SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwww पृथग्रूपाख्यानाशक्यता] द्वादशारनयचक्रम् १०२९ अथापि कथञ्चिदित्यादि, पूर्ववदेकत्वप्रतिषेधेनावक्तव्यप्रसाधनं तमेव ग्रन्थमतिदिशति पूर्ववत् यावत्परमाणुवदिति सावधिकं सहेतुदृष्टान्तापाद्यावक्तव्यत्वनिष्ठं तुल्यगमत्वात् व्याख्यातार्थमेवेति, एवं सामान्यविशेषयोरेकत्वे दोषा उक्ताः, एतद्दोषभयात् पक्षान्तरं निर्दोष मन्यमानश्चत् परो गृह्णीयात् अथ मा भूवन्नेते दोषा इति, किं तत् पक्षान्तरम् ? अन्यत्वं भावविशेषयोः, तत्राप्येकत्ववत् द्वयी गतिः, भावस्य विशेषेण सहान्यत्वं विशेषस्य वा भावेनेति, तत्र तावद्यदि भावस्य विशेषेण सहान्यत्वमभ्युपगम्यते तत इदमापतितं दोषजातं तेन तीत्यादि, यावत् संवृतिघटपटवदैक्यं कर्तुमित्यादि, उपसंहारसाधनं-अनिरूप्यमाणस्त्वसन्नापद्यते, अविशेषत्वे सत्यरूपत्वात्, खपुष्पवत्, [अ] विशेषत्वं भावस्य विशेषादत्यन्तमन्यत्वात् , पृथिव्या अश्मसिकताद्यवस्थाविशेषमन्तरेणास्थानात् तदात्मत्वमनिच्छत एकान्तेनाविशेषत्वे सत्यरूपत्वं भावस्य, तदतिरेकेणानिरूप्यरूपत्वात् , तस्मादसत्त्वमापन्नं वस्तुनोऽन्यत्वे पृथग्रूपावश्यंभावात् । तदाख्यानाशक्यत्वे वा सत्त्वमित्युक्तेऽन्यत्ववादिना अथोच्येत रूपं पृथग्भावस्य विशेषादनुप्रवृत्तौ, तथा कुतो विशेषं विना ? घटपटाद्यनुप्रवृत्तिरूपत्वेऽपि पृथग्रुपाख्यानाशक्यत्वात् , यदि स्याद्भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपं स्याद्भावत्वाद्धटादाविव । (अथोच्येतेति) अथोच्येत रूपं पृथग्भावस्य विशेषाद्यावृत्तिरूपादनुप्रवृतौ, दृष्टमिति वाक्य- 15 mmmmmmmmm त्यादीति । अवक्तव्यत्वसाधनं पूर्वप्रन्थेन तुल्यगमत्वाद्व्याख्यातार्थमेवेत्याह-पूर्ववदिति, एकमिति न वक्तव्यमित्येकत्वप्रतिषेधेनावक्तव्यत्वसाधनं बोध्यम् । उपसंहरति-एवमिति । एकत्वे भावविशेषयोरुदितदोषप्रसङ्गभयेन तयोरन्यत्वपक्षमुत्थापयतिएतहोषमयादिति । अन्यत्वपक्षेऽप्येकत्वपक्षवत् किं भावस्य विशेषेण सहान्यत्वम् , किं वा विशेषस्य भावेन सहेति विकल्पद्वयं सम्भवति, तत्र विशेषेण सह भावस्यान्यत्वे दोषमाह-तत्राप्येकत्ववदिति। पूर्वग्रन्थमेवात्राप्यतिदिशति-तेन तहींत्यादीति, भावविशेषयोरन्यत्वाभ्युपगमेन विशेषाद्भिन्न रूपं भावस्य वाच्यम् , तदैवायमस्मादनेन रूपेणान्य इति प्रतिपत्तुं शक्यते, 20 तच्च रूपं त्वया न शक्यते दर्शयितुम् , रूपेण ह्यसाधारणेन भाव्यम्, न हि साधारणं रूपं भवितुमर्हति, तेनान्यत्वासिद्धेः, एवञ्च विशेषात् पृथग्भूतमसाधारणं स्वरूपं निर्देष्टुं न शक्यम् , तथा घटः पटाद्विशेषत्वादन्यः, सामान्यत्वात् पृथिव्या अनन्य इति सामान्यविशेषैकत्वनानात्वाभ्यां मत्प्रदर्शितपृथिवीघटपटादिनिर्देशवदत्र निर्देष्टुं न शक्यते, अवक्तव्यवादिनो मम कस्यापि ताभ्यां व्यवस्थानाभावात् , त्वन्मतमनुवृत्त्यापि कल्पनया घटपटाद्यभ्युपगम्य तयोरसाधारणं रूपं यथा निर्देष्टुं शक्यते तथाऽत्र न शक्यते निर्देष्टुमिति प्रतिपादनार्थमेव मया तदुदाहृतम् , तस्मादनिरूप्यो भाव इति भावः। ततश्चोपसंहारभूतं साधनमाह-अनिरूप्य- 25 माणस्त्विति, यतो भावोऽनिरूप्यमाणोऽत एव भावोऽसन् , अविशेषत्वे सत्यरूपत्वात् खपुष्पवदिति मानेनासत्त्वमापद्यत इति भावः। विशेषणासिद्धिं निराकरोति-अविशेषत्वमिति, विशेषभिन्नत्वं तत्, तच्च भावे विशेषादत्यन्तान्यत्वस्याभ्युपगमात्, तथाऽवस्थाविशेषव्यतिरेकेण कस्यापि वस्तुनोऽनवस्थानेऽपि तथात्वमनिच्छतस्तव भावस्यैकान्तेनाविशेषत्वं सिद्धम् , तथा चाविशेषत्वे सत्यरूपत्वं भावस्य नासिद्धमिति भावः । साधनान्तरमाह-तदतिरेकेणेति, भावस्य स्वरूपं विशेषातिरेकेणानिरूपितमेवातोऽप्यसत्त्वं भावस्यापन्नम् , विशेषस्यान्यत्वे हि भावस्य पृथग्रूपमावश्यकम् , तच्च नास्ति तस्मादसत्त्वमिति भावः । पृथक् स्वरूपस्य वक्तु- 30 मशक्यत्वाच्च भावोऽसन्निति निरूपितेऽन्यत्ववादी पूर्वपक्षयति-अथोच्येतेति । व्याचष्टे-अथोच्येत रूपमिति, व्यावृत्तिखरूपाद्विशेषाद्भावस्यानुवृत्तौ पृथप्रपं दृष्टमित्यर्थः। इयं पृथिवीयं पृथिवीत्येवं घटपटाश्मादिष्वनुप्रवृत्तिः सा विशेषमन्तरेण कथं १ सि. १. छा. . वनश्यदोषा० । २ सि. क्ष. छा. रे. पत्वेरूपत्वा । ३ सि.क्ष. छा. डे. °द्यवस्थौवि० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy