________________
उपचारनिराकृतिः] द्वादशारनयचक्रम्
१०३१ कपालावस्थाविशेषः, तस्मादविनश्वराण्यादिपुद्गलसङ्घातविसङ्घातविषयपरिणामत्वादुत्पन्नो विनष्ट इत्याद्युपचारो भावस्यैव, नाभावस्य खपुष्पादेः सम्भवति ।
यदि मन्येथाः भावे भेदोपचार इति स भावादन्यत्वे खपुष्पवन्नैव स्यात् , न भिन्न इति उत्पन्न इति वोपचर्येत, अभावत्वात् खपुष्पवत्, अत एव च तत्सिद्धिः, भिन्नसमानाधिकरणस्य मुख्यमूलत्वात् , भिन्नो घट इति घटेन समानाधिकरणो भेदोपचारो गौणो मुख्यं भेदमनुप्र- 5 वृत्तिसहचरितमवस्थाविशेष भावस्यापेक्ष्य विनष्टेऽपि क्रियते, अभिन्न एव वा भावे कपालाद्यवस्थायां भेद उपचर्येत स्तिमितसरःसलिलवदनुत्पादव्ययत्वाद्भावस्य, विशिष्यते विशेष इति सतो विशेषत्वात् तदपेक्षत्वाच्च, पूर्वोक्ताच्च तद्वत्तित्वाच्च ।
(यदीति) यदि मन्येथा भावे भेदोपचार इति स भावादन्यत्वे खपुष्पवन्नैव स्यात् , न भिन्न उत्पन्न इति वोपचर्येत घटः, अभावत्वात् [अ] विशेषत्वात् खपुष्पवत् , किश्चान्यत्-अत एव तत्सिद्धिः, 10 अवश्यश्चैतदेवं भावविषय एवैष भेदोपचारः, भेदोपचारादेव भेदसिद्धिः भावादेव वा भेदोपचारसिद्धिः, किं कारणं ? भिन्नसमानाधिकरणस्य मुख्यमूलत्वाद्गौणस्य, भिन्नो घट' इति घटेन समानाधिकरणो भेदोपचारो गौणो मुख्यं भेदमनुप्रवृत्तिसहचरितं अवस्थाविशेषं नवतरुणमध्यजीर्णादिकं सर्पस्येव स्फटाटोपकुटिलगतिकुण्डलप्रसृतदीर्घत्वावृत्त्याद्यवस्थाविशेषं भावस्यापेक्ष्य विनष्टेऽपि भिन्न इत्युपचारः क्रियते, गौणस्य मुख्यमूलत्वात् , अभिन्न एव वा भावे कपालाद्यवस्थायां भेद उपचर्येत, स्तिमितसरःसलिलवदनुत्पादव्ययत्वा- 15 द्भावस्य पुरुषकालादिकारणमात्रस्य, किश्च विशिष्यते विशेष इति सतो विशेषत्वात्तदपेक्षत्वाच्च-विशिष्यते
mmmwwwm
अवस्था दर्शयति उत्पन्नेति । अयमपीति-भेदोऽपीत्यर्थः । उत्पादविनाशोपचारमाह-तस्मादविनश्वरेति, अविनश्वराणामण्वादीनां ये पुद्गलास्तेषां संघातविषयपरिणामे उत्पन्न इति विसंघातविषयपरिणामे विनष्ट इत्युपचारः परिणामश्च भावरूपः, तत्रैवोपचारस्य कर्तुं शक्यत्वान्नाभावे खपुष्पादिरूप इति भावः । ननु भावेऽवस्थाविशेषे य उपचर्यते तेन तदन्येनैव भाव्यमिति भावविनाभूतविशेषसिद्धिरित्याशङ्कते-यदि मन्येथा इति । उत्तरयति-स भावादिति, येनोपचर्यते स यदि भावादन्यः 20 स्यात्तदा स न स्यात् खपुष्पवत्, प्रयोगश्च भिन्न इति उप्तन्न इति वा घटो नोपचर्येतेति दर्शयति-न भिन्न इति । नन्वभावत्वं घटस्य कथमित्यत्राह-अविशेषत्वादिति, विशेषरहितत्वादित्यर्थः । नन्वसत उपचारो न सम्भवति, भेदोपचारश्च क्रियते, अत एव च भेदो भावात्मा सिद्ध्यतीत्याह-अत एवेति । भेदोपचारो भावविषय एव, अभावस्योपचारासंभवात् , भेदोपचारश्च क्रियतेऽतो भेदसिद्धिरित्याह-अवश्यमिति । भेदसिद्धौ भेदोपचारः, भेदोपचाराच्च भेदसिद्धिरित्यन्योन्याश्रयवारणायाह-भावादेव वेति, मेदो यदि भावः मुख्यः स्यात्तदैव तत उपचारो भेदस्य स्यात् , प्रसिद्धस्यैवोपचारविषयत्वादिति भावः। 25 तदेव कारणमाह-भिन्नेति, भिन्नं यद्वस्तु तेन समानाधिकरणो यः गौणः स मुख्यमूलः, मुख्यमपेक्ष्यैव भवति मुख्यश्च भेदोऽनुप्रवृत्तिसहचरितोऽवस्थाविशेषः, यथा घटस्योत्पन्नस्य नवत्वतरुणत्वमध्यत्वजीर्णत्वाद्यवस्थाः सर्वास्ववस्थासु घटस्यानुवर्तनात, अनुप्रवृत्तिसहिताः, यदा च घटः कपालावस्थां याति तदा घटस्य ता एव मुख्या भेदरूपा अवस्था अपेक्ष्य भिन्नो घट इत्युपचयेते, मुख्याभावे उपचारासम्भवादिति भावः। तदेवं रूपान्तरापन्ने मेदोपचारमुपदर्य कारणमात्रे उपचार दर्शयति-अभिन्न एव वेति, पूर्व घटः कपालतां गत इति घट एव नास्ति किन्तु कपाले उपचारः, सम्प्रति कपालावस्थावति भावेऽन्वयरूपेऽनुत्पादव्यये 30 कारणे उपचार इति विशेषः । विशिनष्टीति विशिष्यते इति वा यथाविवक्षं कर्तृकर्मव्युत्पत्त्या विशेषो भावस्यैव, तथा स तस्माद्विशिष्यते तेन वा विशिष्यते तस्मै विशिष्यत इत्येवं भावापेक्षत्वाच्च न भावादन्यो विशेष इत्याह-किञ्च विशिष्यत इति । भावा
१ सि.क्ष. छा. डे. भावादभेदो०।
द्वा० न० ५ (१३०)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org