________________
wwwmwww
अवचनीयतास्थापनम् ] द्वादशारनयचक्रम्
१०३३ दन्य इति सिद्धमित्येतच्च न, अविशेषात्-उक्तं प्रागनेकधा निराकृतसर्वविशेषस्य भावस्यात्मलाभाभावादभावत्वं, अविशेषत्वाच्च खपुष्पवदसतः कुतोऽन्यत्वम् , किञ्च-यदपि च भावो विशेषेण सह भवति, न विशेषः, 'विशेषो भावेन सह, न भाव इति च परस्परं सहासहवृत्तिभेद उच्यते स चासिद्धः, तयोरन्यत्वस्यासिद्धत्वात् , सिद्धे ह्यन्यत्वे सहासहभवनं द्विष्ठत्वात् स्यात् , तत्तु न सिद्धम् , तस्मादयुक्ता सहासहभवनकल्पना, अन्यत्वञ्च तयोरभ्युपगम्यापि ब्रूमः, तथापि कथश्चिदित्यादि यावत् परमाणुवदिति, स एव तुल्यगमो ग्रन्थोऽ- 5 न्यत्वनिषेधार्थोऽन्यदन्यदेवेति न वक्तव्यमिति प्रतिज्ञाय अन्यत्वात् , हस्तादन्यानन्यदेवदत्तवत् , यावद्रूपादिक्षणान्तरान्या[न]न्यपरमाणुवदिति स व्याख्यानोपायप्रदर्शनेन गतार्थः ।
एवमेकत्वान्यत्वयोनिषिद्धयोराह परः
अत्यन्ताभावस्तर्हि तौ, विशेषाविशेषत्वाभावात् खपुष्पवदिति, ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमप्यवचनीयम् , यदि ह्यनुवृत्तिव्यावृत्ती तयोभिन्नव्यवस्थाने न स्यातां ततो 10 रूपादिरपि पृथगेव भावात् प्रवर्तेत व्यावृत्तिरूपरहितत्वात् , भाववत् , भावोऽपि च रूपादेः पृथगेव व्यावर्तेत, अनुप्रवृत्तिरूपरहितत्वात् , खपुष्पवदित्यनुभयताप्यवक्तव्यैव, अनुभयञ्चेन्नारत्युभयमस्तु तर्हि भिन्नव्यवस्थानवृत्तमपि तदेवं नाभ्युपगम्यते ततः सर्वात्मकैकनित्यकालाधन्यतमद्भावतत्त्वमसन्निरुपाख्यञ्चेत्येतदुभयं स्यात् , तच्च न भवति निष्ठितत्वादेषां पक्षाणाम् , अनुभयत्वप्रतिषेधादुभयत्वमिति चेन्न, अन्यत्वावक्तव्यत्वात् , अन्यत्वप्रतिषेध एकत्वमिति चेन्न तस्या- 15 प्यवक्तव्यत्वात् , एकत्वान्यत्वोभयंत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एवेति सर्वथैवावक्तव्यता, द्रव्यगुणकारणकार्यादिष्वप्येवमेवेति स्थितमवचनीयं वस्त्विति ।
(अत्यन्तेति) अत्यन्ताभावस्तर्हि तौ, विशेषाविशेषत्वाभावात् , खपुष्पवत्-भावविशेषयोरविशेषः एकत्वम् , विशेषोऽन्यत्वं तयोः प्रतिषिद्धत्वाद्विशेषाविशेषत्वाभावः, यस्य विशेषाविशेषत्वाभावस्तस्यासत्त्वम् , यथा खपुष्पस्येति, अत्रोच्यते-ननु भिन्नत्यादि, अनुभयत्वमसत्त्वं तदप्यवचनीयम् , कस्मात् ? भिन्नव्यवस्था 20 निबन्धनासत्त्वस्य प्रागनेकधा निरूपितत्वादित्युत्तरयति-अविशेषादिति, अश्मसिकतामृल्लोष्ठवज्रादिघटादिविशेषात्मलाभरहितस्य सामान्यस्य पृथिव्यादेरनात्मत्वात् खरविषाणादिवदप्रवृत्त्याऽभावतैवेति कुतो विशेषादन्यत्वमिति भावः । एवमन्यत्वस्यासिद्धेः भावविशेषयोः सहासहवृत्तिभेदो य उच्यते सोऽप्यसिद्ध एवेति निरूपयति-यदपि च भाव इति, सहासहभावस्य द्विष्टत्वेन भावविशेषयोरन्यत्वे सिद्ध एव तद्भावसम्भवो नान्यथेति भावः । अन्यत्वञ्च त्वन्मत्या तयोरभ्युपगम्याप्यन्यदन्यदेवेति न वक्तव्यम् , अन्यत्वात् , यत्र यत्रान्यत्वं तत्र तत्रान्यदेवेत्यवक्तव्यत्वं दृष्टम् , हस्तपादाद्यवयवान्यानन्यदेवदत्तवत्, एवं हस्ताद्यप्यङ्गुल्या-25 द्यन्यानन्यत्वादन्यदेवेति न वक्तव्यमित्येवं यावत् स्कन्धोऽप्यन्य एवेति न वक्तव्यः, अन्यत्वात् , रूपादिक्षणान्तरान्यानन्यपरमाणुवदित्यन्तं भाव्यमित्याह-अन्यत्वञ्च तयोरिति । तदेवं भावविशेषयोरेकत्वेऽन्यत्वे च प्रतिषिद्धेऽत्यन्ताभाव एव स्यादित्याशङ्कते-अत्यन्ताभावस्तीति । सामान्यविशेषयोरेवं विशेषोऽन्यत्वमविशेष एकत्वमेतदुभयञ्च प्रतिषिद्धमतो विशेषाविशेषत्वयोरभावात्तयोरत्यन्ताभावत्वमेव स्यात्, दृष्टं हि यस्य विशेषत्वमविशेषत्वञ्च नास्ति तस्यासत्त्वम् , यथा खपुष्पस्य, तस्मात्तयोरभावत्वं प्राप्तमिति व्याचष्टे-भावविशेषयोरिति, सामान्यविशेषयोरनुभयत्वपक्षोऽयम् , एकत्वमपि नास्ति, अन्यत्वमपि नास्तीत्यभ्यु- 30 पगतत्वात् । अयमपि पक्षोऽयुक्तः, वस्तुव्यवस्थापकस्य लक्षणस्य सत्त्वात् , अस्ति ह्यनुप्रवृत्तिः सामान्यम्, व्यावृत्तिर्विशेष इति तयोभिन्नं लक्षणमिति कथमभावः स्यादित्याशयेनोत्तरयति-: यादीति । अनुभयत्वं ह्यसत्त्वं तदपि तयोरवाच्यमेव
१ सि.क्ष. छा. डे, विशेषाभावेन सह न भावातौ च परस्परमसहेति वृत्तिभेदः।
www
commmmmwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org