Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 248
________________ mammam घटादिस्वरूपासिद्धिः] द्वादशारनयचक्रम् ११२५ घटत्वस्य, सोऽप्येवमघटो न भवति, एतद्धटायत्तत्वादघटत्वस्य, तयोः परस्परायत्तवृत्तित्वात् कदा घटः सेत्स्यति प्रत्येकव्यत्यात्मा ? यदाऽसावघटो भवेत्, अघटश्च घटसिद्धौ सेत्स्यतीतीतरेतराश्रयत्वादसिद्धिः। (एवमिति) एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति, तद्व्याचष्टे-न घटे घटत्वम्, परायत्तत्वात् घटस्येत्यादि यो दीर्घत्वप्रतिषेधे न्यायः स एवात्रापि दीर्घस्थाने घटं कृत्वा हस्वस्थाने पटाद्यघटं घटान्तरं । च कृत्वा, घट एवाघटो दृष्टः, इतरस्य घटस्येतरघटत्वाभावात् देशकालाकारादिभेदाच्च परस्परतः, तस्मात् परायत्तत्वं-घटान्तरे पटादौ वाऽऽयत्तं, यदि हि स्वविषयमेवैतत् स्यात् घटो न घटोऽपि स्यात् , कथं पुनरघटोऽपि भवतीत्यत आह-भवत्वितरेतरः तस्य चाघटत्वे एवम्-तस्य घटस्यैवाघटत्वे यथाऽसावघटः तथाऽन्येऽपि घटा अघटा एवेति घटाभावः, पटादयस्त्वघटा एव सिद्धाः, तस्य-घटस्याभावेऽघटाभावः, कस्मात् ? घटापेक्षत्वादघटत्वस्य, सोऽप्येवमघटो न भवतीत्यघटः, तस्मादन्यो घटः पटो वा, 10 एतद्भूटत्वायत्तत्वादघटत्वस्य, परस्परायत्तवृत्तित्वात् घटत्वाघटत्वयोः, तद्दर्शयति-कदा घटः सेत्स्यति प्रत्येकव्यक्त्यात्मा घटान्तरव्यावृत्तविविक्तस्वरूपः ? यदासावघट इत्यादि पूर्ववदन्थो नेयो दीर्घह्रस्वयोरिव घटाघटयोर्यावदितरेतराश्रयत्वादसिद्धिः, एवं तावत् घटे नास्ति घटत्वम् । स्यान्मतमेवं तर्हि देर्शितदिशाऽघट इत्याद्यधुना व्याख्यातदिशाऽघट' एव घटत्वं वर्त्तते तथा दृष्टत्वादिति मन्यसे चेत्-अत्रापि ब्रूमः 15 त्राह-न घट इति। स एव दीर्घत्वप्रतिषेधग्रन्थं न तावद्धटे स्वात्मनि घटत्वं वर्तते परायत्तत्वात् , घटत्वं ह्यघटव्यावृत्तिरूपमतोऽ पेक्षतेऽघटं घटत्वम्, यत् स्वात्मन्यसिद्धं सिद्ध्येत्तत् कथं परतः? इति दीर्घस्थाने घटं प्रक्षिप्य ह्रस्वस्थाने चाघटं पटादि घटान्तर वा संयोज्य गमनीयमिति भावः । ननु कथमघटो घटान्तरमित्यत्राह-घट एवाघटो दृष्ट इति, न ह्यपरघटोऽप्येतद्धट एव, एतद्धटवृत्तित्वविशिष्टघटत्वस्य तत्राभावात् , घटघटान्तरयोश्च भिन्नदेशवृत्तित्वात् , भिन्नकालवृत्तित्वात् , भिन्नाकारादित्वाच परस्परं भेदादिति भावः। तस्मात् परायत्तत्वमित्याह-तस्मादिति । नन्वात्मायत्तमेव घटे घटत्वं न परायत्तम् , नैवम् , अघट-20 स्याघटत्वं न स्यादपरायत्तत्वात् , सोपि घट एव स्यात् , यथा हि घटोऽघटनिरपेक्षो घटस्तथाऽघटोऽपि घटनिरपेक्षः खत एव घटः स्यात् , घटवत्, न तु भवति, तस्याघटत्वेष्टेः, अथापि घट एवेष्यते घटस्य घटत्वं न स्यात् , एवञ्च घटोऽघटः स्यादित्याशयेनाह-यदि हीति । कथं घटस्या घटत्वमित्यत्राह-भवत्विति, अघटे घटत्वस्य घटेऽघटत्वस्य योगे भवतीति भावः। ततः किमित्यत्राह-तस्य चेति, एवं सति सर्वेषां घटानामभावः स्यात्, एतद्धटस्याघटत्ववदितरेषामपि घटानामघटत्वादिति भावः । अघटो हि पटादिरपि घटोऽपि, पटादौ घटाभावस्तु सिद्ध एव, किन्तु घटस्याभावः स्यात् , घटो ह्यघटमपेक्ष्य घट उच्यते स 25 चेदघटो न भवति कमन्यमपेक्ष्य घटो घटः स्यादिति घटाभावः, एवञ्च घटस्य घटत्वाभावात् घटापेक्षाघटस्याऽप्यभाव इत्याहतस्येति । घटादन्योऽघटः पटो घटो वेत्याह-तस्मादन्य इति। पटघटान्तरयोरघटत्वमेतद्धटापेक्षं घटत्वाघटत्वयोः परस्परायत्तवृत्तित्वादित्याह-एतद्धटत्वेति । कदा घटः सेत्स्यति सजातीयविजातीयव्यावृत्तः ? यदाऽसावघटो भवेत् , अस्याघटत्वच्च घटस्य घटत्वसिद्धौ सेत्स्यतीति परस्पराश्रयत्वान्न सिद्धिः परस्परप्रतिबद्धवाताहतनौद्वयवदित्याह-कदा घट इति । इत्थं नास्ति घटे घटत्वमित्युपसंहरति-एवं तावदिति । नन्वपरापेक्षत्वात् घटस्याघटनिरपेक्षघटत्ववदघटोऽपि घटनिरपेक्षो घटः स्यादित्युक्त-30 दिशाऽघट एव घटत्वं वर्तते, अघटायत्तं घटत्वमपि घटस्य भवितुमर्हति, तथा चाघटे घटत्वमघटत्वञ्च स्यादित्यवतारयति १ सि. क्ष. छा. डे. नाघटोऽपि । २ सि. क्ष. छा. डे. भावोऽघटा०। ३ सि. क्ष. छा. डे. दर्शितदिगघट० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364