________________
१०३२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमभङ्गारे
wwwwwwwm
स तस्मात्तेन वा स इत्यादिनाऽविशिषन्नविशिष्यमाणो वा न विशेष एव कारकाणामेव कारकत्वादित्यादिग्रन्थेन पूर्वोक्ताच्चेत्यतिदिशति, किञ्च तद्वृत्तित्वाच्च, पूर्वोक्ताश्चेति वर्त्तते, विशेषवृत्तित्वाद्भावस्य विशेषस्वात्मवन्न विशेषेभ्योऽन्यत्वम् तथा भाववृत्तित्वाद्वा भाव[ स्वात्म ] वद्विशेषस्य भावान्नान्यत्वं तद्वृत्तित्वञ्चानयोरतीतन्यायेन सुभावितम्, घटपटादिभावानुवृत्तिरूपत्वेऽपि पृथगनिर्देशरूपत्वात् ।
स्यान्मतमन्त्यविशेषस्तु परमाणुष्वन्यप्रत्ययहेतुत्वात् व्यावृत्तिरूप एवेति चेन्न यत् — भावादन्त्य विशेषस्तु नैव पृथग्भूतः, विशेषत्वात् घटवत्, यदा चायं भावाव्यतिरिक्तो न कदाचिदप्यभावो भवति खपुष्पवत्, ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, न, अविशेषात् भावस्यात्मलाभाभावादभावत्वापत्तेरुक्तत्वात्, यदपि च भावो विशेषेण सह भवति न विशेषः, विशेषो भावेन सह, न भाव इति सहासहवृत्तिभेद उच्यते स चासिद्धः, सिद्धे 10 ह्यन्यत्वे सहासहभवनं द्विष्ठत्वात् तथापि कथञ्चिदन्यत्वमभ्युपगम्यापि त्वन्मत्या यदन्यत् तदन्यदिति न वक्तव्यम्, अन्यत्वात् हस्तादन्यानन्यदेवदत्तवत् यावद्रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति ।
"
5
www
Jain Education International 2010_04
wwwwwww
(भावादिति ) भावार्दन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वाद्घटवत् यथा घटो विशेषो भावात्मकः तद्वृत्तित्वात् स्वात्मवत् भावादपृथग्भूतः तथाऽन्त्यविशेषोऽपि तद्व्याचष्टे यदा चायमित्या [दि] न 15 कदाचिदप्यभावो भवति, खपुष्पवदिति वैधर्म्यदृष्टान्तः, भावाव्यतिरिक्तविशेषोपलब्धेर्भावाद्विशेषस्यान्यत्वं व्यावृत्तमतोऽसिद्धमन्यत्वमित्युपनयः, अत्राह - ननु यदैव सामान्यमविशेषं तदैवान्यत्वम् - ननु भावोऽनुवृत्तिलक्षणोऽनिराकृतसर्वघटपटादिविशेषो न क्वचित् कुतश्चिद् व्यावर्त्तते, अतो विशेषात् परस्परव्यावृत्तिलक्षणाद्विशेषो यद्यन्यस्तर्हि विशेषण क्रियाधारकरणाद्यनुपपत्तिः कारकाणामेव कारकत्वादित्यादि पूर्वोक्तमप्यत्र भाव्यमित्याह - कारकाणामेवेति । पूर्वोक्तं तद्वृत्तित्वमप्यत्र भाव्यमित्याह - किञ्च तद्वृत्तित्वाश्चेति, तस्य वृत्तिः तद्वृत्तिः, सैव वा वृत्तिः तद्वृत्तिः, तद्वृत्ति20 रेव वृत्तिरस्य तद्वृत्तिरिति पूर्वमुक्तम्, भावो न विशेषेभ्योऽन्यः, विशेषवृत्तित्वात्, विशेषस्वात्मवदिति भावधर्मिकः प्रयोगः, विशेष - धर्मिकस्तु विशेषो न भावादन्यः, भाववृत्तित्वात् भावस्वात्मवदिति, भावस्य ह्यात्मा विशेषस्वरूपमेवेति विशेषवृत्तित्वं भावस्य विशेषश्च भावस्य स्वरूपमिति भाववृत्तिः, विशेषो हि भावोपग्रहान्तर्भावित वृत्तिः, भावेनोपगृहीतत्वात्, भावेऽन्तर्भाविता विशेषस्य वृत्तिरित्यादिभावनाऽत्र विज्ञेया । भावनामेव सूचयति तद्वृत्तित्वश्चेति । कथं भावितमित्येतत्सूचयति - घटपटादीति, घटपटादिषु पृथिवी पृथिवीत्यनुवृत्तिलक्षणं रूपं भावस्य विशेषं विना न सम्भवति, अतः पृथगनिर्देशरूपत्वाद्भावस्य रूपं विशेष इति 25 भावः। ननु नित्यद्रव्यवृत्तिः स्वजातीयेतर भेदानुमापको व्यावृत्तात्मा विशेषो योऽन्त्यविशेष इत्युच्यते स व्यावृत्तिमात्रस्वरूपत्वाद्भावादन्य इत्याशङ्कायामाह-भावादन्त्यविशेषस्त्विति । पृथिव्या विशेषो घटादिर्यथा भावान्न पृथग्भूतस्तथा सोऽप्यन्त्यो विशेषो विशेषत्वादेव न भावात् पृथग्भूत इत्याह- भावादिति । संघटयति-यथा घट इति, घटपटादिषु भावस्यानुवृत्तिरस्ति यथा स्वात्मा भावस्य वृत्तिः स्वरूपं भावादपृथग्भूतं तद्वदिति भावः । वैधर्म्य दर्शयति-यदा चायमित्यादीति, विशेषो भाववृत्तित्वादेव न भावव्यतिरिक्तोऽभावो भवति खपुष्पवत् एवञ्च विशेषस्योपलब्धिर्भावाव्यतिरिक्ततयैवेति विशेषाद्भावान्यत्वं व्यावृत्तमतोऽन्यत्वम
30
) सिद्धमिति भावः । ननु यदा समस्तभेदान् परित्यज्य सद्वस्तुमात्रं पदार्थ इति वैकत्वबुद्धिः प्रवर्त्तते तदाऽविशेषं सामान्यमेव तत्र विषयः कस्यचिदप्यव्यावर्त्तनात्तदैव तत्रान्यत्वमस्तीति नासिद्धमन्यत्वमित्याशङ्कते - ननु यदैवेति । अभिप्रायं वर्णयति - ननु भाव इति, अनुप्रवृत्तिधर्मरूपो भावः यदाऽनुप्रवृत्तिरूपतयैवापेक्ष्यते, आश्रयभूतघटपटादिविशेषो न विवक्ष्यते न वा निराक्रियते तदा स भावो न क्वचित् कुतश्चिद्व्यावर्त्तत इति परस्परव्यावृत्तिस्वरूपविशेषादन्यत्वं तस्येति भावः । निर्विशेषसामान्यस्याप्रवृत्ति१ सि. क्ष. छा, डे. भावान्नानात्वत० । २ सि. क्ष. छा. डे. भावादत्यन्तवि० ।
"
For Private & Personal Use Only
www.jainelibrary.org