Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 249
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमनियमनयः अथाघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे घटत्वस्याभावात् प्रतिद्वन्द्वित्वाच्चाघटे कथं घटत्वं स्यात्, ह्रस्वदीर्घत्ववत्, अघटस्य च घटत्वे घट एव सः प्राप्तः तस्मात् को घटो नामघटादन्य इति घटाभावः, घटत्वाभावात्मकत्वादघटत्वस्य, अघटाभावाच्च नास्ति घटत्वम्, घटत्वास्याघटे वृत्ते घटत्वावष्टब्धेऽघटत्वानवकाशात्, अघटाभावे व घटत्वं वर्त्तेत ? 5 तथापि पुनर्न सिद्ध्यति घटत्वं स्वात्मनि परत्र वा वृत्त्यसम्भवात् । (अथेति) अथाघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे पटादौ घटत्वास्याभावात् प्रतिद्वन्द्वित्वाच्चविरोधिन्यघटे घटत्वं विरोधि कथं स्यात् ? विरोधिनो: सहाभावे दृष्टान्तः - हस्वदीर्घत्ववत्, अघटस्य च घटत्वे-अघटे चेद्वर्त्तते घटत्वं घट एव सोऽघटः संवृत्तः, तस्मात् को घटो नामाघटादन्य इति घटाभावः, कस्मात् ? घटत्वाभावात्मकत्वादघटत्वस्येत्यादि पूर्वोक्तहस्वदीर्घत्ववदिहापि नेयम् । ११२६ 10 स्यान्मतमुभयत्रेति तत्— न द्वये, उक्तन्यायात् द्वयोरन्यतरत्राप्यसिद्धस्य कुत उभयत्र सिद्धिः स्वपरयोः, प्रतिद्वन्द्वत्वाद्वा तयोः सहवृत्तिरयुक्ता, अयमपि च न्यायश्चिन्त्यः किमघटे घटत्वं वर्त्तमानमुभयत्र भावं लभते ? उत घट एव वर्त्तमानमिति, यद्यघटे विद्यमानमुभयत्र भावं लभते ततो वर्त्तमानं घटत्वं घटस्य घटत्वं कथं कुर्यात्, तद्बुद्धिञ्चादध्यात् ? ततोऽन्यत्र वृत्तत्त्वात् ह्रस्वादीर्घ15 प्रत्ययवत्, अथ घट एव घटत्ववृत्तिरिष्यते ततो घट एव वर्त्तमानं घटत्वं घटतां करोति तत्प्रत्ययञ्चाधत्ते तत्रेतीष्यते किन्तु अघटेन घटेतरेणेतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारबलादेव तत्सिद्धेः, अथ तथापि तत्र घटतां न करोति न एतत्प्रत्ययश्चादधातीति मन्यसे ततः कथं त्वयोच्यते मन्यते च घट इति ततोऽन्यत्र वृत्तत्वात् हस्वादीर्घत्वप्रत्ययवत् अथोच्येताघटे घटतां नैव करोति तत्प्रत्ययमपि नादधातीति, तदपि न, घटाघटयोः परस्परापेक्ष20 सिद्धेर्लोके दृष्टत्वात् तद्यथा - सिद्धार्थकेत्यादि मेरुपर्यन्तानामितरेतरापेक्षघटाघटानां दृष्टानामघटे वृत्तस्य घटत्वस्य घटाकरणघटप्रत्ययानाधानाभ्युपगमेऽत्यन्तघटाभाव एव प्रसक्तः, नैव घटो भवेत् घटाकरणात् ह्रस्वत्ववत् तत्प्रत्ययोऽपि न भवेत्, घटप्रत्ययानाधानात्, हस्वप्रत्ययवदिति, एवं न घटत्वेऽपि नाघटेऽघटत्वमित्यादि यावद्घटत्ववदनुसर्त्तव्यम् । " ( न द्वय इति ) न द्वये यथा घट इत्यादि ह्रस्वदीर्घयोरिव घटाघटयोः प्रत्येकमसिद्धेर्भावितमेव 25 मूलम् - स्यान्मतमिति । अघटे घटत्वं निरस्यति - अथाघटेऽपीति । अघटे घटत्वस्य प्रत्यक्षतो विरोधान्न सम्भवतीत्याहप्रत्यक्षत एवेति । घटाघटत्वयोः विरोधित्वेन परस्परपरिहारस्थितिकत्वात् अघटे घटत्वं कथं स्यात्, यथा हस्खे दीर्घत्वस्य नास्ति वृत्तिता तद्वदित्याह - प्रतिद्वन्द्वित्वाच्चेति । तथापि तद्वृत्तित्वाङ्गीकारे घटत्वावष्टब्धस्य घटत्वादघटोऽपि घट एव स्यात्, तथा चाघटादन्यस्य घटस्याभावात् कस्तदन्यो घट इति घटाभावः प्रसक्तः, अघटस्य घटत्वाभावात्मकत्वादित्याह - अघटस्य चेति । भवतु घटाघटोभयविषयं घटत्वमित्याशङ्कायामाह - न द्वय इति । प्रत्येकवृत्तिन्यायमुक्तं स्मारयति - यथा घट इत्यादीति । 30 यथा न घटे घटत्वं परायत्तत्वादिना तथाघटेऽपि न घटत्वमित्यादिना च ह्रस्वदीर्घयोरिव प्रत्येकमसिद्धिर्भाविता, एवं स्वपरयोरपि भावनीयाऽसिद्धिः, प्रत्येकमसिद्धसत उभयत्र सिद्धसत्त्वायोगादिति भावः । इतरेतरयोगरूपोभयत्र वृत्तिर्घटादन्यत्राघटे वर्त्तमाने Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364