________________
अग्नीन्धनप्रवृत्त्यनुपपत्तिः ]
द्वादशारनयचक्रम्
१०२३
www.www
न्यत्वपक्षयोरिति प्रतिपादितम्, तस्मादनयोरसतोः का प्रधानोपसर्जनता खपुष्पवन्ध्यासुतयोरिव ? सा हि सतोरेव स्वामिभृत्ययोर्दृष्टेति, किञ्चान्यत्वपक्ष एवैषा प्रधानोपसर्जनता युज्यते, स च निषिद्ध:, अग्नीन्धनयोश्च प्रवृत्तेरेतावती गतिः स्यात्, यदुतैकत्वं नानात्वमुभयत्वमनुभयत्वमम्युपसर्जन मिन्धनप्रधानत्वमिन्धनोपसर्जनमग्निप्रधानत्वमिति, सर्वथा न घटते, तस्मात् सर्वथाप्यवक्तव्यतैवेति दृष्टान्तवर्णनमिदं कृतम् ।
एवं सामान्यविशेषयोस्तावद्यद्येकत्वं विशेषस्य भावेन नान्यत्वं, ततोऽनात्मनो 5 भावस्याप्रवृत्तेरभावतैवत्यात्, न प्रवृत्तिर्भावस्य एकत्वात्, दग्धेन्धनवत्, ननु यथा विशेष एकैकोsपि प्रवर्त्तमानो दृष्टस्तथा सूक्ष्मावस्थ एकको भावः प्रवर्त्स्यतीति चेत् को वा ब्रवीति निःसामान्यस्य विशेषस्य प्रवृत्तिम् ? अत एव विशेषत्वात् सन्नेव विशेषीभवति, तदपेक्षत्वाच्च विशेषस्य, रूपं हि रसाद्विशिष्यमाणं सम्बद्धरसमपेक्ष्य विशेषो भवति तथा रसोऽपि नासत् खपुष्पाद्यपेक्ष्य, विशिष्यते स तस्मात्तेन वा स इत्यादिकारकाणामेव कारकत्वात्, 10 अविशिष्यमाणो हि विशेषः विशेष इति निर्देशमेव नार्हेत्, विशिषन्नन्यमन्येन च विशिष्यमाणः विशेषो भवति, तस्मात् स्थितमिदं सामान्यमेव विशेषः इति, तथा च कुतः पृथक् प्रवृत्तिर्विशेषस्य ? को वाऽऽश्वासो विशेष एकैक एव प्रवर्त्तत इति ।
www
एवमित्यादि, प्रस्तुत सामान्यविशेषादिदान्तिक वर्णनायोत्तरो ग्रन्थः, सामान्यविशेषयोस्तावत् तद्यथा-यद्येकत्वं विशेषस्य घटादेर्भावेन - अन्वयेन पृथिव्यादिना, किमुक्तं भवति ? सामान्यमेव निर्विशेषं भवत्ये- 15 कमिति, अतस्तत्प्रदर्शनार्थमाह - नान्यत्वमिति, ततः किं ? ततोऽनात्मनो भावस्य - अश्मसिकतामृल्लोष्टवत्रादिघटादिविशेषात्मलाभरहितस्यानात्मत्वं पृथिव्यादेः सामान्यस्य, अनात्मत्वाच्च खरविषाणवदप्रवृत्तिः, अप्रवृ
विशेषयोरग्नीन्धनयोरेकत्वेऽन्यत्वे चाप्रवृत्तेरसत्त्वं प्रतिपादितमेवेति तयोरभावादेव प्रधानोपसर्जनभावो निर्विषय एव खपुष्पवन्ध्यापुत्रयोः प्रधानोपसर्जनभावस्येवेत्यर्थः । विद्यमानयोरेव स्वामिभृत्ययोः प्रधानोपसर्जनभावो दृष्ट इत्याह-सा हीति, प्रधानोपसर्जनता हीत्यर्थः, अग्नीन्धनयोरेकत्वपक्षे प्रधानोपसर्जनता न स्यादेव, अपि त्वन्यत्वपक्षे सम्भवेत्, सा च न सम्भवतीत्युक्तमेवेत्याह- किञ्चा - 20 न्यत्वपक्ष इति । एवञ्चाग्नीन्धनयोः यदि प्रवृत्तिः स्यात्तदैकत्वान्यत्वोभयत्वानुभयत्वाभ्युपसर्जनेन्धनप्रधानत्वेन्धनोपसर्जनाग्निप्रधानत्वान्यतमरूपेण गतिः सम्भवेत्, सा च सर्वथा न घटत इति सर्वथाप्यवक्तव्यतैवेत्यवचनीयं वस्तुतत्त्वं भवतीति प्रतिपादनार्थं सामान्यविशेषयोरेकत्वादिविचारे दृष्टान्ततयोद्भाविमग्नीन्धनोदाहरणवर्णनं पर्यवसन्नमित्युपसंहरति-अग्नीन्धनयोश्चेति । अथ दाष्टन्तिकं व्यावर्णयति- एवं सामान्यविशेषयोरिति । अथ किंविषय उत्तरो ग्रन्थ इत्यत्राह - प्रस्तुतेति एतन्नयेन विचार्यतयोपन्यस्तेत्यर्थः । सामान्यविशेषयोरेकत्व विचारे यदि विशेषनिरूपितैकत्वं सामान्यस्येति सामान्यवादिपक्षमुद्भावयति-यद्ये- 25 कत्वमिति, अत्र ' यद्येकत्वं विशेषेण घटादिना भावस्यान्वयस्य पृथिव्यादेः' इति पाठः समीचीन इति भाति, उक्तपाठेन तु सहार्थयोगेऽप्रधानतृतीयायुतस्य भावस्याप्राधान्यं विशेषस्य प्राधान्यं स्यात्तथा चेदमुक्तं भवति सामान्यमेव निर्विशेषं भवत्येकमितीति प्रन्थेन सामान्यप्राधान्यज्ञापकेन विरोधः स्यादिति चिन्त्यं सुधीभिः । घटादिविशेषनिरूपितैकत्वं पृथिव्यादिसामान्यस्येत्यर्थः । ततश्च किमुक्तं भवतीत्यत्राह - सामान्यमेवेति, अप्रधानस्य विशेषस्य प्रधाने सामान्येऽन्तर्निविष्टतयाऽप्रतिभासनात् सामान्यमेवैकं भवति नान्यत्वं-विशेषो भवतीत्युक्तं भवतीति भावः । तदा विशेषवादी दोषमाचष्टे - ततोऽनात्मन इति, यदि सामान्य - 30
१ सि. क्ष. छा. डे. नान्यत्रेति । द्वा० न०४ (१२९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org