Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 245
________________ ११२२ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमनियमनयः ह्रस्वत्वस्य ह्रस्वाभावे क्व दीर्घत्वं वर्त्तेत ? अतोऽपि दीर्घत्वाभावः तथापि पुनरित्यादि - पुनरपि च दीर्घत्वस्वत्वयोर्भावाभ्युपगमेऽपि ह्रस्वत्वप्रतियोगिनो दीर्घत्वस्याभावान्न सिद्ध्यति दीर्घत्वं स्वात्मनि परत्र वा वृत्त्यसम्भवात् । स्यान्मतमुभयत्र वर्त्ततेऽन्यापेक्षत्वादुभयोः ह्रस्वमपेक्ष्य [दीर्घं दीर्घमपेक्ष्य ] ह्रस्वं सिद्ध्यतीत्येतश्च — न द्वये, उक्तन्यायात्, प्रतिद्वन्द्वित्वाद्वा, उभयत्र दीर्घत्ववृत्तिरेषा च किं ह्रस्वे वर्त्तमाने दीर्घत्वे दीर्घ भवति ? उत दीर्घे एव वर्त्तमाने, यदि ह्रस्वे वर्त्तमानं दीर्घत्वमुभयत्र भावं लभते ततो ह्रस्वे वर्त्तमानं दीर्घत्वं दीर्घस्य दीर्घतां दीर्घ इति बुद्धिञ्च कथं कुर्यात् ? ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत् । (ति) [न]द्वये, कस्मात् ? उक्तन्यायात्, यथा दीर्घे दीर्घत्वं न परायत्तत्वादित्युपक्रम्य यावदि10 दितरेतराश्रयत्वादसिद्धिरित्युक्तन्यायान्न सिद्ध्यति दीर्घता तथा ह्रस्वेऽपि न वर्त्तत इत्यधुनोक्तन्यायान्न सिद्ध्यति, द्वयोरन्यतरत्रापि असिद्धस्य कुत उभयत्र सिद्धिः स्वपरयोः प्रतिद्वन्द्वित्वाद्वा-यथा दीर्घत्वं दीर्घे स्वे च वर्त्तते तथा ह्रस्वत्वमपि दीर्घे ह्रस्वे च वर्त्तते, अत उभयोरुभयत्र भावो विरोधी तयोः सहवृत्तिरयुक्ता विरोधित्वादेव परस्पर [त] इत्युक्तम्, तस्मान्न स्वतो न परतो नोभयतश्च दीर्घत्वं सिद्ध्यति ह्रस्वत्वं वा, एवं ह्रस्वत्वेऽपीत्यतिदेश्यमानत्वात् किञ्चान्यत् उभयत्र दीर्घत्ववृत्तिरेषा सा तु इतरेतरयोगः, एषोऽपि 15 चिन्त्यः किं ह्रस्वे स्वाश्रयाद्दीर्घादन्यत्र वर्त्तमाने दीर्घत्वे 'दीर्घं भवति ? उत स्वाश्रये दीर्घे एव वर्त्तमाने 'दीर्घं भवति ? इति निर्धार्यम्, किचात:- यदि ह्रस्वे इत्यादि - यदि हस्वे वर्त्तमानं दीर्घत्वमुभयत्र भावमितरेतरयोगं लभत इतीष्यते प्रथमविकल्प इति ततः किं ? ततो ह्रस्वे वर्त्तमानं दीर्घत्वं दीर्घस्य दीर्घतां दीर्घ इति बुद्धि च कथं कुर्यात् ?–न कुर्यात्, नादध्यात्तद्बुद्धिश्च ततोऽन्यत्र वृत्तत्वात्, यद्यतोऽन्यत्र वर्त्तते तत्तस्य तत्त www www.www 5 ह्रस्वत्वापेक्षस्य दीर्घत्वस्य दीर्घेऽन्यत्र वा प्रागुदितरीत्या वृत्त्यसम्भवेन नास्ति सिद्धिरित्याह - पुनरपीति । ननु केवलं 20 स्वस्मिन् परस्मिन् वा वृत्त्यसम्भवेऽपि परस्परापेक्षसिद्धिके हस्वत्वदीर्घत्वे उभयत्र स्यातामित्याशङ्कायामाह - न द्वय इति । व्याचष्टे-यथेति । दीर्घत्वस्य हस्वपेक्षस्य स्वात्मन्यवृत्तिता, परायत्तत्वात् स्वात्मन्यसिद्धस्य परतः सिद्ध्यसम्भवात् स्वतः सिद्धौ चापरायत्तत्वाद्भस्वत्वस्याप्यपरायत्तत्वेन न सिद्धिः स्यात् अनामिकापि दीधैव भवेत् तस्या अह्रस्वत्वे च मध्यमादीर्घत्वं न सिद्ध्येत्, तदसिद्धौ ह्रस्वत्वमपि न स्यात्, तयोः परस्पराश्रयत्वेनेतरेतराश्रयत्वादसिद्धिः, हखेऽपि च दीर्घत्वस्यावृतित्वोक्तेः तस्मात् स्वस्मिन् परस्मिन् वाऽसिद्धस्य दीर्घत्वस्य ह्रस्वत्वस्य वा कथमुभयत्र सम्भव इत्युक्तन्यायमेवात्रापि भाव्यमिति भावः । परस्परप्रतिद्व25 द्वित्वाच्च ह्रस्वत्वदीर्घत्वयोर्नोभयत्र वृत्तित्वमित्याह - स्वपरयोरिति । स्वस्मिन् दीर्घे परम्मिन् ह्रस्वे चोभयत्र ह्रस्वत्व दीर्घत्वे न वर्त्तते परस्परप्रतिद्वन्द्वित्वात् सहवृत्तेरसम्भवादिति भावः । उपसंहरति- तस्मान्नेति । ह्रस्वत्वस्यापि सहोतो कारणमाहएवमिति । किश्चेयमुभयत्र वृत्तिरितरस्मिन्नितरस्य योगरूपा तत्र प्रश्न उदेतीत्याह - उभयत्रेति । ह्रस्वदीर्घयोरित्यर्थः । एषोऽपीति, इतरेतरयोगोऽपीत्यर्थः । किं ह्रस्वे इति दीर्घत्वं स्वाश्रयाद्दीर्घादन्यत्र हस्खे वर्त्तमानं सत् दीर्घस्य दीर्घतां दीर्घ इति बुद्धिञ्च किं विधत्ते किं वा स्वाश्रये एव वर्त्तमानं सदिति प्रश्नार्थः । प्रथमकल्पं निराचष्टे - यदि ह्रस्व इति हखे वर्तमान 30 दीर्घत्वमितरत् इतरस्मिन् योगं दीर्घत्वं दीर्घप्रत्ययश्च करोतीति यदि मन्यसे इत्यर्थः । तत्र दोषमाह -तत इति, मन्तव्यमात्रमे - वैतत्ते हवे वर्त्तमानं दीर्घत्वमन्यत्र दीर्घतां दीर्घप्रत्ययश्च विधत्त इति, तन्नैव विधत्ते, ततोऽन्यस्य तत्त्वभूतत्वादिति भावः । तमेव हेतुमाह- ततोऽन्यत्रवृत्तत्वादिति । यद्धि यतोऽन्यस्य तत्त्वं तत्तत्स्य तत्त्वं तद्बुद्धिश्च न करोति यथा दीर्घत्वं हखादन्यस्य १ सि. क्ष. छा. डे. दीर्घत्वं । २ छा. ततोऽन्यत्ववृत्तत्वात् । सि. क्ष. डे. ततोऽन्यतत्त्वात् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364