Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 211
________________ १०८८ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमोभयनयः प्रध्वस्तेषु चानाश्वासः गतं कार्यमित्येष व्यवहारो नापद्येत, अविषयत्वात् सविषयत्वे वाऽस्य व्यवहारस्य पुत्रादेरक्षणिकत्वे युक्त आश्वासः कालान्तरविनष्टत्वेऽनाश्वासश्चेत्यत्रोच्यते - नन्वविषय एवायं व्यवहारो वस्तुनि क्षणिकेऽस्यासम्भवादुक्तवत् यथा तथाभूतदेशाभेदभवनाभावात् रूपादिसमुदायाभावः तथा तथाभूतकालाभेदभवनाभावात्तदभावतद्भावपरम्परापतितमेव रूपाद्यपीति उक्तन्यायेन रूपाद्यसत्त्वे कुतोऽवतारः 5 आश्वासानाश्वासव्यवहारस्य ? एवमेव च वैराग्यभावना-शरीरखजनद्रव्यादिनैर्मल्यात् कचिदव्यनाश्वासात् संसारहेतुरागादिप्रातिकूल्येन घटते, तदर्थश्चायमारम्भ इति गुणोपचयः क्षणिकभावे | www.w यच्च व्यवहाराविषयत्वमुक्तं तन्न भवति, यस्मात्— m स हि युज्यते संवृत्या, सन्तानविषयत्वात्, उत्पादो विनाशश्च किं सूक्ष्मः महान् वा ? महोत्पादः सूक्ष्मोत्पाद इत्येवम्, महत्ता सन्ताने उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः बुभुक्षा10 तृष्णयोरिव न तर्हि सूक्ष्मौ स्त एव, अकारणत्वात् खपुष्पवत्, सन्तानगतावैव स्तः, सकारणत्वात्, चक्रस्थघटस्येव न घटस्येव विनाश इति, अत्रोच्यते परस्परकारणत्वात्, जातिर्विना - शस्य कारणं जातेर्विनाशः, तयोर्युगपद्भावात्, 'नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः' । ( सेति ) स युज्यते संवृत्या व्यवहारस्तु, सन्तानविषयत्वात्, तद्विषयनिर्धारणार्थं उत्पादविनाशौ विकल्पयति- सूक्ष्मोऽनुमेयः, महतोत्पादेन विनाशेन [ चोत्पाद: ]विनाश इति द्वयोः प्रत्येकं द्वैविध्याच्चातु15 र्विध्यम्, तद्दर्शयति- महोत्पादः सूक्ष्मोत्पाद इति, भङ्गोऽप्येवमित्यतिदेशेन च, तद्विवेकप्रदर्शनम्—महत्ता सन्तान उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः, - तयोर्महोत्पादभङ्गयोः प्रवृत्तिदर्शनात्, बुभुक्षातृष्णयोरिव, तत्र सन्तानस्य पुत्रघटादेर्महत्युत्पादे भवत्याश्वासः, विनाशेऽनाश्वासः इतरयो:-सूक्ष्मोत्पादभङ्गयो www भाव एव भवतीति भावः । यदि क्षणिकमसत् कालान्तरस्थाग्यप्यसत् तर्हि कथमाश्वासानाश्वासौ, सविषये ह्येतौ युज्येते इत्याशङ्कते - क्षणिकत्वादिति । आश्वासानाश्वासौ सविषयत्वे एव भूतत्वधर्माधारतया पुत्रादौ दग्धत्वधर्माधारतया तत्रैव तौ स्याताम्, न तु 20 निर्विषयत्व इत्यत्रेष्टापत्त्या समाधत्ते - नन्वविषय इति, क्षणिके वस्तुनि तयोर्व्यवहारो नैवेष्टः तस्यानिर्देश्यत्वात् उक्तं हि पूर्व देशाभेदभवनाभावात् समुदायस्येव कालाभेदभवनाभावाद्भवन्नेव न भवतीति क्षणिकस्य रूपादेरभावपरम्पराघ्रातत्वादसत्त्वेन कुतो व्यवहारावतारः स्यादिति भावः । वस्तुनश्चेत्थं व्यवहाराविषयत्वादेव क्वचिदप्यमिमानाभावात् सर्वत्र वैराग्यभावनया संसारानुकूलरागद्वेषादिप्रातिकूल्येन प्रवर्तते, एतत्प्रवृत्तिसम्पादनायैवेत्थं निरूपणारम्भोऽस्माकमिति क्षणिकवादेऽयं गुणोपचय इत्याहएवमेव चेति । सर्वथा व्यवहारस्य विषयः कोऽपि नास्तीति न भ्रमितव्यम्, सन्तानविषयोऽसौ, सन्तानश्च संवृत्तिसन्नित्याह25 स हि युज्यत इति । कथं सन्तानस्य विषयता ? तस्याप्यसत्त्वस्योक्तत्वादित्यत्राह तद्विषयनिर्धारणार्थमिति । स्थूलसूक्ष्मभेदेनोत्पादविनाशौ द्विभेदौ, तत्र महतोत्पादेन सूक्ष्म उत्पादः महता विनाशेन च सूक्ष्मो विनाशोऽनुमेयः, एवञ्च महोत्पादः सूक्ष्मोत्पादो महाविनाशः सूक्ष्मविनाश इति चातुर्विध्यमित्युत्पादविनाशयोः सूक्ष्मत्वमहत्त्वाभ्यां विज्ञेयम् । एतदेव दर्शयति - महो त्पाद इति । उत्पादविनाशयोः क्व महत्तेत्यत्राह - महत्तेति । घटपटादिलक्षणसन्ताने उत्पादविनाशयो महत्त्वम्, सूक्ष्मत्वन्तु सूक्ष्मोत्पादविनाशव्यतिरेकेण महदुत्पादविनाशयोरप्रवृत्तस्तत्प्रवृत्त्या सूक्ष्मोत्पादविनाशावनुमीयेते यथा बुभुक्षातृष्णयोः प्रवृत्ति30 दर्शनात् सूक्ष्म योर्बुभुक्षा तृष्णाविति भावः । सन्ताने चाश्वासानाश्वासौ समर्थयति तत्रेति । पुत्रादेरक्षणिकत्वाद्दण्डचक्रादिहेतुभिस्तस्योत्पादात् कालान्तरे विनाशहेतुसान्निध्ये विनाशाच्चानेन मया कार्यं कार्यमित्यादिव्यवहार उपपद्यते इति भावः । उच्छ्रासनिःश्वासाभ्यां श्रान्तिविश्रान्ती यथाऽनुमीयेते तथा महोत्पादविनाशाभ्यां सूक्ष्मोत्पादविनाशावनुमीयेते इत्याह- इतरयोरिति । ननु १ छा० क्ष० डे० २ सि. क्ष० का० डे० महतोत्पादः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364