिसमाप्तौ, कार्य- 5 द्रव्यादि द्रव्यत्वादि-तत्त्वोपनिलयनात् प्रागसदेव, कस्मात् ? आदौ मध्ये च तदर्थं प्रवृत्तः, न हि तदर्थित्वं सति तस्मिन्नुपपद्यते, तत्त्वोपनिलयनादुत्तरकालमस्ति, कस्मात् ? तदर्थमप्रवृत्तेः, उपरतक्रियत्वात् , न ह्यसति तस्मिंस्तदर्थी न प्रवर्त्तते, अत्र ब्रूमः-एतदसत्यं तदसत्त्वानिवृत्तेरसदेव स्यात् पुनरपि, तदादिमध्यान्तेष्वभूतत्वात् , खपुष्पवदिति, एवं तावदनुत्पादादपि शून्याः सर्वभावाः । इतश्च नास्ति वस्तु सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते न प्रत्येकं स्वरूपेण, 10 यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वम् ? इह लोके यावती घट इति संज्ञा कपालसामय्यां पट इति संज्ञा तन्तुसामग्र्यां रूपमिति च संज्ञा तत्सन्ताने तत्सामग्रीमात्रमेव, सामग्री च भावानां भावान्तरं प्रति व्यापारः, यथा तन्तूनां पटं प्रति व्यापारः, तत्र च सामग्यामेकैकोऽवयवो नावयवी सम्भवति, तच्छत्यभावात् , न तावद्धेतुप्रत्ययसामग्री, पृथग्भावेष्वदर्शनात् , नापि तत्स्वरूपपृथक्त्वम् , अप्रत्यक्षतः, अनुमीयतेऽपि च नास्तीति, 15 तत्सान्निध्य एव तदर्थप्रवृत्तेः, यच्च येषु नास्ति तेषु तदर्थी तदर्थं न प्रवर्तते घटपटवत्, न हि कुम्भः पटे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्त्तनं पटे दृष्टम् , पटोऽपि वा कुम्भे नास्तीति मत्वा तदर्थिनां तदर्थ प्रवर्तनं कुम्भेऽपि दृष्टम् । (इतश्चेति) इतश्च नास्ति वस्तु सामग्रीदर्शनादपि, सामग्र्यां भावा दृश्यन्ते घटपटादयो न प्रत्येकं स्वरूपेण, यच्च स्वरूपेण नास्ति तस्य सामग्र्यामपि कुतोऽस्तित्वम् ? सिकतातैलवदित्युपनयार्थो 20 भावः । ननु पूर्वोत्तरकालयोरुभयोरसत्त्वमसिद्धम्, तत्त्वोपनिलयनात् पूर्व काले कार्यस्यासत्त्वात्तत्त्वोपनिलयनादुत्तरकाले च सत्त्वादि. त्याशङ्कते-अथोच्येतेति। व्याचष्टे-आदाविति । घटादिजनकक्रियाप्रारम्भकाले मध्ये-घटादिजनकक्रियाकाले च घटोsसन्, घटत्वोपनिलयनकालात् प्राक्कालावेतो, तदानीं घटार्थिनां घटविषयप्रवृत्तिदर्शनात्, न हि तदानीं घटे विद्यमाने घटार्थिनां घटार्थप्रवृत्तिरवलोक्यते, तस्माद्धटत्वोपनिलयनात् प्राकाले घटोऽसन्निति भावः । उत्पन्नमात्रे घट जनकक्रियापरिसमाप्तौ तु घटत्वोपनिलयनस्य संजातत्वात्तदुत्तरकालेऽस्ति घटः, तदानीं घटार्थिनां घटविषयप्रवृत्त्यदर्शनात् , न हि तदानीमसति घटे घटार्थी न 25 प्रवर्तत इति युज्यतेऽनुमन्तुम, तस्मात् पूर्वोत्तरकालयोरसत्त्वमसिद्धमित्याशयेनाह-तत्त्वोपनिलयनादिति। घटादि वस्तुनः पूर्वे काले उत्तरस्मिंश्चासतो मध्यकालेऽप्यभावेनादिमध्यान्तेष्वभूतत्वात् खपुष्पवदसत्त्वं तथापि न निवृत्तमिति सर्वभावा अनुत्पन्नाविनष्टत्वाच्छून्या एवेत्युपसंहरति-एतदसत्यमिति । अथ घटायुत्पादकत्वेनाभिमतायां सामन्यां घटादेदशेनेऽपि न सर्वभावाः सन्तीत्याह-इतश्च नास्ति वस्त्विति । ननु घटपटादयोऽवयवित्वेन सम्मता भावाः कपालतन्त्वादिसामग्यामेव स्युः तत्रैव दर्शनात्, किन्तु ते सामग्रीघटकेष्वेकैकस्मिन् स्वरूपेण न सन्ति, तथा चैकैकस्मिन् यत्स्वरूपेण नास्ति तत्समुदायेऽपि 30 नास्त्येव, प्रत्येक सि कताखसतस्तैलस्य समुदायेऽसत्त्ववत् , तस्मान्न सन्यवयवित्वेन सम्मता भावा घटादय इत्याशयेनाह-सामम्यामिति । व्याप्युपोद्वलक निदर्शनमग्रे वक्ष्यमाणमाह-सिकतेति । सामन्यां भावा दृश्यन्त इत्यस्यैव भावना क्रियते _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364