Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 260
________________ Mmmmm mmmmammmmm wmmmmmmmmm वैपरीत्यबहुत्वप्रसङ्गः] द्वादशारनयचक्रम् ११३७ यदि तु ताभ्यामप्यन्यस्ततो घटस्य शून्यत्वम् , अस्तित्वैकत्वशून्यत्वात् खपुष्पवदिति प्रागुक्तो दोषः, अनन्यत्वे तु सर्वमेव घटः, अस्तित्वैकत्वानर्थान्रत्तवात् घटस्वतत्त्वानर्थान्तरघटवदिति, अथैवं नेष्यतेऽनन्तरत्वञ्च न त्यज्यते ततो घटोऽपि घटो मा भूद्भवनविशेषहेत्वभावात् , एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतोघंटो घट एव नियतरूपो न तु पटो घट इष्टः, अस्तित्वैकत्वाविशेषात् , एवमघट एव घटः स्यात् , तस्मादेव हेतोः, नन्वयमेव विपर्ययः-रूपं लोके रूपमेव न रस इति सिद्धमपि रूपं न स्याद्रसोऽपि रसो मा 5 भूद्रूपं स्यात् , बहुत्वप्रसङ्गो वोक्तवत् , तस्मान्न सन्ति घटादयः। ... यदि त्वित्यादि, यदि तु ताभ्यामपि घटोऽस्तित्वैकत्वाभ्यामन्यस्ततो घटस्य शून्यत्वम् , अस्तिवैकत्वशून्यत्वात्-सामान्यविशेषवत्त्वासत्त्वात् असत्त्वमेव खपुष्पवदिति प्रागुक्त इत्यर्थान्तरदोषोपसंहारः, अनन्यत्वे त्वित्यादिनाऽनर्थान्तरपक्षदोषोपसंहारो गतार्थो यावद्धटवदिति, तस्मात् स्थितमेतदाद्युक्तं घटवत् पटाद्यपि घट इति, अथैवमित्यादि, अथैवं न्यायापादितमपि घटादिसर्वभावघटत्वं नेष्यते प्रसिद्धयादिवलेन 10 केनचित् , अनर्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा भूद्भवनविशेषहेत्वभावात् , अस्तित्वैकत्वानर्थान्तरत्वे घटभवनात् पटादिभवनानां न कश्चिद्विशेषोऽस्ति, न च तत्कारणम् , तस्माद्भवनविशेषहेत्वभावात् पटवद्धटोऽपि घटो मा भूदिति घटस्याप्यभावः, एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतोः सर्वत्रवर्तिनोः घटो घट' एव नियतरूपो ने तु पटो घट इष्टः, कस्मात् ? अस्तित्वैकत्वाविशेषात्, एव [म घट एव घटः स्यात् तस्मादेव हेतोर्घटवदघट एव सन्नपि, नन्वयमेवेत्यादि, तदेवानुज्ञापयन् 15 एवञ्चास्तित्वैकत्वाभ्यां घटोऽभिन्नः सिद्ध्यतीत्याह-तथैकत्वमपीति । अस्तित्वैकत्वाभ्यां घटस्य भेदे दोषमाह-यदि तु ताभ्यामिति, अस्तित्वैकत्वाभ्यान्तु भिन्नश्चेद्धट इत्यर्थः । घटस्यास्तित्वैकत्वाभ्यां सामान्यविशेषात्मकाभ्यां व्यतिरिक्तत्वे सामान्यशून्य त्वाद्विशेषशून्यत्वाच्च खपुष्पवदसत्त्वमेव घटादेरित्याह-यदि त्विति । अथाप्यर्थान्तरं ततो घटस्य सामान्यविशेषो न स्त इत्येवं प्रागुक्तमेव दोषमुपसंहरतीत्याह-प्रागुक्त इति । एवमस्तित्वैकत्वाभ्यामनन्तरत्वपक्षेऽपि घट खतत्त्वानन्तरत्वाद्धटो घट . एव तथा घटाभिन्नास्तित्वैकत्वानर्थान्तरत्वात् सर्वभावानां पटकटरथादीनामपि घटत्वप्रसङ्ग इत्याशयेनाह-अनन्यत्वे विति, 20 ताभ्यां घटस्यानन्यत्वे त्वित्यर्थः । एवञ्च प्रथमं यत्रैकत्वं तत्रास्तित्वमपीत्यादि ग्रंथं पटादिसर्वभावानां घटत्वापादकं स्मारयतितस्मात स्थितमेतदिति । तदेवं न्यायसिद्धं सर्वभावानां घटत्वं नेष्यते तदा दोषमाह-अथैवमित्यादीति । अनिष्यमाणत्वे निमित्तमुट्टयति-प्रसिद्यादिबलेनेति. घटस्यैव घटत्वेन प्रसिद्धिलाके, न तु पटादेः, विभिन्नाऽर्थक्रियादर्शनाद्धटपटादे देशकालाकारनिमित्तादिभेदाच सर्वभावानां पटादीनां घटत्वं नेष्यत इति भावः । तथा सर्वभावानामस्तित्वैकत्वाभ्यामभेद इष्यत इत्याह-अनथोन्तरत्वञ्चेति। एवं तहि सर्वभावानां पटादीनां यथा घटत्वाभावः तथा घटस्यापि घटत्वाभाववत्ता स्यादित्याहतत इति । हेतुमाह-भवनविशेषेति, भवन विशेषाभावात् हेत्वभावादित्यर्थः । भवनविशेषाभावमाचष्टे-अस्तित्वैकत्वेति, अस्तित्वस्य सर्वेषामेकरूपत्वादिति भावः । हेत्वभावमाह-न च तत्कारणमिति, अस्तित्वैकत्वानर्थान्तरत्वं न सर्वेषां घटभवने हेतुः येन तदनन्तरत्वात् सर्व घटो भवेत् , एवं सर्वभावघटत्वानङ्गीकारात् घटस्यापि घटत्वं न स्यादिति भावः । अथास्तित्वैकत्वानन्तरत्वे सर्वभावघटत्वानभ्युपगमे घटस्य घटत्वाभावप्रसङ्गं प्राप्तमपि यदि नाभ्युपगम्यते घट एव घटोऽभ्युपगम्यते तर्हि घटवदघट एव घटः स्यात् अघटः सन्नपि, अस्तित्वैकत्वाविशेषादित्याह-एवमनभ्युपगमे वेति । अमुमेव न्यायं रूपादावति- 30 दिशति-नन्वयमेवेत्यादीति. यथाऽस्तित्वैकत्वानर्थान्तरत्वे सर्वभावघटत्वानगीकारे प्रसिद्ध्यादितो घट एव सन्नपि अघटः प्रसक्तः १ सि. क्ष. छा. डे. घटस्य घटभावः । २ सि. क्ष. छा. डे. न त्वपटो । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364