________________
१०३०
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमभङ्गारे
शेषः, अन्त्र ब्रूमः तथा कुतो विशेषं ? यदेतद्धटारमादिषु पृथिवीत्वानुवृत्तिलक्षणं रूपं तद्विशेषेण विना नैवा
www
स्तीति तदवस्थं पृथग्रूपाख्यानाशक्यत्वम्, अभ्युपेत्यानुवृत्त्या निर्विशेषं भावमत्यन्तान्यत्ववादिनस्ते दोषं ब्रूमः-यदि स्याद्भावो विशेषरहितस्ततो निरवशेषविशेषाभावेऽपि खपुष्पादावनुप्रवृत्तिरूपं स्यात्, भावत्वात् घटादाविव, अनिष्टचैतत् ।
5
अथोच्येतैतद्विशेषप्रधानमन्यत्वं मा भून्नाम, तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् दृष्टो हि विशेषो भावविना भूतोऽपि यथा भिन्नो घट इति, अत्रोच्यते भावविषय एवैष भेदोपचारः, भिदिक्रियाविशेषणविशिष्टावस्था तु भावस्यैव मृत्पिण्डशिवकादिभवनानुविद्धस्य, नाभावस्य खपुष्पादेः ।
"
अथोच्येतेत्यादि, उक्तदोषभयात् सामान्यस्य विशेषेण सहान्यत्वमित्येतद्विशेषप्रधानमन्यत्वं 10 मा भून्नाम, तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात् दृष्टो हि विशेषो भावविनाभूतोऽपि, विशेष एव भावरहितः क दृष्ट इति तद्दर्शयति-यथा भिन्नो घट इति, भेदो हि घटस्य प्रध्वंसाभावो विनाशपर्यायः, स च विशेषो भावादत्यन्तविलक्षगो दृष्टश्वातोऽन्यत्वं विशेषस्य भावादिति, अत्रोच्यते-भावविय एवैष भेदोपचारो भिदिक्रियाविशेषणविशिष्टावस्था तु भावस्यैव घटाख्यस्य, अविच्छिन्नमृत्पिण्डशिवकादिभवनानुविद्धस्योत्पन्ननवमध्यमपुराणविशरणावस्थाक्रमेणावयवसंघातक्रमेण जनितात्मलाभस्य, अयमपि
www.ww
wwwww
15 स्यात् ? न हि भावे एकस्मिन् सा घटते तस्माद्विशेषात् पृथग्रूपमाख्यातुमशक्यमेवेत्याह- तथा कुतो विशेषमिति, विनेत्यनेन सम्बद्ध्यते। विशेषरहितानुवृत्तिस्वरूपभावमात्राभ्युपगमे दोषमाह-यदि स्यादिति, विशेषादत्यन्तं भिन्नोऽनुप्रवृत्तिस्वरूपो भावो यदि स्यात्तर्हि घटपटादावत्यन्तं भिन्ने पृथिवी पृथिवीत्येवमनुप्रवृत्तिर्यथा भवति तथैवाशेषविशेषविनिर्मुक्ते खपुष्पादावपि पृथिवी पृथिवीत्येवमनुप्रवृत्तिर्भवेत्, न चैषाऽभ्युपगम्यत इति भावः । तदेवं सामान्य निरूपितान्यत्वे विशेषस्य प्रधानस्य दोषमुपदर्य विशेषनिरूपितान्यत्वे सामान्यस्य दोषमभिधातुं शङ्कते अथोच्येतेति । ननु लोके भिन्नो घट इति व्यवहारो दृष्टः, तत्र भेदो विनाशः प्रध्वंसा20 भावरूपः, तथाविधो विशेषो भावादत्यन्तं विलक्षणः, विनाशात्मकत्वात्, तस्माद्भावरहितस्यापि विशेषस्य दृष्टत्वात् सामान्येन सहान्यत्वं विशेषस्य स्यादित्याशयं स्फुटीकरोति-उक्तदोषभयादिति, पृथग्रूपाख्यानाशक्यत्वादिदोषभयादित्यर्थः । अभ्युपेयमंशमाह - तथापि विशेषस्येति । भावविना भूतविशेषदर्शनमुपदर्शयति- दृष्टो हीति । निदर्शनमाह-यथा भिन्नो घट इति । व्याकरोति-भेदो हीति, भेदः विनाशः प्रध्वंसाभावः, अयं विशेषोऽभावरूपो घटाख्याद्भावादत्यन्तविलक्षणो दृष्ट इत्ययं विशेषो भावविनाभूत इति भावः । घटस्यावस्थाविशेषो मेदशब्देनोपचर्यते, न त्वभाव इत्याशयेन समाधत्ते - भावविषय इति, भाव25 विषये एव भेदस्योपचारः, विदारणक्रियाविशिष्टावस्थाविशेषो भावस्य घटादेः घटो ह्यविच्छेदेन मृत्पिण्डशिवकस्थासकको शकादिभवनेनानुविद्धः उत्पन्नोऽपि नवमध्यमपुराणविशरणावस्थाक्रमेण नवीनो भवति मध्यमो भवति पुराणो भवति विशीर्यते कपालो भवतीत्थमवयवानामुपचयापचयप्रबन्धेनात्मलाभमनुभवत्यनुक्षणम् एवञ्च तस्य घटस्य यः कपालावस्थाविशेषः स एव भेद इत्युपचर्यते घटो ह्यणुसमूहात्मा, अणवश्च न विनश्वराः केवलं तेषां संघातविशेषेण परिणामेन घट उत्पन्न इति तेषां विसंघात - परिणामेन विनष्ट इत्युपचर्यत इति भावस्यैव भेदोपचारविषयः कपालावस्थालक्षणो विशेष इति न भावविना भूतो विशेष इति भावः । 30 घटस्याविच्छेदेन भेदनक्रियाविशिष्टा अवस्था दर्शयति- अविच्छिन्नेति-घटप्राक्कालीना अवस्था एते । घटस्य वर्तमानकालजा
१ सि. क्ष. छा. डे. 'रूपस्याभावत्वात् । २ सि. क्ष. छा. डे. गृहान्य० । ३ सि. क्ष. छा. डे. भूवन्नाम । ४ सि. क्ष. छाडे. सहमन्य० । ५ सि. क्ष. छा. डे. 'विशेषेण विशिष्टात्तस्थानुभाविनो भावस्यैव 1
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org