________________
१०३४ न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे नलक्षणत्वात् , यथाऽग्नीन्धनयोर्दहनदाह्यादिव्यवस्थानभिन्ने लक्षणे स्त इत्यनुभयत्वं नास्तीत्युक्तं तथेह भावविशेषयोरप्यनुवृत्तिव्यावृत्तिव्यवस्थानभिन्ने लक्षणे स्त इत्यनुभयत्वमप्यवचनीयं पूर्ववच्च गमनीयमिति, तत्प्रसाधनार्थमाह-यदि ह्यनुवृत्तीत्यादि, अनिष्टापादनोदाहरणे तु विशेष:-ततो रूपादिरपीत्यादि, रूपं विशेषो रसोऽपि प्रवर्तेत पृथगेव भावात्-स्वेनैव रूपेण, व्यावृत्तिरूपरहितत्वात् , भाववत्, भावोऽपि 5 चानुवृत्तिरूपः सन् रूपादेः पृथगेव व्यावर्तेत, अनुप्रवृत्तिरूपरहितत्वात् , खपुष्पवत् , यद्यनुप्रवृत्तिव्यावृत्ती
सामान्यविशेषयोः भिन्नव्यवस्थाने न स्यातां स्यादेष प्रसङ्गः, प्रस्तुते यस्माद्भावो रूपरसादिष्वनुप्रवर्त्तमानो दृश्यते, विशेषश्च रूपरसादिभ्यः परस्परं व्यावर्त्तमानः, तस्मान्नानुभयत्वमप्यस्ति, किन्तु भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु-अन्यत्वमित्यर्थः, एतदनभ्युपगमे दोष उच्यते-भिन्नव्यवस्थानेत्यादि यावदुभयत्वं स्यात् , सर्वात्मकैकभाव एवोभयत्वं स्यादत्यन्ताभावे खपुष्प एव वा, गत्यन्तराभावात् तच्चानिष्टं सर्वात्मकैक10 भावोभयत्वमत्यन्ताभावोभयत्वं वा, अनुभयत्वप्रतिषेधादित्यादि पूर्ववत्तुल्यगमो ग्रन्थो यावत् सर्वथैवावक्तव्यतैवेति दृष्टान्ताग्नीन्धनोपसंहारवद्दार्टान्तिकभावविशेषोपसंहारेण गतार्थः, एवमापाद्यावक्तव्यतां सामान्यविशेषयोरतिदिशति-द्रव्यगुणकारणकार्यादिष्वप्येवमेवेति, एवं हि भवति भवनमग्नीन्धनवदित्युपक्रम्य उभयोः पार्थक्येन व्यवस्थापकलक्षणस्य सद्भावात् , ययोभिन्नव्यवस्थापकलक्षणसत्त्वं तयोरनुभयत्वावचनीयत्वं दृष्टम् , यथाऽग्नीन्ध
नयोः, तयोहि दाह्यत्वदाहकत्वरूपभिन्नलक्षणसद्भावादनुभयत्वावक्तव्यत्वं व्यवस्थापितं तथाऽनुवृत्तिव्यावृत्तिरूपभिन्नव्यवस्थापक15 लक्षणयोः सद्भावात्तयोरनुभयत्वमप्यवक्तव्यमेवेति निरूपयति-अनभयत्वमसत्त्वमिति । यदि तयोभिन्नताव्यवस्थापकं लक्षणं
न स्यात्तर्हि प्रसज्यतेऽनिष्टमित्यनिष्टप्रसङ्गापादनद्वारेण प्रकृतमर्थमनुभयत्वावचनीयंत्वं समर्थयति-यदि हानुवृत्तीत्यादीति। अनुवृत्तिव्यावृत्तिरूपभिन्नव्यवस्थानलक्षणाभाव आपादकः, तयोः प्रवृत्तिसङ्कीर्णता आपाद्या, तत्रोदाहरणं रूपादिविशेषो भावश्च अग्नीन्धनोदाहरणाद्विशेषं दर्शयति-ततो रूपादिरपीत्यादीति, तत्र विशेषो रूपम् , आदिना रसादिरपि ग्राह्यः, अयं रूपादिर्यदि व्यावृत्तिरहितः स्यात् तर्हि भावं विनापि खयमेव भाववत् प्रवर्ततेति प्रवृत्तिसाङ्कर्य बोध्यम् । एवं भावोऽपि यद्यनुप्रवृत्तिरहित20 स्यात्तर्हि रूपादिमन्तरेणापि स्वरूपेणैव व्यावर्तेत खपुष्पवदिति लक्षयति-भावोऽपि चेति । सामान्यविशेषयोरपि स्वकीये लक्षणे
परस्परासङ्कीर्णे यदि न स्याता तह-तरेतरप्रवृत्तिप्रसङ्गदोषः स्यात् परन्तु तथा नास्ति, घटपटादिरूपरसादिषु भावोऽनुप्रवर्त्तमान एव दृश्यते, विशेषश्च घटः पटादिभ्यो रूपं रसादिभ्यः परस्परं व्यावर्त्तमान एव दृश्यतेऽतो भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमपि नास्तीत्याह-यद्यनुप्रवृत्तीति । उभयत्वं भिन्नव्यवस्थानलक्षणमन्यत्वार्थकमाशङ्कते-किन्विति । इदञ्चोभयं भिन्नव्यवस्थान
लक्षणमपि प्रोक्तरूपेणोभयत्वं सामान्यविशेषविषयं नाभ्युपगम्यते किन्त्वन्याहगेव, तच्च सर्वात्मकैकनित्यभूतकालनियतिस्वभाव26 प्रधानपुरुषादिष्वेकं भावतत्त्वं तथाऽसदपोहं निरुपाख्यमवस्तु अत्यन्तासत् खपुष्पादिध्वेकमादायोभयरूपं परिगृह्यते गत्यन्तराभावादित्याह-एतदनभ्युपगम इति, भिन्नव्यवस्थानवृत्तोभयत्वानभ्युपगम इत्यर्थः, ईदृशोभयत्वानभ्युपगमश्चैकत्वान्यत्वानुभयत्वासम्भवस्योक्तत्वादिति । तर्हि कीदृशमुभयत्वमित्यत्राह-सर्वात्मकैकभावेति, सर्वात्मके एकस्मिन् भावे एव कालादिरूपे वृत्तमुभयत्वं अथवाऽत्यन्ताभावे वृत्तमुभयत्वम् सर्वात्मकभावैकघटितमसद्धटितञ्चोभयत्वमिति भावः। तत्र दोषमाह-तच्चानि
ष्टमिति, तथाविधकालादिभावानां पूर्वोक्तभङ्गेषु निरस्तत्वादिति भावः । उभयत्वानुभयत्वयोः परस्परपरिहारस्थितिकतयैकप्रतिषे30 धेऽपरस्यावश्यकत्वादनुभयत्वप्रतिषेधे उभयत्वमवश्यं प्राप्नोतीत्याशङ्कते-अनुभयत्वप्रतिषेधादित्यादीति, तचोभयत्वमन्यत्व
रूपमेव, अन्यत्वन्तु प्राक् प्रतिषिद्धमेव, न चान्यत्वप्रतिषेधे एकत्वं प्राप्नोतीति वक्तव्यम् , तस्यापि निराकृतत्वात् , तदेवमेकत्वान्यत्वोभयत्वानुभयत्वानां प्रतिषेधात् सामान्यविशेषयोरप्रवृत्तेरसत्वात् , असतोश्च प्रधानोपसर्जनभावयोर्भावगतयोरनुपपत्तिरेवेति प्रधानोपसर्जनभावस्याप्यसम्भवाद्वस्तु सर्वथाप्यवक्तव्यमेवेति भावः। तदेवं सामान्यविशेषयोरवक्तत्वापत्तिवद्व्यगुणयोः कार्यकारणयोरप्यवक्तव्यत्वमित्थमेव भाव्यमित्यतिदिशति-एवमापाद्येति । अतिदिश्यमानग्रन्थं सूचयति एवं हि भवतीति अत्रामीन्ध
सि. प्रदर्शित क्ष. प्रवर्शित ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org