Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 199
________________ wwwwwwwww wwwam १०७६ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे भेदाः-विधिः १, विधिविधिः २ विध्युभयम् ३ विधिनियमः ४ उभयम् ५ उभयविधिः ६ उभयोभयम् ७ उभयनियमः ८ नियमः ९ नियमविधिः १० नियमोभयम् ११ नियमनियमः १२ इति द्वादशधा भिन्नस्य शतभेदसमभिरूलैकदेशस्यायं नियमविधिर्नामभेद इति । किञ्चान्यत्-यथा चायं वस्त्वन्तरसङ्क्रान्ति नेच्छति रूपादीनां तथा अस्य नयस्य चोत्पत्तिविगतिस्थितिभिरपि नैव सम्बध्यते रूपादि, उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसाभावात्मकत्वादुभयमभूतं रूपादि च भूतम् , तयोर्वस्त्वन्तरसङ्कान्तेर्ननूभयं व्याहन्यते भूतश्चेत् कथमभूतम् ? अभूतश्चेत् कथं भूतं रूपादिवस्तु ? इति । (अस्य चेति) अस्य चोत्पत्ति वि]गतिस्थितिभिरपि नैव सम्बध्यते-नयस्योत्पादादित्रयसङ्क्रान्तेरप्यभावात् , यद्युत्पत्त्यादि वस्त्वन्तरसंक्रान्तिः स्यात् कुतोऽस्य समभिरूढता स्यादिति, कथमिति दर्शयति10 उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसा[भावा]त्मकत्वात्-उत्पत्तिः प्रागभावो विनाशः प्रध्वंसाभावः, तदुभयमभूतं रूपादि च भूतम् , तयोर्भूताभूतयोर्वस्त्वन्तरसंक्रान्तेस्तूभयं व्याहन्यते भूतश्चेत् कथमभूतम् ? अभूतश्चेत्कथं भूतं रूपादिवस्तु ? इति । उत्पत्तिविनाशानाश्रिता स्थितिर्भूतत्वान्न व्याहन्यते रूपादिने ति] चेदुच्यते सत्यम् - भूता स्थितिरपि च भवनात्मिका सर्वत्र सङ्कामति वस्त्वन्तरमिति न वस्तुतैव, अथ तथा 16 तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिन वस्त्वन्तरसङ्क्रान्तिरिति तन्न, प्रतिवस्तु तथा भवनस्य भूतत्वात् , परस्परव्यावृत्तात्मना सर्वस्य वस्तुनः प्रतिनियतत्वात् , न च भवनेनापि व्याप्तिरस्त्येवमिति स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिरिति। (भूतेति) भूता स्थितिरपि च भवनात्मिका भवत्येव भवतीत्यतो भवनव्युत्पत्तेः सर्वप्रकारैः सर्व भवति घटोऽपि रूपमपि रसोऽपीत्यादिः, भवनं सर्वत्र सङ्क्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपीति, 20 अथ तथा तथेत्यादि, अथ मन्यसे तेन तेन प्रकारेण घटरूपरसादिभाव एव भवतीति तस्यैवैकस्याभिव्यासमभिरूढ उच्यते, पर्याया द्विविधाः क्रमभाविनः सहभाविन इति, सहभाविनो गुणाः, अतः क्रमभाविपर्यायसमभिरूढादन्यो गुणसमभिरूढः, स च विध्यादिरूपेण द्वादशधा भिन्नः, तत्र नियमविधिरयमन्तर्गत इति भावः । नयस्यास्याभिमतान्तरमाहयथा चायमिति। वस्त्वन्तरसंक्रान्तेरनभ्युपगमवद्रूपादेरुत्पत्तिस्थितिविगमैरपि न सम्बन्ध इत्याह-अस्य नयस्य चेति । व्याकरोति-अस्य चेति,अस्य नयस्य मते रूपादिवस्तु उत्पत्तिविगमस्थितिभिर्न सम्बध्यते, अयं नयो घटपटादिवस्त्वन्तरैः सह यथा 25 सङ्क्रान्ति सम्बन्धं नेच्छति रूपादेस्तथोत्पादादित्रिभिः सङ्क्रान्तिमपि नेच्छतीति भावः । यदि सङ्क्रमणमिच्छेत्तदा को दोष इत्यत्राहयद्युत्पत्त्यादीति, यद्युत्पत्त्यादिभिस्त्रिभिर्वस्त्वन्तरैः सङ्क्रान्तिमभिलषेत्तर्हि नयस्यास्य समभिरूढत्वं व्याहतं स्यात्, वस्त्वन्तरसङ्क्रान्त्या स्वस्वरूपे रूपादेरनवस्थितत्वेनावस्तुत्वापत्तेः, एवञ्च कोऽर्थ एकीभावेनाभिमुख्येन तां तां संज्ञामधिरोहेदिति भावः । उत्पादादिसङ्कमणेऽवस्तुत्वं रूपादीनां दर्शयति-उत्पत्तिविगत्योस्तावदिति. उत्पत्तिः प्रागभावात्मकः, विगतिः प्रध्वंसाभावात्मकः, उभयोरनयोरभावरूपत्वेन भवनात्मकत्वाभावादभूतत्वं रूपादि च भवनात्मकत्वाद्धृतमिति, तदुभयरूपाद्योः परस्पर30 सङ्क्रान्तेरभ्युपगमे भूताभूतत्वे व्याहन्यते भूतश्चेत् कथमभूतमभूतश्चेत् कथं भूतमिति तस्मान्नोत्पादादिवस्त्वन्तरसङ्क्रान्तियुज्यत 'इति भावः । ननु रूपादि स्थित्यात्मकं भवतु स्थितेरपि भूतत्वेन रूपादिना सहाविरोधादित्यत्राह-भूता स्थितिरपि चेति । रूपादि स्थितिं न सङ्कामति, स्थितेर्भवनात्मकत्वात् सर्वस्य वस्तुनः सर्वैः प्रकारर्भवनात् स्थितिरपि न वस्तुभूता, रूपमपि हि भवति रसोऽपि भवति घटोऽपि भवतीत्येवं भवनस्य सर्वत्र वस्त्वन्तरेषु सङ्क्रमणात् तस्य वखरूपेऽवस्थितिनास्तीत्यवस्तुभूता भवनामिका स्थितिरिति व्याकरोति-भूतेति । ननु भाव एव सर्वो घटरूपरसादिः, न तु भावो घटरूपरसादिवस्त्वन्तरं सङ्क्रामति, तस्मान www wwwww Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364