________________
wwwwww
૨૦૨છે न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे त्तेरभावतैव स्यात् , खरविषाणवदेव, तत् साधनेन दर्शयति-न प्रवृत्तिरिति गतार्थम् , ननु यथेन्धनमित्यादि स एव ननु यथा विशेष एकैकोऽपीत्यादि पूर्वपक्षः, किन्तु रूपादियुगपद्भाविपर्यायविशेषवादिनं प्रतिषिद्धमुदाहृय भाववादित्वन्मते तत्प्रवृत्तिवन्मन्मते सूक्ष्मावस्थ एकको भावः प्रवर्त्यतीति ब्रूयात् , अत्राववक्तव्यवादी तन्मते
नोत्तरं ब्रूते-को वा ब्रवीतीत्यादि, निःसामान्यविशेषप्रवृत्त्यभावोपपादनेन दृष्टान्तासिद्धिं वर्णयति-अत एव । विशेषत्वात् सन्नेव विशेषीभवति-सामान्यमेव नासत् खपुष्पादीत्यर्थः, तदपेक्षत्वाच्चेति-रूपं रसाद्विशिष्यमाणं
सम्बन्धरसमपेक्ष्य विशेषो भवति तथा रसोऽपि रूपं रसो घटो वाऽन्योऽन्यम् , नासत् खपुष्पमपेक्ष्येति, तदर्शयति कारकव्याख्यया विशिष्यते स तस्मात्तेन वा स इत्यादिना कारकत्रये दर्शिते सम्भवीन्यन्यान्यपि कारकाण्यूह्यानीत्यादिग्रहणम् , अविशिष्यमाण इत्यादि, यदि भावेन रहितो विशेषस्ततो विशेष इति निर्देशमेव नार्हेत् विशिषन्नन्यमन्येन च विशिष्यमाणो विशेषो भवति, व्यापारावेशादेव कारकाणां कादीनां 10 कारकत्वात् , विशेष क्रियावेशाभावे ह्यविशेष एव स्यादिति, तस्मात् स्थितमिदं सामान्यमेव विशेषः-सामान्यापेक्ष एवेति, तथा च कुतः पृथक् प्रवृत्तिर्विशेषस्य सामान्याविनाभावात् , को वाऽऽश्वासः-न मनोरथोऽपि करणीयो रूपं रसो वा घटपटादिर्वा विशेष एकैक एव प्रवर्त्तत इति, त्वन्मनोरथानुवृत्त्या संवृतिसत्त्वेनाभ्युपगतयोर्घटपटयोरिवान्यत्वप्रतिपत्तेर्निमित्तभूतयोरिति स्वप्नेऽप्येवं मा मंस्था इत्यभिप्रायः ।
mawram
मेवैकं भवति तर्हि पृथिव्यादिसामान्यस्यानात्मता प्रसज्यते, अश्मसिकतादिविशेषरूपेणात्मलाभाभावात् , अनात्मनश्च खर15 विषाणवदप्रवृत्तेरभावतैव स्यादिति भावः । अप्रवृत्तित्वमेवानुमानेनाह-न प्रवृत्तिरिति, न प्रवर्तेत सामान्यम्, एकत्वात्,
दग्धेन्धनवदिति मानम् । पूर्वोदितग्रन्थमत्रार्थेऽतिदिशति-नन्विति । तद्व्याचष्टे-ननु यथेति, विशेषवादो यद्यपि प्रतिषिद्धस्तथापि तन्मते सामान्याभावेऽपि विशेष एवैकः प्रवर्तते तथा मन्मतेऽपि सूक्ष्मावस्था सामान्यं प्रवय॑ति को दोषो जगद्वैचित्र्यलक्षणकार्येण सामान्यस्य प्रवृत्तेरनुमेयत्वात् सूक्ष्मावस्थ इत्युक्तमिति भावः । मतमिदमवक्तव्यवादी निराचष्टे-को वा ब्रवीतीति, विशेषवादिमतानुसारेण समाधिरियम, सामान्यरहितस्य विशेषस्य प्रवृत्तिरेव नास्माभिरभ्युपगम्यते येन तन्निदर्शनं भवेत्, सामा20 न्यरहितविशेषप्रवृत्त्यसम्भवरूपविशेषत्वादेव सन्नेव विशेषो भवति, नासन् खपुष्पादिरिति भावः । कस्माद्विशेषो भवतीत्यत्राह-तद
पेक्षत्वाच्चेति, सदपेक्षत्वादित्यर्थः, यतः सन्नेव विशेषो भवतीति सदपेक्ष्यते नासत् खपुष्पादि, यतश्च स विशेषो विशिष्यमाणत्वा द्भवति, यथा रूपं रसादिभ्यो विशिष्यमाणं तदपेक्षया विशेषो भवति सदेव, रसो वा रूपादिभ्यो विशिष्यमाणो विशेषो भवति सन्नेव, तस्मात् सामान्यमेव विशेषो भवति, न तु निःसामान्यस्य प्रवृत्तिरिति भावः। कारकव्याख्याप्रदर्शनेन उक्तं द्रढयति-विशिष्यत इति, विशिष्यते स, तस्मात्स विशिष्यते. तेन स विशिष्यत इति कर्मापादानकर्तकारकनिदर्शनानि, अन्यकारकसम्भवे तदपि विज्ञेयमिति 25 भावः। अविशिष्यमाण इत्यादीति, यो विशिष्यते विशेषणक्रियाश्रयो भवति स विशेषो, विशिष्यमाणो व्यावृत्तो भवति विशिष्य
माणो हि सन्नेव, रसाधन्यं विशिंषन् रूपादिः रसादिना वा विशिष्यमाणो विशेषो भवति, तस्माद्विशिष्यमाणभावस्याभावे यो येन यस्माद्वा विशिष्यते तथाविधभावस्याभावे विशेषणक्रियाभावे च स विशेष एव न स्यात् खपुष्पादिरिवेति भावः । करोति व्यापिपर्ति इति व्यापारविशिष्टस्यैव कादीनां कारकता न तु निर्व्यापाराणाम् , तस्माद्विशिंषन्नेव विशेषो न तु क्रियाविहीन इत्याह-व्यापारावेशा
देवेति । सामान्यमेव सामान्यापेक्षो विशेषो भवतीत्युपसंहरति-तस्मादिति । एवञ्च विशेषस्य सामान्यानन्तरीयकत्वात्तद्रहित30 विशेषस्य शशशृङ्गायमाणत्वाद्विशेष एव केवलं प्रवर्तते रूपादिर्घटादिति स्वप्नेऽपि न विचिन्त्यमित्याह-तथा च कुत इति ।
यथा त्वया सामान्यमात्रवादिनाऽन्यत्वप्रतिपत्तेनिमित्तं संवृतिसत्त्वेनाभ्युपगतो घटपटादिरेवेष्यते न तु वस्तुभूतः, तथैवास्माभिः सामान्यमभ्युपगम्यत इति खप्नेऽपि मा संस्था इत्यभिप्रायं विशेषवादिनो दर्शयति-त्वन्मनोरथानुवृत्त्येति । नन्वनुपजात
१ सि. क्ष. छा. डे. भविशिष्यमाणेत्यादि । २ छा. त्वन्मतेरनु । ३ सि. क्ष. छा. डे. निमित्तभूतमिति ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org