________________
awwwwwwwwww mom
१०२६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे अथाभावत्वमेव भावस्याभ्युपगच्छसि ततश्च चक्षुरादिलक्षणलक्ष्यारूपाकाशादिविशेषाणां निर्बीजानामुत्पत्तिरसतीति सर्वशास्त्रलोकगतव्यवहाराभावप्रसङ्गः।
(अथेति) अथ मा भूदभ्युपेतहानिरित्यभावत्वमेव भावस्याभ्युपगच्छसि ततश्च चक्षुरादिलक्षणेत्यादि, यद्यसत्त्वं सामान्यस्येष्टं तस्माच्चासतः सामान्यात् चक्षुरादिरूपादीनामाकाशादीनाञ्चावस्था5 ख्यानां विशेषाणां निर्बीजानामुत्पत्तिरसती, रूपस्य चक्षुर्लक्षणम् , आदिग्रहणात् श्रोत्रत्वजिह्वाघ्राणानि
शब्दस्पर्शरसगन्धानां लक्षणानि, लक्ष्या रूपादयः शब्दाद्यात्मकानि वाऽऽकाशादिभूतानीत्यादिसर्वशास्त्रलोकगतव्यवहाराभावप्रसङ्गाद्भावस्याभावत्वमपि नाभ्युपगन्तव्यमिति ।। ___अथोच्येत प्रागनीन्धनैकत्वे दोषादिन्धनान्यैकत्वाभ्युपगमवद्यदि भावो विशेषान्
व्यामोति, न तु विशेषो भावम् , एकदेशवृत्तित्वात् तस्माद्विशेषेण सह सामान्यस्यैकत्वं 10 नास्ति, अस्ति तु विशेषस्य सामान्येन सह, भावोपग्रहान्तर्भावितवृत्तेर्विशेषत्वादिति, एतदेव त्वं पृच्छयसे-अथ भेदवृत्तिः कथम् ? दृष्टा हि भेदेन वृत्तिों केऽनयोः, एकत्वेऽनयोश्च विशेषाविशेषवृत्त्योः कोपपत्तिः।
अथोच्येतेत्यादि, प्रागनीन्धनैकत्वे-अग्नेरिन्धनेन सहैकत्वे दोषादिन्धनस्याग्निना सहकत्वे दोषाभावं मन्यमानेन यथा परिहारः परेणोच्यते तथेदं भावस्य विशेषेण सहैकत्वे दोषाद्विशेषस्य भावेन सहैकत्वे 15 दोषाभावं मन्यमानः परिहारमाह-तद्यथा-यदि भावः सामान्यं पृथिवीत्यादि घटपटादीन् अश्मसिकतादींश्च विशेषान् व्याप्नोति, न तु विशेषोऽश्मघटादिःभावं पृथिवीत्वं व्याप्नोति, एकदेशवृत्तित्वात् , तस्माद्विशेषेण सह घटेन पटेन वा [सामान्यस्य] पृथिव्या एकत्वं नास्ति, घटस्य त्वस्ति विशेषस्य सामान्येन पृथिव्यादिना भावेन वाद्येव जातः, तस्मात्ते प्रतिज्ञाहानिः प्राप्तेति भावः। ननु भवतु भावस्याभावत्वम् , तथैव वयमभ्युपगच्छाम इति यद्युच्यते तदाऽप्याह
अथाभावत्वमेवेति । अभावत्वानभ्युपगमे ह्यभ्युपगमहानिः स्यात्, वयन्त्वभावत्वमभ्युपगच्छाम इत्याह-अथ माभूदिति । 20 दोषमाचष्टे-ततश्चेति, अभावस्वरूपाद्भावाद्विशेषाणां सर्वशास्त्रलोकव्यवहारविषयाणामुत्पत्तिन स्यात् , निर्बीजत्वात् , प्रकृतेर्ह महान् , महतोऽहङ्कारः, तस्मात् षोडशको गणो भवतीति, षोडशको गणः एकादशेन्द्रियाणि पंचतन्मात्राणि, तन्मात्रेभ्यश्चाकाशादिपञ्च भूतानि भवन्ति, तत्र चक्षुरादीन्द्रियैः रूपादयो लक्ष्यन्ते, शब्दस्पर्शरूपरसगन्धैः आकाशादि भूतानि लक्ष्यन्त इत्यादिनिखिलशास्त्रलोकव्यवहारा न भवन्ति, असतः कस्याप्यनुत्पत्तेरिति भावः । भावं स्फुटयति-यद्यसत्त्वमिति । चक्षुरादीति, तत एव प्रत्यक्षविषयताश्रयत्वान्महदादिपरित्यागेनोक्तम् । उपसंहरति-भावस्यति, तस्माद्भावस्याभावत्वमभ्युपगन्तुमशक्यमिति भावः । 25 तदेवं भावस्यावस्थारूपताभ्युपगमे प्रोक्तदोषसंभवाद्वादी तत्पक्षं विहायावस्थानां भावरूपतामभ्युपगच्छेच्चेत्तदाप्याह-अथोच्येतेति। किमुच्येत वादिनेत्यत्राह-प्रागनीन्धनैकत्व इति, यथेन्धननिरूपितैकत्वस्याग्नेरभ्युपगमे प्रागपि दग्धेनवदप्रवृत्त्याऽसत्त्वापत्तिदोषादग्निनिरूपितैकत्वमिन्धनस्य वीकृतं तथाऽत्रापि भावत्वव्याप्तत्वाद्विशेषाणां तेषामेव भावत्वमभ्युपगच्छामः, तेषां भावनिरूपितैकत्वात् , न तु विशेषनिरूपितैकत्वाद्भावस्य विशेषात्मकत्वम् , विशेषाव्याप्तत्वाद्भावस्य, विशेषाणामेकदेशवृत्तित्वादिति पूर्वपक्षाशयः ।
भावस्येति, विशेषनिरूपितैकत्वे भावस्य प्रोक्तदोषाद्भावनिरूपितैकत्वे विशेषस्य दोषाभावं मन्यमान इत्यर्थः । स्वाभीष्टं विशे30 षाणां भावव्यापित्वं दर्शयति-यदि भाव इति । अनिष्टं भावस्य विशेषव्यापित्वं निराकरोति-न तु विशेष इति । भावः कुतो न विशेषव्यापीत्यत्र हेतुमाह-एकदेशवृत्तित्वादिति, विशेषो हि भावस्यैकदेशः, तस्मान्नैकदेशः परिपूर्ण भावं व्याप्तुं शक्नोतीति भावः। एवञ्च घटपटादिविशेषनिरूपितैकत्वं सामान्यस्य नास्ति, पृथिव्यादिसामान्यनिरूपितैकत्वन्तु घटादिविशेषस्यास्तीत्याह-तस्माद्विशेषेणेति । अत्र हेतुमाह-भावोपग्रहेति, भावेन गृहीतः सन् खस्मिन् विशेषस्य वर्तनमन्तर्भावयति खात्मसात्करोति भावस्याऽऽत्मरूपतामापद्यतेऽतो विशेषः सामान्यनैकत्वं भजते भावाव्यतिरिक्तत्वादिति भावः। व्याचष्टे च
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org