________________
wwwwwwwwww
namammmmm
mM
१०२८
न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमभङ्गारे स्यात् , तदेकत्वात् , स्वात्मवत् , मृत्स्याद्भूट एव तदेकत्वात् घटस्वात्मवत् , घटो वा मृदेव स्यात् तदेकत्वात् स्वात्मवत्, किश्चान्यत्-विकल्पाच्चैकत्वव्याघातः-एकत्वे कुतोऽयं विशेषः-इदं न सह, इदं सह ? इति, भावो विशेषेण सहैको न विशेषो भावेन, विशेषो भावेन सहैको न भावो विशेषेणेत्येतौ विकल्पो नैकत्वे घटेते, विशेषहेत्वभावात् , अन्यत्व एव च घटेते द्विष्ठ[व]त् सहासहभावस्येति, इतश्च नोपपन्नमेकत्वं भावेन सह । विशेषस्य-विशेषणक्रियाधारकरणाद्यनुपपत्तेश्व-विशेषणक्रिया कर्त्तरि विशिंषति समवेता विशेष्ये वा कर्मणि
पृथिवीघटादौ वा, एतस्या यथाविवक्षमाधारौ, येन पटादिना विपक्षभूतेन विशिष्यते तत्करणम् , भावस्यैव वा विशेषः, यतो विशिष्यते घटोऽयं पटादिर्न भवतीति सोऽर्थोऽपादानम् , यस्मै विशिष्यते प्रतिपाद्यते स सम्प्रदानं श्रोता इत्येषां कारकाणां क्रियायाश्च विपूर्वशिषिधातुवाच्याया भिन्नार्थनिबंधनत्वादेकत्वे सत्य
नुपपत्तिः, दृष्टश्चायं कारकव्यवहारो भेदनिबन्धनः, तस्माद् दृष्टत्वादयुक्तमेकत्वम् । 10 अभ्युपेत्याप्येकत्वं न युक्तमेवेति ब्रूमः
अथापि कथश्चिदित्यादि पूर्ववद्यावत् परमाणुवदिति, अथ मा भूवन्नेते दोषा इति भावविशेषयोरन्यत्वपक्षोऽभ्युपगम्यते चेत् तत्र तावद्यदि भावस्य विशेषेण सहान्यत्वं तेन तर्हि भावस्य विशेषात् पृथग्भूतं रूपमाख्येयम् , निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिद्धयेत् , शक्यञ्च
प्रतिपत्तुमयमस्मादन्य इति, यथाऽन्येषामन्येभ्यः पटादिभ्यस्तन्तुत्वम् , न शक्यते च भावस्य 15 विशेषात् पृथग्भूतं तत्त्वं दर्शयितुम् , न ह्यन्यदन्यसाधारणरूपं भवति, तस्माच्छक्यते
च ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम् , न तथा विशेषात् पृथग्भूतमसाधारणं भावस्य रूपं शक्यं वक्तुम् । सामान्यविशेषकत्वनानात्वाभ्यां त्वप्रदर्शितपृथिवीघटपटादिनिर्देशवदत्रापि स्यादिति चेदुच्यते न मम किञ्चित् सामान्यविशेषकत्वनानात्वाभ्यां व्यवस्थितमस्ति, त्वन्म
तानुवृत्त्या संवृतिघटपटवदित्यैक्यं कर्तुमुदाहियते, अनिरूप्यमाणस्त्वसन्नापद्यते, अविशेषत्वे 20 सत्यरूपत्वात् , खपुष्पवत् । मुखेन पुनर्दर्शयति-मृत्स्याट एवेति । विशेषनिरूपितैकत्वं भावस्य, न तु भावनिरूपितैकत्वं विशेषस्य, अथवा भावनिरूपितैकत्वं विशेषस्य न तु विशेषनिरूपितैकत्वं भावस्येति विशिष्टौ विकल्पौ वदतस्तव कुतो नेकत्वं व्याहन्यते, एकत्वे हि विकल्पयोरीदृशोवैलक्षण्ये न किमपि साधनं पश्याम इत्याशयेनाह-विकल्पाच्चेति, विशिष्टे विकल्पेऽभ्युपगम्यमाने एकत्वं कुतः ? एकत्वे च कुतो विकल्पविशेषः-सामान्यं न विशेषेण सह, विशेषः सामान्येन सहेतीति भावः । विकल्पविशेषश्चान्यत्व एव तयोः स्यादित्याह25 अन्यत्व एव चेति । भावनिरूपितैकत्वं विशेषस्य यदि स्यात्तर्हि विशेषणक्रियातदाधारतत्करणादीनां प्रतीयमानानामनुपपत्तिः, विशेषणं विशेषो विपूर्वकशिषिधातुना निष्पन्नः, विशेषण क्रिया सा क्वचित् कत्तुगता क्वचिच्च कर्मगता, कर्म च पृथिवीघटादि, विवक्षामनुसृत्य क्रियायास्तस्या कतकर्मणी आधारौ भवतः, घटादि पटादिना विशिष्यते तस्मात् पटादि करणम्, यस्माद्विशिष्यतेऽयं घट एव न पटादिरिति तदपादानम् , यस्मै विशिष्यते प्रतिपाद्यते स श्रोता सम्प्रदानमित्येवं कारकाणां विशेषण क्रियायाश्च भावविशेषयोरेकत्वे भावस्य विशेषाभावादनुपपत्तिः, उक्तक्रियाधारादीनां भिन्नार्थनिमित्तकत्वात् , कारकव्यवहाराणां भिन्ननिमित्तकत्वस्य 30 दृष्टत्वादित्याशयेनाह-विशेषणक्रियाधारेति । तदेव समर्थयति-विशेषणक्रियेति । अथ द्रव्यार्थिकनयेनैकत्वमभ्युपेत्यापि पूर्ववत् यदेकमित्यभिमतं तदेकमेवेति न वक्तव्यमेकत्वादेकदेवदत्तहस्ताद्यनेकत्ववदित्येवं सर्व भाव्यमित्यतिदिशति-अथापिकथञ्चिदि
१ सि.क्ष. छा. डे. ०प्येकत्वानयु० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org