________________
ammawinmun
एकत्वव्याघातः] द्वादशारनयचक्रम्
૨૦૧૭ सह, कस्मात् ? भावोपग्रहान्तर्भावितवृत्तेर्विशेषत्वात् भावस्य-सामान्यस्योपग्रहेण तेनोपगृहीतत्वात् तस्मिन्नन्त
र्भाविता वृत्तिर्वर्त्तनमस्तित्वं विशेषस्य भावात्मरूपापन्नत्वात् कारणात् विशेषस्य विशेषत्वं नान्यथा, तस्माद्भावोपग्रहान्तर्भावितवृत्तेर्विशेषत्वाद्विशेषस्य सामान्येन सहैकत्वमस्तु, भावाव्यतिरिक्तात्मत्वात् को दोष इति, एत[दे]व पृच्छयते सामान्यविशेषैकत्ववादी सामान्योपलम्भानिवृत्तेः, अथ भेदवृत्तिः कथमिति पूर्ववदेव, दृष्टा भेदेन वृत्तिर्लोकेऽनयोः, तद्यथा-पृथिवीत्यविशेषेण घटपटादिष्वभिन्ना भावस्य, घटः पटो न भवतीति । घटपटादेर्भिन्ना विशेषस्य, तेन वृत्ती परस्परविभिन्ने तयोः कोपपत्तिरेकत्वे ?
परस्पररूपतापत्तौ नानात्वकृतायां कस्मान्न समानभूतः सन्नविशेषरूप एव संवृत्तः? भावो वा विशिष्टत्वाद्विशेषरूपः १, तदेकत्वात् , दृष्टा चेयं सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदवृत्तिः, विकल्पाच्चैकत्वव्याघातः, एकत्वे कुतोऽयं विशेषः-इदं न सह, इदं सह इति, विशेषणक्रियाधारकरणाद्यनुपपत्तेश्च ।
10 परस्पररूपंतापत्तौ नानात्वकृतायामिति, तद्दर्शयत्यनिष्टापादनद्वारेण कस्मान्न समानभूतः सन्नविशेषरूप एव संवृत्तः ? योऽयं घटो रूपादिर्वा विशेषः पटादिभ्यो रसादिभ्यो वा व्यावृत्तोऽपि मृन्मदेवेत्यव्यावृत्त्या समानभूतः सन् सन् सन् भवति भवति पृथिवी पृथिवीत्येव वा निर्विशेषः कस्मान्न भाववद्भवति ? प्रतिषेधद्वयस्याविशेषानिष्टापादनात्, दृष्टं विशेष समर्थयति-भावो वा विशिष्टत्वाद्विशेषरूपः, कस्मान्न संवृत्त इति वर्तते, तदेकत्वाद्विशेषवत्, मृद्भवनपृथिवीत्वत्यक्तरूपो रूपरसादिविशेष एव कस्मान्न 15 भवति, उभयत्र तदेकत्वादिति हेतुः इतरेतरस्वरूपे दृष्टान्तौ, दृष्टा चेयं सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदवृत्तिः, अनिष्टापादनसाधनञ्च-भावो विशेष एव स्यात् , तदेकत्वात् तत्स्वात्मवत् , विशेषो वा भाव एव भावस्य सामान्यस्येति । अवक्तव्यत्ववादी सामान्यविशेषयोरेकत्ववादिनं पृच्छति सामान्यवादसम्भविदोषानिवृत्तेः-एतदेवेति । किं तदित्यत्राह-अथ भेदवृत्तिः कथमितीति, विशेषस्य भावाव्यतिरिक्तत्वे इतरेतररूपापत्त्या भावस्य भूतत्वेन भवनासम्भवाद्विशेषस्य घटपटादेर्भेदेन वर्त्तनं कथम् , दृष्टं च सामान्यविशेषयोर्भेदेन वर्त्तनं लोके, यथा घटपटादिविशेषेषु पृथिव्यविशे- 20 षेणाभिन्ना वर्त्तते, घटस्य पटस्य च पृथिवीत्वात् , घटपटादिविशेषाणान्तु भिन्नं वर्तनम् , घटः पटो न भवतीति परस्परं विभिन्नत्वात् , तस्मात् सामान्यविशेषयोरेकत्वे वृत्तौ परस्परविभिन्नता कथमिति भावः । सामान्यविशेषयोरितरेतररूपापत्तौ चानिष्टमाहपरस्पररूपतापत्ताविति । सामान्येन सह विशेषस्यैकत्वादेव परस्पररूपापत्तिरित्याह-परस्परेति, विशेषः सामान्येनैकत्वात् समानभूतः, अत एव सामान्यवत् कस्मान्नाविशेषरूप एव सञ्जातः, घटपटादयो विशेषाः परस्परं भिन्ना अपि सामान्यभूतत्वादविशेषरूपेण मृन्मृदिति पृथिवी पृथिवीति वा सन् सन्निति समानभूता भाववत् कुतो निर्विशेषा न भवन्तीति भावः। कस्मा-25 नाविशेषरूप एवेति नद्वयप्रयोगादविशेषरूपताऽनिष्टेति सूचयतीत्याशयेनाह-प्रतिषेधद्वयस्येति। नाविशेषरूपता विशेषस्य, दृष्टविरोधात्, दृष्टो हि विशेषत्वेन विशेष इत्यत्राह-दृष्टं विशेषमिति, यदि विशेषो दृष्ट उच्यते तर्हि भावस्य विशेषात्मकत्वाद्विशिष्टभूतः कुतो न संवृत्तः विशेषवत् , सामान्यस्य विशेषेणैकत्वादिति भावः। भावार्थमाह-मृद्भवनेति, मृदादयः खासाधारणं रूपं मृत्त्वभवनपृथिवीत्वादि विहाय घटपटादिविशेषाः कस्मान्न सञ्जाताः तदेकत्वादिति भावः । सामान्यत्वे विशेषस्य विशेषत्वे च सामान्यस्य तदेकत्वादित्येक एव हेतुरित्याह-उभयत्रेति । विशेषस्य सामान्यत्वापादने भावस्वरूपं भावस्य विशेषत्वा-30 पादने च विशेषस्वरूपं दृष्टान्त इत्याह-इतरेतरेति । न चेष्टापत्तिः सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदेन वृत्तदर्शनादित्याह-दृष्टा चेयमिति । उक्तानिष्टापत्तिमेव प्रयोगेण दर्शयति-भावो विशेष एवेति । एवं सामान्येन साधनं प्रदर्श्य दृष्टान्त
१ सि.क्ष. छा. डे. रूपानायत्तौ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org