________________
wwm www
mom ammmmmmmm
wwwwwwwww
१०२२
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे अन्यत्वप्रतिषेध एकत्वमिति चेत् न, तस्याप्यवक्तव्यत्वात् , एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एवेति सर्वथाप्यवक्तव्यतैव ।।
__ (अनुभयश्चेदिति) अनुभयश्चेन्नास्त्युभयमस्ति तर्हि, तच्चोभयं भिन्नव्यवस्थानवृत्तमपि, एवं नाभ्युपगम्यते ततो-भिन्नव्यवस्थानवृत्तोभयत्वा[न] भ्युपगमे तु प्राप्तं कीगुभयम् ? तद्यथा सर्वात्मकैकेत्यादि, । एकं सर्वात्मकं नित्यं सर्वगतमनुत्पादव्ययं कालनियतिस्वभावप्रधानपुरुषादीनामन्यतमद्भावतत्त्वमसपोहनिरुपाख्यमवस्त्वत्यन्तासत् खपुष्पादि चेत्येतदुभयं स्यात् , एकत्वान्यत्वानुभयत्वाभावे गत्यन्तराभावात् , तच्च न भवति निष्ठितत्वादेषां पक्षाणाम् , अनुभयप्रतिषेधादुभयत्वमिति चेत् स्यान्मतमनुभयमुभयाभावोऽसत्वम् , असत्त्वस्य प्रतिषिद्धत्वादुभयं तत्प्रतिपक्षः सती एव द्वे वस्तुनी भवितुमर्हत इति, तन्न, अन्यत्वाव
क्तव्यत्वात् , एतदुभयत्वमन्यत्वमेव परस्परभिन्नलक्षणे अग्नीन्धने अन्योऽन्यस्मादन्ये इति, तच्च अन्यत्वं 10 विचारितमसदेवेति, तस्मादस्याप्यवक्तव्यत्वम् , असत्त्वादवक्तव्यत्वान्नानुभयत्वप्रतिषेधादुभयत्वम् , अन्यत्वप्रतिषेध एकत्वमिति चेत्-स्यान्मतमन्यत्वप्रतिषेधे तर्खेकत्वमेव सिद्ध्यतीत्येतच्च न, तस्याप्यवक्तव्यत्वात् एकत्वस्याप्यसत्त्वस्योत्पततैव मयोक्तत्वादवक्तव्यतैव, इत्थमेकत्वान्यत्वोभयत्वानुभयत्वानि प्रतिषिद्धानि, स्यादाशङ्का-सामान्यविशेषयोरग्नीन्धनयोश्चैकत्वाद्यभावेऽप्यन्यतरप्रधानोपसर्जनतया प्रवृत्तेरस्तु वक्तव्यतैवेत्ये
तच्चायुक्तम् , एकत्वाद्ययुक्तिवत्तद्युक्तेरिति तदतिदिशन्नाह-एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानो16 पसर्जनभावोऽपि प्रतिषिद्ध एवेति, यस्मादेतयोः सामान्यविशेषयोरप्रवृत्तेरनीन्धनयोश्चासत्त्वमेव , एकत्वा
उभयत्वपक्षः प्रसज्यते, अग्नीन्धनोभयञ्च भिन्नव्यवस्थानलक्षणसद्भावमित्याह-तच्चोभयमिति । यदि तदुभयं परस्परासङ्कीर्णप्रतिनियतलक्षणं न स्यात्तर्हि तत् कथं भवेदित्याशङ्कते-एवं नाभ्युपगम्यत इति, ईदृशोभयत्वानभ्युपगमश्चैकत्वान्यत्वानुभंयत्वासम्भवस्योक्तत्वादिति भावः । तयोरेको भावः एकत्वसर्वात्मकत्वनित्यत्वसर्वगतत्वानुत्पादव्ययत्वादिधर्मात्मकः कालो वा नियतिवा
स्वभावो वा प्रधानं वा पुरुषादि वा स्यात् , अपरश्चासदपोहात्मक निरुपाख्यं वा वस्तु अत्यन्तासत् खपुष्पादि चेत्युभयं स्यादिति 20 समाधत्ते-एकं सर्वात्मकमिति, ईदृशं सदसद्धटितमुभयत्वं ग्राह्यमिति भावः । कथमीदृगेवोभयं वस्तु स्यादित्यत्र हेतुमाह
एकत्वेति, एकत्वस्यान्यत्वस्यानुभयत्वस्य चामीन्धनयोः प्रतिषिद्धत्वात्तथाऽभ्युपगन्तुमशक्यतयोक्तगतिं विनाऽन्यस्या गतेरभावादिति भावः। भवत्वीदृगेवेति, न, तथाविधकालादिभावानां प्राक् प्रतिषिद्धत्वादित्याह-तच्च न भवतीति । नन्वनुपदमसद्रूपमनुभयमभावस्तर्हि ते इत्यादिना प्रतिषिद्धम् , तथा चानुभयाभावोऽसदभावः सद्रूप एवेति सदात्मकवस्तुद्वयमेवोभयं भवितुमर्हतीति
शङ्कते-अनुभयेति । व्याचष्टे-स्यान्मतमिति । उभयत्वं ह्यन्यत्वमेव, परस्परभिन्नलक्षणवस्तुविषयत्वात्ते चाग्नीन्धनरूपे 25 वस्तुनी परस्परतोऽन्ये इति वाच्यं, तत्र चान्यत्वमप्रवृत्तेरसदित्युक्तं प्राकु, असत्त्वमभ्युपगम्याप्यन्यदिति न वक्तव्यमित्यपि प्रतिपादितमेव, तथा चासत्त्वादन्यत्वावक्तव्यत्वाच्चानुभयत्वप्रतिषेधे उभयत्वं प्राप्नोतीत्यपि न सुन्दरमिति समाधत्ते-अन्यत्वावक्तव्यत्वादिति । अभिप्रायं स्फुटयति-एतदुभयत्वमिति, अग्नीन्धनोभयत्वमित्यर्थः । ननु तद्यन्यत्वप्रतिषेधात्तत्प्रतिपक्ष एकत्वं सिद्ध्यतीत्याशङ्कते-अन्यत्वेति । एकत्वस्याप्यसत्त्वैकत्वावक्तव्यत्वयोः प्रागुपपादितत्वादिल्याह-तस्यापीति । तदेवमेकत्वा
दीनां प्रतिषेधमुपसंहरति-इत्थमिति । नन्विन्धनं सामान्यमग्निर्विशेषः, तयोश्चैकत्वान्यत्वाद्यभावेऽपि प्रधानोपसजेनभावेन 30 प्रवृत्तिसम्भवात्तथाभावेन वक्तव्यता स्यादित्याशङ्कते-स्यादाशङ्केति । एकत्वादीनां तयोरसम्भवस्य प्रतिपादनेन प्रधानोपसर्जनभावोऽपि न सम्भवतीत्सतिदेशतो निराकरोति-एकत्वान्यत्वेति। तत्कथमित्यत्राह-यस्मादेतयोरिति, एतयोः सामान्य
१ सि. क्ष. छा. डे. तत्त्वोभयं । २ सि. क्ष. छा. डे. स्थानवृत्तो न वृत्तोभ० । ३ सि. १. छा. डे. °सदनीहनिरु० । ४ सि.क्ष. छा. डे. तदनान्यत्वा० । ५ सि.क्ष. छा. डे. °दव्यक्तं व्यत्वाच्चानुभयत्व०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org