Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 257
________________ mmmmmmmm mam ११३४ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः समुदायो घट[:]संवृत्तिसन्नित्येतन्निवर्त्तते, तथा क्षणिक इत्येकक्षणावलम्बिनोऽस्तित्वं क्षणिकवादेऽभ्युपगतं भूतिर्येषां क्रिया सैवेति, भूतेरस्तित्वत्यागात् न भूतमात्रमिति च प्राप्तम् , अनिष्टश्चैतदुभयमपीति, ततः किं ? ततश्चानस्तित्वो घट इति प्राप्तम्-नास्ति अस्तित्वं यस्य सोऽनस्तित्वो यो घट इत्युच्यते सोऽनस्तित्वः, तञ्च विज्ञानमात्रमिदं सर्वं बाह्यार्थशून्यमिति वक्ष्यमाणः पक्षोऽभ्युपगतो भवतीति । 5 अथोच्येत बढेवास्ति प्रत्येकवृत्तेरस्तित्वस्य, बढेव नास्ति परस्परव्यावृत्तस्वरूपत्वात् , तच्च क्वचिदर्थे न सर्वत्र, पटाद्विशेषणार्थमस्ति घट इत्युच्यते, एकमपि व्यादिविशेषणार्थमुच्यते तत्रात्येको घट इति, सर्वैकत्वप्रसङ्गो घटबहुत्वप्रसङ्गश्च कुत आयातौ ? इति, एतन्न, सर्वसमयाप्रसिद्धेः, अस्तितत्त्वं न कस्यचित् समयसिद्धं बह्निति, अस्तित्वस्य रूपान्तराभावात् । अथोच्येतेत्यादि, अत्र यदि परिहारः परेणोच्यते, तद्यथा-बह्वेवास्ति घटपटादिः प्रत्येकवृत्ते10 रस्तित्वस्य, तथा बढेव नास्ति घटपटाद्येव, परस्परव्यावृत्तस्वरूपत्वात् , तच्च कचिदेकैकस्मिन्नर्थे, न सर्व त्रास्तित्वमेव नास्तित्वमेव वा, तस्मात् घटस्य पटाद्विशेषणार्थमस्ति घट' इति घटस्यैवास्तित्वमुच्यते, तथैकमपि बढेव घटपटादि, तदेव हि द्वित्रिचतुरादिसंख्यमपि, तस्मादेकमिति द्यादेविशेषणार्थमुच्यते तत्रैव विधिवस्तुनि अस्त्येको घट' इति, अत्येकघटानां त्रयाणामनन्यत्वात् सर्वैक[त्व]प्रसङ्गः, अन्यत्वे वाऽस्त्यप्येकोऽपि घटोऽपि घट इति घटबहुत्वप्रसङ्गश्च कुत आयातावेतौ प्रसङ्गाविति परिहारः, अत्र ब्रूमः, एतन्न wow 15 घटस्यैकत्वाभावात् , तथा च रूपादिसमुदायो घटः स च संवृतिसन्निति सिद्धान्तो निवर्त्तत इति भावः । एवं क्षणमात्रास्तित्वं घटादेरभ्युपगतं तदपि निवर्तत इत्याह-तथा क्षणिक इति । क्षणिकस्यास्तित्वं कुतोऽभ्युपगतमित्यत्राह-भूतिर्येषामिति, भवनमेव क्षणिकाणां क्रियोक्तेत्यर्थः, एवञ्च भवनमेवास्तित्वं तत्त्यागाद्धटादयो न भूतमात्रमिति भावः । एवञ्च घटादीनां नास्तित्वं प्राप्यत इत्याह-ततश्चेति । अनस्तित्वशब्दव्युत्पत्तिमाह-नास्तीति, अस्तीति विभक्तिप्रतिरूपकमव्ययम्, न तु क्रियापदं ततस्त्वप्रत्ययानुत्पत्तेः अस्ति भावोऽस्तित्वम्, ततो नास्ति अस्तित्वं यस्य घटादेः सोऽनस्तित्वः, नत्वस्तित्वं न भवतीति 20 तत्पुरुषः, अजहल्लिङ्गत्वादिति भावः । घटस्य नास्तित्वे किं स्यादित्यत्राह-तच्चेति, इत्थं बाह्यार्थशून्यत्वाद्विज्ञानमात्रमेवेदं सर्वमिति निरूप्स्यमाणपक्ष आपन्न इति भावः । ननु सर्वभावनिष्ठमस्तित्वं न खसजातीयनिष्ठभेदाप्रतियोगित्वरूपम् , स्वसजातीय द्वितीयराहित्यरूपं वा यतोऽर्थान्तरत्वानर्थान्तरत्वाभ्यामनस्तित्वाविशिष्टत्वादिदोषाः स्युः किन्तु प्रतिव्यक्ति अस्तित्वं विभिन्नमेव, तस्माद्धटपटादि बहुत्ववदस्तित्ववदित्याह-अथोच्येतेति । व्याचष्टे-बह्वेवास्तीति, बहुत्वमस्तित्ववदेकदेशेऽस्तित्वेऽन्वेति, बहुत्ववदस्तित्ववदित्यर्थः, सम्पन्नो व्रीहिरित्यादिवत् , एवं नास्तित्वमपि नानैव, घटपटादीनां परस्परं व्यावृत्तखरूपत्वादिति भावः । तच्चास्तित्वं 25 नास्तित्वच्च प्रत्येकव्यक्तिनियतम्, न तु सर्वत्वव्यापकास्तित्ववत्त्वं नापि सर्वत्वव्यापकनास्त्वित्ववत्त्वं वेत्याह-तच्चेति । एवञ्चास्तीत्युक्तौ किं घटोऽस्ति पटो वेति संशयः स्यात्, पटादिव्यावर्तनाय च घटोऽस्तीत्युच्यते; इदमस्तित्वं घटस्य, न तु पटस्येति पटादिव्यावर्त्तनाय घटपदप्रयोग इत्याह-तस्मादिति । एवमेव घटपटादौ नैकमेकत्वम्, किन्तु प्रतिव्यक्तिभिन्नमेकत्वम्, तथा सर्वत्रैकत्वमेव, अनेकत्वमेव वेति न नियमः, घटपटाविति द्वित्वस्य घटपटकटा इति त्रित्वस्य घटपटकटरथा इत्येवं चतुष्ट्वादेः प्रत्येक घटादौ सत्त्वात् , प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् , एवञ्च घटे एकत्वानभ्युपगमे यादेरविशिष्टता स्यात्तन्मा भूदिति 30 एको घट इत्युच्यत इत्याह-तथैकमपीति । एवमस्त्यात्मके एकात्मके घटादौ अस्तित्वैकत्वघटत्वेभ्यो भेदाभेदाभ्यां सर्वैकत्वघट बहुत्वप्रसङ्गौ न सम्भवत इत्याह-तत्रैवेति। तदेतन्मतं शून्यवादी पराकरोति-एतन्नेति । नानास्तित्वाभ्युपगमेन यत्परिहार १ सि.क्ष. छा. डे. घटपरादेः। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364