Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 242
________________ निःस्वभावताख्यापनम्] द्वादशारनयचक्रम् १११९ अवका[शे] हस्तियूथादिदर्शनं निःस्वभावविषयं तदतत्स्वभावशून्यं तथा जाग्रतोऽपि, यथा वा मत्तस्य मदाद्याकुलस्य, सुप्तमत्तस्थानीया एव हि रक्तद्विष्टमूढाः पाषण्डिनः तदतदाकारप्रकल्पनानुपातिविज्ञानत्वात् , तदतत्वाभाव्येन विज्ञानकल्पिताकारसुप्तमत्तादिविज्ञानविषयवत् किमपि किमपीत्याभासात् परमार्थतो नास्ति कश्चिदाकारः, शून्यं तैस्तैराकारैरिदं गृह्यमाणमपि बुद्ध्या, प्राहकाकारपरिप्लवाद्राह्याकारभ्रान्तेः, तस्मान्न ग्राहकं शून्यमेवेति कल्पयितुं न्याय्यम् , किमिव ? शून्यगृहवत् प्रवेष्ट्रस्थातृनिर्गन्तृकल्पोत्पादादिरहितम्- 5 यथा शून्यगृहे न प्रवेष्टा न स्थाता [न] निर्गन्ता [नैवम ]त्रापि उत्पत्तिस्थितिविनाशसम्बन्धाः तथैवोत्पादस्थितिभङ्गरहितमिदं ज्ञानविज्ञेयाभिमतमित्युद्देशः । स च स्वभावश्चिन्त्यमानो न स्वतः नापि परतो न द्वाभ्याम्, नाप्यहेतुतः, अथ कथं स्वपरोभयाभावः ? ब्रूमः, असिद्ध्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः, असिद्धेस्तावत् दीर्घहस्वयोर्मध्यमानामिकाङ्गुल्योः दीर्घाया दीर्घस्वभावो न तावदीर्घ स्वात्मन्यस्ति परायत्तत्वा- 10 त्तस्यास्तस्य तद्धि अनामिकाह्रस्वत्वायत्तं यत् स्वात्मन्यसिद्धं तत् कथं परतः सिद्ध्येत् । (स चेति) स च स्वभावश्चिन्त्यमानो हेतुतो[ऽहेतुतो] वा स्यात् , यदि हेतुतः स्वतः परत उभयतो वा स्यात् , स च स्वभावो 'न स्वतो नापि परतो न द्वाभ्यां, नाप्यहेतुतः', अत्रोपपत्तिप्रश्नः अथ वत्वाच्छून्यमेव, न हि यथा तत् पश्यति तत्तत्स्वभावमन्यस्वभावं वा, एवं जाग्रदवस्थायां दृश्यमाना घटादयोऽपि तथाविधा इति भावः। एवं मत्तपुरुषजन्यज्ञानविषयपदार्थानां निःस्वभावतावदपि जगन्निःस्वभावमित्याह-यथा वेति । जगद्वस्तुप्ररूपकाः 15 पाषंडिनोऽपि रक्तद्विष्टमूढाः सुप्तमत्तोन्मत्तस्थानीया एवेति तद्विज्ञानं वस्तूनां निःस्वभावत्वेऽपि तदाकारामतदाकाराञ्च प्रकल्पनामनुसरति सुप्तादिविज्ञानवदित्याह-सुप्तमत्तेति । यथा सुप्तमत्तादिपुरुषीयविज्ञानविषयाणां तत्स्वभावतयाऽतत्स्वभावतया च विज्ञानैः परिकल्पिताकारत्वं तथैव जाग्रदवस्थायामपि किमपीदं किमपीदमिति प्रतिभासते वस्तु, परमार्थतस्तु नास्ति कश्चिदाकारो वस्तूनां किन्तु शून्यमेव तत्त्वमतो ग्राह्याभावाद्वाहकमपि न किञ्चिदस्ति, तस्माच्छून्यमेव सर्वमिति कल्पयितुं युक्तमित्याह-तदतत्स्वाभाव्येनेति । एतन्नये विज्ञानमेव तत्त्वं, परमार्थभूतः बाह्यः पदार्थो नास्ति, बुद्धिमात्रेणैव प्रमाणप्रमेयादिविभागः, न हि बाह्योऽर्थो 20 ग्राह्यो भवत्यसम्बन्धात् तादात्म्यासम्भवात् जन्यजनकभावासम्भवाच्च, न हि विज्ञानेनार्थस्योत्पत्तिः, न वाऽर्थेन विज्ञानस्य, विज्ञानं हि खाव्यवहितपूर्ववर्तिविज्ञानहेतुजन्यम्, नान्यः कश्चन सम्बन्धोऽस्ति, न च नीलपीतादिविज्ञानवैचित्र्यान्यथानुपपत्या बाह्योऽर्थों निमित्तहेतुर्भवति, विज्ञाने नीलादेः खाकारार्पणाक्षमत्वात् , अन्याकारस्यान्यत्रार्पणासम्भवात् , अन्यथा स्वस्य निराकारत्वापत्तेः, तस्मान्नास्ति बाह्य ग्राह्यम् , ज्ञानाकारवैचित्र्यन्तु पूर्वविज्ञानवैलक्षण्योद्भावितपूर्वपूर्वज्ञाननिष्ठशक्तिविशेषादेव, संसारस्यानादित्वात् , तस्मात् विज्ञानमेव वासनावैचित्र्यान्नीलपीताद्याकारमवभासते न बाह्यो नीलादिः परमार्थः, तस्मादयं नील इत्यादिजाग्रद्विज्ञानं 25 स्वप्नविज्ञानं स्वावभासमात्रं बहिर्वदवभासस्तु वासनाविपर्पयकृतो भ्रम एवेति विज्ञेयम् , अत एव बुद्ध्या तैस्तैराकारैर्नीलादिभिर्गृह्यमाणमपीदं शून्यमेव वासनावैचित्र्यादेव ग्राहके विज्ञाने आकारस्य परिप्लवात् परितो गमनात् ग्राह्याकारो बाह्यो भ्रम एव, तस्मान्न बाह्यवस्तुग्राहक विज्ञानमिति विज्ञानव्यतिरिक्तत्वेनाभिमतं सर्व शून्यमेवेत्याह-तैस्तैराकारैरिति । प्रवेष्ट्रस्थातृनिर्गन्तृरहितशून्यगृहवत् उत्पत्तिस्थितिविनाशसम्बन्धरहितं ज्ञानाज्ज्ञेयत्वेनाभिमतमिदं सर्व जगदिति निराकारविज्ञानवादिमतवस्तुसंकीर्तनमित्याहशून्यगृहवदिति । वस्तूनां निःस्वभावत्वसिद्ध्यर्थ वस्तु स्वभावत्वेनाभिमतं स्वभावं निराकर्तुमाह-सच स्वभाव इति । 30 उत्पादस्थितिभङ्गा एव वस्तूनां स्वभावः, तत्र विद्यमानस्य कथमुत्पादः, अविद्यमानस्य खपुष्पायमाणत्वात् कथमुत्पादः, एवञ्च स न खभावो भवितुमर्हति एवं स्थितिरपि, निरुद्धं निरुध्यमानञ्च न निरुध्यते, अनिरुद्धमपि न निरुध्यत इति निरोधो न स्वभावः, तस्मात्-'यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादः तथा स्थानं तथा भङ्ग उदाहृतः ॥ इति माध्यमिका कारिका । तत्र वस्तूनां स्वभावः किं हेतुतः उताहेतुतो भवति, यदि हेतुत उच्यते स हेतुः खं वा परो वोभयं वेत्याह-स चेति । हेतुतः स न सम्भवतीत्याह-स च स्वभाव इति । 'न खतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः 35 द्वा० न० १६ (१४१) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364