Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 228
________________ कालत्रयेऽप्यभावो भावस्य ] द्वादशारनयचक्रम् ११०५ वक्तुमेवाशक्यमेतत्, भाव एवासौ वस्तुत्वाभिमतो नास्ति, कुतोऽस्योत्पादो विनाशो वा धर्मो द्रव्यार्थस्याभावे ? खपुष्पस्येव । तद्वैधhण द्रव्यार्थवादिन एवोत्पादविनाशोपपत्तिप्रदर्शनार्थमाह भवन्ती हि मृत् भवति उत्पद्यते तद्यथा शिवकस्य स्तूपकीभावः सैव च मृत् भवन्ती व्येति, स्तूपकत्वेनोत्पद्यमाना शिवकत्वाद्येति, भवनाद्धि भावः, भावस्य व्यय इत्यत्र भाव- 5 शब्दोऽप्येवं घटते नान्यथा, एवन्तु त्वयोक्तो भावः स भाव एव न, पूर्वमभावात् पश्चादभावात् पूर्व पश्चाच्चाभावात् वंध्यापुत्रवत्। (भवन्तीति) भवन्ती हि मृत्-द्रव्यार्थेन भवन्त्येव भवन्ती-स्वरूपमत्यजन्ती भवत्युत्पद्यते, तद्यथा-शिवकस्य स्तूपकीभावः उत्पादे स्तूपक इति निदर्शनम् , सैव च मृत् भवन्ती व्येति, तन्निदर्शनंस्तूपकत्वेनोत्पद्यमाना शिवकत्वात् व्येतीति, भवनाद्धि भावः, भावस्य व्यय इत्यत्र योऽयं भावशब्दः 10 सोऽप्येवमस्मदुक्तद्रव्यार्थविषय एव घटते, यदर्थस्य व्यय उच्यते, नान्यथा-यत्त्वभवत् खपुष्पाद्यद्रव्यं तन्नोत्पद्यते न व्येति वा, एवन्त्वित्यादि, इत्थमुक्तन्यायेन त्वयोक्तो भावः स भाव एव न भवति, कस्मात् ? पूर्वमभावात्-भवनाभावादित्यर्थः, भाव एव स नेति वर्त्तते, एवमेतौ प्रत्येकं हेतू , समुदितावपि-तद्यथापूर्व पश्चाच्चाभावादिति, त्रयाणामपि हेतूनां वन्ध्यापुत्रवदित्येक एव दृष्टान्तः, त्वन्मतेनैव वा एते हेतवः सिद्धाः, उत्पादक्षणस्यैव सत्त्वाभ्युपगमात्, अतो भाव एव न स इति साधूक्तम् ।। _ स्यात् प्रत्याशा वर्तमानक्षणे भावो भवितुमर्हतीति सापि न कार्या, त्वदुबाह एव, प्राक् पश्चात् मध्ये चाभावात् , त्वद्वचनादेव भावस्येति षष्ठी यदि कर्तृलक्षणा, स एव भावःउत्पादः व्येति-विनश्यति न भवति इत्युक्तं भवति, यदि कर्मलक्षणा, विनाशोऽकत्तका केनोत्पादो निवत्यैतेत्ययुक्त एव भावः, तस्मात्स एव न भवतीति मध्येऽप्यभावः । (स्यादिति) स्यात् प्रत्याशा वर्तमानक्षणे भावो भवितुमर्हतीति, साऽपि न कार्या-प्रत्याशा, 20 कस्यामप्यवस्थायामसत्त्वात्, तत आह-यथा-त्वदुद्राह एव, प्राक् पश्चान्मध्ये चाभावात् , भाव एव न स •ommmmmm MM 15 namawm द्रव्यार्थपरित्यागवैधयेणैवोत्पादविनाशायुपपद्यते इति प्रदर्शय इति-भवन्ती हीति । मृत् खखरूपमत्यजन्ती शिवकादिरूपा स्तूपकत्वेनोत्पद्यते सैव स्तूपकत्वेनोत्पद्यमाना मृत् शिवकत्वेन व्यति, तेन तेन प्रकारेण भवनादेव हि मृदादिर्भाव उच्यत इत्याशयेन व्याकरोति-द्रव्यार्थेन भवन्त्येवेति । भावस्य व्यय इत्यत्रापि तथा तथा भवन्नेव भावो द्रव्यार्थविषय एव, नान्यथा व्ययः सङ्गच्छत इत्याह-भावस्य व्यय इत्यत्रेति । अभवतो नोत्पादव्ययौ स्तः खपुष्पस्येवेत्याह-नान्यथेति । त्वत्सम्मतस्तु भावो 25 भवनाभावाद्भाव एव न सम्भवति न हि स भाव उत्पादाभिमतः पूर्वमस्ति पश्चादस्ति पूर्व पश्चाचास्ति वा वन्ध्यापुत्रवदित्याहइत्थमुक्तन्यायेनेति । हेतुमाह-पूर्वमभावादिति, उत्पादक्षणपूर्वमभावादित्यर्थः, यः केवलं पूर्व न भवति पश्चान्न भवति पूर्व पश्चाच्च न भवति स भाव एव न भवति वन्ध्यापुत्रादिवदित्यर्थः । हेतूनामसिद्धिं व्युदस्यति-त्वन्मतेनैवेति । पूर्व पश्चाद्वाऽभवनेऽपि उत्पादक्षणे स भवत्येवेत्याशङ्कते-स्यात् प्रत्याशेति । वर्तमानक्षणे भावो भवतीत्याशाऽपि मा कुरु, तदानीमपि तस्यासत्त्वादिति समाधत्ते-कस्यामपीति, प्रागवस्थायां पश्चादवस्थायां वर्तमानावस्थायामप्यसत्त्वादित्यर्थः । तदेव समर्थयति-यथा त्वदुद्भाह 30 _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364