________________
एतन्नयस्वरूपप्रदर्शनम्] द्वादशारनयचक्रम्
१०३५ स एव दृष्टान्तो ग्रन्थो यावत् सर्वथाप्यवक्तव्यतैवेति, तस्योपरि योकत्वं गुणस्य द्रव्येण सह नान्यतेत्यादि द्रव्यगुणयोः परस्परेण सहैकत्वान्यत्वानुभयत्वोभयत्वप्रधानोपसर्जनत्वप्रतिषेधेन सर्वथैवावक्तव्यतेत्युपसंहारो यावत्तदशेषो ग्रन्थो योज्यस्तथा कारणकार्ययोरपि पुनः सैव ग्रन्थयोजना, आदिग्रहणात् सर्वगतासर्वगतनित्यानित्यावस्थावस्थावद्भोज्यभोक्त्रादिविकल्पेषु समानः प्रचर्च इति स्थितमवचनीयं वस्तु इति ।
अतोऽन्यथोक्तौ वस्तुविसंवादः, अन्यस्यानन्यत्वेनानन्यस्य चान्यत्वेनावधारणात् , 5 घटपटविपर्ययवृत्तिवदिति।
(अत इति) अतोऽन्यथोक्तौ वस्तु[वि]संवाद इति प्रतिज्ञा, अन्यस्यानन्यत्वेनेत्यादि यावदवधारणादिति हेतुः, घटपटविपर्ययवृत्तिवदिति दृष्टान्तः, यथा घटे पट इत्यवधार्यमाणे पटे च घट इत्यवधार्यमाणे विसंवाद एवमन्यस्मिन्ननन्यत्वेनेत्यादि योज्यम् , एकत्वान्यत्वोभयत्वानुभयत्वान्यतरप्रधानोपसर्जनत्वैरवधार्यमाणं वस्तु विसंवदते परस्पर त] इति वस्तु व्याख्यातम् ।
अयञ्च नयो नियम एव वस्त्वितीच्छति, सामान्यविशेषकत्वान्यत्वैकान्तायतस्ववृत्तेरेव निश्चितनियताधिक्ययमनात् , उक्तविधिना सामान्यविशेषयोरेकत्वेऽन्यत्वे द्वित्वेऽनुभयत्वेऽन्यतरप्रधानोपसर्जनत्वे च निश्चितनियताधिकभावेनायतखवृत्तित्वात् , अवक्तव्यत्वे निश्चितनियताधिकभावेन यतस्ववृत्तित्वात् ।
(अयश्चेति ) नयस्वरूपमुच्यते-अयश्च नियमः-विधिनियमसर्वभङ्गसमूहसम्यक्त्वप्रतिपादनाधिकारे 15 प्रत्येकस्वरूपजिज्ञासायामेष नयो नियम एव वस्त्वितीच्छति, यथावर्णितं नियमशब्दाक्षरार्थं वस्तुना योजयत्यतीतविकल्पवस्तुसम्भवं प्रदर्शयन् , तद्यथा-सामान्यविशेषकत्वान्यत्वैकान्तायतस्ववृत्तेरेव निश्चितनियनदृष्टान्तग्रन्थः सर्वथाप्यवक्तव्यतैवेति ग्रन्थपर्यन्तो दार्टान्तिकग्रन्थश्च यद्येकत्वं गुणस्येत्यादि सर्वथैवाऽवक्तव्यतेत्यन्तो भाव्यः । कार्यादिष्वित्यत्रादिग्रहणग्राह्यानाह-आदिग्रहणादिति । अवक्तव्यत्वनिरूपणमुपसंहरति-इति स्थितमिति । अवक्तव्यमेव
भवति. एतद्विपर्ययेणाभ्युपगमे तु वस्तूनां परस्परतः संवाद एव नश्येदिति नियमभङ्गेन वस्तुव्यवस्था विज्ञेयेति प्रयोगतः खेष्टं 20 प्रसाधयन् वस्तु व्याख्यामुपसंहरति-अतोऽन्यथोक्ताविति। यथा वस्तुस्वरूपमुपपादितं ततोऽन्यप्रकारेण वस्तुखरूपे प्रोच्यमानेन वस्तूनां परस्परं संवादः किन्तु विसंवाद एव भवतीति प्रतिजानीते-अत इति। साधनमाह-अन्यस्यति, अन्यत्वात्मनोऽनन्यत्वेनानन्यत्वात्मनोऽन्यत्वेनोभयत्वात्मनोऽनुभयत्वेनानुभयत्वात्मन उभयत्वेनाप्रधानोपसर्जनभावात्मनः प्रधानोपसर्जनभावेन वाऽवधारणादिति हेतवः। दृष्टान्तमाह-घटपटेति। घटयति-यथेति, यथा घटे पटत्वेनावधार्यमाणे पटे वा घटत्वेनावधार्यमाणे विसंवादः, तथाविधार्थक्रियानुपलम्भात्, एवमन्यस्मिन्सामान्यविशेषादिरूपे वस्तुन्यनन्यत्वे नावधार्यमाणेऽनन्यस्मिन् वाऽन्यत्वेनावधार्यमाणे 25 वस्तु परस्पर विसंवदत्येवेति भावः। एवं वैपरीत्येनैकत्वादिभिरवधारणे परस्परं वस्तुविसंवादो दुर्वार एवेत्साह-एकत्वान्यत्वेति। अथ नयस्यास्य नियमस्य स्वरूपमुच्यते-अयश्चेति । विधिनियमाश्रयद्वादशभङ्गसमूह एव सम्यक्त्वं परिपूर्णमिति प्रतिपादनप्रस्तावे प्रत्येकभङ्गखरूपपरिज्ञानव्यतिरेकेण तदसम्भवात् प्रत्येकनयस्वरूपजिज्ञासायां समुदितायां प्रस्तुतो नयो नियमरूपमेव वस्तु वाञ्छतीति दर्शयति-विधिनियमेति । पूर्वविकल्पेषु प्रतिपादितानां वस्तूनामसम्भवं वर्णयन् नियमशब्दार्थानुसारेण वस्तु प्रदर्शयतीत्याहयथावर्णितमिति । निश्चितो यमोऽधिको वेति नियम इति वर्णितमित्यर्थः। पूर्वविकल्पेषु सामान्यविशेषयोरेकान्तेनैकत्वमन्यत्व-30 मुभयत्वमनुभयत्वमन्यतरप्रधानोपसर्जनत्वं वा वर्णितम् , किन्तु तत्तद्रूपेण वस्तु न वर्तते निश्चितनियताधिकभावेन यतत्वाभावादतस्तथाविधायतखवृत्तेरेव वस्तुनोऽयं नयो निश्चितनियताधिकभावेन यमयति, नियमात्मकवस्त्वभ्युपगमादित्याह-तद्यथेति। नियम
१ सि. क्ष. छा. डे. विपर्ययाचवृ० । २ सि. क्ष. छा. डे. ऐवमन्यत्वमनत्ववैनेत्यादि । x x छा० । ३ सि.क्ष. छा. डे. 'वस्तुसंभ० । ४ सि. क्ष. छा. डे. °यतः स्व० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org