Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 216
________________ द्वादशो नियमनियमनयः पूर्वनयमतापरितोषकारणमुत्तरनयोत्थानम्, उत्तरोत्तरसूक्ष्मेक्षिकया च पूर्वस्य दोषदर्शनात् स्वमतसौस्थित्याभिमानाचारम्भ इत्यत आह अन्ते क्षयाद्यद्येवं ततो वस्तुवत् प्रसिद्ध्युपगमः कृतो भवति, इतरथा विनाशोत्पादयोरप्यभावः, प्रतिसन्धानाभावात् , स्थितस्यैव हि भवनमित्यभ्युपगमस्ते, वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमात् निष्ठितं तर्हि तत् , अन्तवत्त्वात्, घटादिवस्तुवत् , निष्ठितत्वात् । कृतकं ततश्चारब्धमपि, एवं ते पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियावत्त्वादन्तवत् , यथाऽन्ते क्रिया-भवनं सा पूर्वनिर्वृत्तवस्तुनिबंधना तथा प्रारम्भादिक्रियाः। (अन्त इति) अन्ते क्षयाद्यद्येवं-यदि त्वयाऽन्ते क्षयदर्शनात् स्वरसेनैव क्षय एवादावप्यनुमीयते, ततः किं ? ततो वस्तुवत् प्रसिद्ध्युपगमः कृतो भवति-वस्तुनीव वस्तुवत् , यथा वस्तुनः प्रसिद्धस्य-लोकेस्थितस्य घटादेः क्षयो भवतीति प्रसिद्धिः, तथा त्वयाऽभ्युपगतमिति प्राप्तम् , विनाशस्योत्पादस्य च प्रसिद्ध- 10 वस्तुविषयत्वात् , इतरथा खरविषाणस्येव स्थित्यभावे विनाशोत्पादयोरप्यभावः, प्रतिसन्धानाभावात् , स्थितस्य-भवत एव हि भवनमिति-इत्थमभ्युपगमस्ते, तस्माद्वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमात्इत्यस्माद्धेतोर्भवत एवोत्पादविनाशप्रतिसन्धानात् व्यवस्थितं वस्तु सिद्धं नियतमुत्पादविनाशव्यपदेशभाग्भवतीत्येतन्नियमं नातिकामति, खपुष्पादिवैलक्षण्येनोपहितमतो वस्तुव्यवस्थासिद्ध्यपहितनियमानतिक्रमात् निश्चयेन स्थितं निष्ठितं-व्यवस्थितमिति गृहाण त्वद्वचनादेवेत्यत आह-निष्ठितं तर्हि तत् , अन्तवत्त्वात् , 15 घटादिवस्तुवदिति दृष्टान्तः, यथा मृत्पिण्डाद्यवस्थानामन्ते घटोऽस्त्येव, अवस्थित एवान्तवत् तथा मृल्लोष्टाद्य Ammmwwwm mmmmm अस्यापि मतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्ययषष्ठीभ्यां सहभाविभावाभ्युपगमात्, अनिर्वहनीयत्वादअभावपरमार्थवस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति नियमनियमनयं व्याख्यातुं पूर्वनयमतेडपरितोषं दर्शयति-पूर्वनयमतेति, अपरितोष एवोत्तरनयोत्थाने कारणम् , अपरितोषश्च सूक्ष्मेक्षिकया विचारे क्रियमाणे पूर्वनयमते दोषदर्शनान्निरूप्यमाणखमते तदभावाभिमानाच्चैतन्नयारम्भ इति भावः । पूर्वनये दोषमुद्भावयति-अन्ते 20 क्षयादिति । अन्ते क्षयदर्शनादादौ स्वत एव क्षयोऽनुमीयते प्रदीपशिखावदिति हि तव मतम् , अत्र हेतुरन्ते क्षयदर्शनम् , तच्च दर्शनं लोके स्थितस्य वस्तुनो विषयम, स्थितं च वस्तु प्रकर्षेण सिद्धं प्रसिद्धमिति तथाविधदर्शनाभ्युपगमे प्रसिद्धः-स्थितेरप्यभ्यपगमः कृतो भवति, तथा च विनाश उत्पादश्च प्रसिद्धवस्तुविषयः, वस्तुनः स्थित्यभावे खरविषाणस्येवोत्पादविनाशयोरप्यभावः स्यादित्याहयदि त्वयेति । स्थित्यभावे हि यस्यैवोत्पादस्तस्यैव विनाश इति प्रतिसन्धानं न स्यादित्युत्पादविनाशाभावे हेतुमाह-प्रतिसन्धानाभावादिति । भवनव्यपदेशः सत्त्व एव घटतेऽन्यथा कुतोऽस्यात्यन्तभेदस्याअत्यन्तान्वयरहितस्य भवतीति भवन- 25 लक्षणेनालक्ष्यस्योपाख्येति स्वीकारात् त्वयापि स्थितस्य भवनमित्यभ्युपगतमित्याह-स्थितस्येति, अत एव प्रतिसन्धानं भवतीति भावः। एवञ्च वस्तुनो या व्यवस्था तस्याः सिद्ध्या उपहितो-व्याप्तो यो नियमः-खपुष्पादिवलक्षण्येन स्थित एवोत्पादविनाशभाग्भवतीति नियमस्तदनतिकमावस्तुनो निष्ठितत्वं त्वयाप्यभ्युपगतमेवेत्याह-तस्माद्वस्त्विति । वस्तु निष्ठितमन्तवत्त्वात्, घटादिवत्, यदन्तवत्तन्निष्ठितं यथा घटो मृत्पिण्डाद्यवस्थानामन्तेऽवस्थित एवैवं वस्त्वपि, यन्निष्ठितं तत्कृतकं कृतकञ्च यत्तदारब्धमपि घटादिवदेवेति वस्तुन आरम्भक्रियानिष्ठा हेतुहेतुमद्भावेन साधयति-निष्ठितंत हि तदिति। आरम्भक्रियानिष्ठानामेकहेतुना प्रथमतः 30 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364