________________
१०२५
wwww
wwwwwwwwwww
wwwmmmm
सूक्ष्मावस्थसामान्यभङ्गः]
द्वादशारनयचक्रम् सूक्ष्मावस्थाप्राप्तिदिगप्यवयवावयविविशेषसामान्यकारणकार्याणां भेदे सिद्धे स्यान्नान्यथा, प्रधानावस्था हि सूक्ष्मा महदादिविषयस्थूलापेक्षैव ते चाऽवस्थे परस्परापेक्षे परस्परमन्तरेण न भवतः, एतच्च सूक्ष्मावस्थोत्यैव त्वयाऽभ्युपगतं भवति, तद्व्यतिरेकेणाव्यवस्थानात् , तथा च तदनुपपत्तिरभावत्वापत्त्यभ्युपगमात् , प्रागभावप्रध्वंसाभावात्मकत्वादवस्थयोः ततश्च तेऽभ्युपगमहानिः ।
सूक्ष्मावस्थेत्यादि, यापि प्राप्तिदिक् काचित् त्वयोन्नीयते केनचिन्नयान्तरेण सूक्ष्मावस्थो भावो विशेषरहितस्तिष्ठतीति साप्यवयवानामवयविनो विशेषाणां सामान्यात् कारणात् कार्याणां भेदे सिद्धे स्यादिति संभाव्येत, नान्यथा, प्रधानावस्था हि सूक्ष्मा-सत्त्वरजस्तमसां समता, सा महदादिविषयस्थूलावस्थापेक्षैव, त एव गुणाः सूक्ष्माः स्थूलाश्च, ते चाऽवस्थे परस्परापेक्षे सर्पस्फटाटोपकुटिलगतिस्थितिकुण्डलकीभवनादिवत् सर्पमन्तरेण न ते विशेषा भावं न तानन्तरेण स इति, एतच्च सूक्ष्मावस्थोक्त्यैव त्वयाऽभ्युपगतं भवति, 10 स च सूक्ष्मताभावो बालयुवमध्यमस्थविराद्यवस्थाविशेष एव भवति, तव्यतिरेकेणाव्यवस्थानात् , तथा च तदनुपपत्तिः-एवञ्च सति भावस्यान्वयाख्यस्य भावत्वानुपपत्तिः, अभावत्वापत्त्यभ्युपगमात् कस्मात् ? प्रागभावप्रध्वंसाभावात्मकत्वादवस्थयोः-सूक्ष्मस्थूलयोः, यथा घटः प्रागर्भूत्वा भवति भूत्वा च न भवतीत्यभावास्मकत्वादसन्नेव प्राक् पश्चाच्च, एवमसूक्ष्मः सूक्ष्मो भवति पुनश्च न भवति तथाऽस्थूलोऽपीत्यभाववादित्वमापन्नं भाववादिनस्तेऽभ्युपगमहानिश्च । विशेषावस्थतयाऽवस्थितं सामान्यं सूक्ष्मावस्थं सामान्यमुच्यत इति केनचिन्नयेन द्रव्यार्थिकविशेषेण त्वया स्वीक्रियते तदनुचितमित्याह-सक्षमावस्थाप्राप्तिदिगपीति । व्याचष्टे-यापीति, प्राप्तेः-सूक्ष्मावस्थाप्राप्तेर्भावस्य सामान्यस्य दिक-सूचनमुन्नीयते सूक्ष्मावस्थो भावो विशेषरहितः तिष्ठतीत्यर्थः एवमुन्नयनं तदा स्याद्यदा सामान्यविशेषयोरवयवावयविनोः कार्यकारणयोर्भेदः सिद्धो नान्यथेति समाधत्ते-साप्यवयवानामिति, अवयविनः सामान्यात् कारणादवयवानां विशेषाणां कार्याणाञ्च मेदे प्रमाणविषयीभूते सूक्ष्मावस्थाप्राप्तिः सम्भाव्येत, अन्यथा त्ववयव्यादीनामवयवाद्यविनाभावात्तदवस्था दुर्लभैवेति भावः। प्रधानावस्था 20 हीति, त्वया प्रधानावस्था-कारणावस्था सूक्ष्मावस्थेत्यभ्युपगम्यते सा चावस्था सत्त्वादिगुणत्रयसाम्यरूपा, तस्याः सूक्ष्मता च महदादिविकारनिष्ठस्थूलतानिरूपितैव महदादयश्च गुणानां वैषम्यम् , एवञ्च गुणेष्वेव स्थूलत्वं सूक्ष्मत्वञ्चाऽऽस्ते, ते च स्थूलत्वसूक्ष्मत्वे परस्परापेक्षे, अतो नैकमन्तरेगापरस्य सम्भवः यथा सर्पमन्तरेण तदवस्थाः स्फटाटोपादयः ता अवस्था विना वा सो न भवितुमहति तथा विशेषं विना सामान्यस्य सामान्यं विना वा विशेषस्य न सम्भव इत्यनुपजातविशेषावस्थारूपसूक्ष्मावस्थानुपपत्तिरिति भावः। परस्पराविनाभावस्त्वयाप्यभ्युपगत एवेत्याह-सच सूक्ष्मताभाव इति, अवस्थाविशेष एव भावस्यायम्, अवस्थाविशेषव्यति-25 रेकेण भावस्यावस्थानं न सम्भवतीति भावः । एवञ्च स्थूलसूक्ष्मावस्थावद्भावाभ्युपगमे तद्भावस्य भावत्वमेव व्याहन्यत इत्याहतथा चेति । भावत्वानुपपत्तौ हेतुमाह-अभावत्वापत्त्यभ्युपगमादिति, स्थूलसूक्ष्मावस्थाभ्युपगमेऽन्वयाख्यो भावोऽभाव एवेत्यभावत्वाभ्युपगमप्रसङ्ग इति भावः । तत्कथमित्यत्राह-प्रागभावेति, प्रागभावः सूक्ष्मता, प्रध्वंसाभावः स्थूलतेति ते अवस्थे भभावात्मिके, घटात्मको भावो हि प्रागभूत्वा भवति, स च प्रागभावस्तस्य सूक्ष्मता, सूक्ष्मताया विनाश एव स्थूलता, अतो घटः प्राक् सम्प्रत्यप्यभावात्मकः पश्चाद्विनश्यन्नप्यभावरूप एवेत्यभावात्मकत्वं भावस्यापन्नम्, अभावात्मकत्वाचासन् 30 स्यादिति भावः । असत्त्वमेवाऽऽख्याति-एवमसूक्ष्म इति, असूक्ष्मः-सूक्ष्मताविनाशरूपो घटः सूक्ष्मो भवति तिरोहितो भवति, अभावरूपो भवतीति यावत् , पुनश्च न भवति, पुनश्च सूक्ष्मो न भवति-स्थूलो भवति सूक्ष्मताप्रध्वंसरूपो भवतीति भावः । एवं स्थूलावस्थाश्रयेणाह-तथाऽस्थूलोऽपीति, अस्थूलः स्थूलो भवति, पुनश्च न भवतीत्युभयथाप्यभावात्मकत्वापत्त्या त्वमभाव
सि.क्ष. छा. डे. तेनावस्थे । २ सि.क्ष. छा. डे. सूक्ष्मतांयान्भावोपालं युव०।३ सि.क्ष. छा. डे. भूतत्वा० । ४ सि.क्ष. छा. डे. भूतत्वा च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org