________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमभङ्गारे
ताधिक्ययमनात् यमेर्निपूर्वस्य घञि प्रादिसमासे निश्चितो यमो नियमोऽधिको वा नियमः कस्मात् ? उक्तविधिना सामान्यविशेषयोरेकत्वेऽन्यत्वे द्वित्वेऽनुभयत्वे ऽन्यतरप्रधानोपसर्जनत्वे चायत स्वर्वृत्तित्वान्निश्चि तनियताधिकभावेन, अवक्तव्यत्वे निश्चितनियताधिकभावेन यतस्ववृत्तित्वाद्यथार्थनिर्यमसंज्ञोऽयं भङ्गः । एवं वस्तुतोऽक्षरार्थतश्च नियमस्वरूपमुक्त्वा शब्दार्थमाह
^^^www.
अत्र चाभिजल्पः शब्दार्थः प्रागेवोक्तः, आह हि - " शब्दो वाऽप्यभिजल्पत्वमागतो याति वाच्यताम् । सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ तयोरपृथगात्मत्वे रूढैरव्यभिचारिणि । किञ्चिदेव कचिद्रव्यं प्राधान्येनावतिष्ठते ॥ " ( वाक्य० कां० २ श्लो० १३० - १३१ ॥ ) इति सोऽयमित्येकी कृतत्वाच्छब्दरूपस्यार्थेनान्यत्वमवक्तव्यमित्युक्तम्भवति, द्विष्ठत्वादेकीकरणस्यैकत्वमवक्तव्यमित्युक्तम्भवतीति, शेषमभ्यूह्यम्, 10 स शब्दार्थः, पदसंघातो वाक्यम्, देवदत्त ! गामभ्याज शुक्लामिति प्रत्येकवृत्तिसामान्यविशेषैकत्वान्यत्वानेकार्थस्यत्वादवक्तव्यः तदर्थ इति दिकू, एवं च कृत्वा यदप्युक्तं 'सामान्यार्थ - स्तिरोभूतो विशेषो नोपजायते । उपात्तस्य कुतस्त्यागो निवृत्तिः क्वावतिष्ठतामिति ( वाक्यप० कां० २ श्लो० १५) तदपि प्रत्युक्तमेव, यथाविचारितनिश्चितमवक्तव्यं वस्त्विति, एवमेव 'नामस्थापनाद्रव्यवाच्येष्ट|करणाद्भावयुक्तवाची शब्द इति शब्दनयमतं युज्यते, यदवक्तव्यमिति 15 पर्यवणमात्रमाह, सामान्यविशेषैकत्वान्यत्वानेकात्मकस्य वस्तुनो वाचा वक्तुमशक्यत्वात् ।
wwwwww
( अत्र चेति) अत्र चैवंविधभावनायामभिजल्पः शब्दार्थः प्रागेवो[क्तो ] ऽभिजल्पः शब्दार्थः प्रासङ्गिको व्यक्त्यादिवस्तुप्रत्याख्यानप्रसङ्गेनोक्त इति न पुनर्व्याख्यायते, तत्सूचनार्थन्त्वाह६- आह हीत्यादि तल्लक्षणकारिकाः सूचयंस्तमेव ग्रन्थं समर्थयति - ' शब्दो वाप्यभिजल्पत्वमागतः' इत्यादि द्व्यर्धकारिकया शेषमभ्यूह्यमित्यादि, कथं पुनस्तेन ग्रन्थेनावक्तव्यतोक्तेति चेत्तत्प्रदर्शनार्थमाह-सोऽयमित्येकीकृतत्वात् 20 शब्दरूपस्यार्थेन–सोऽयमित्यभेदसम्बन्धवशेनैकीकृतं यदेति वचनादन्यत्वमवक्तव्यमित्युक्तं भवति, अर्थेनेत्येकत्वं-शब्दभिन्नेनार्थेनैकीकरणं द्विष्ठत्वादेकीकरणस्यानेकमेकं क्रियते, शब्दरूपमर्थेनेति वचनादेकत्वमवक्तव्यमित्युक्तं भवति, एताभ्यामेव युक्तिभ्यामुभयत्वमनुभयत्वं प्रधानोपसर्जनते चावक्तव्यानीति शब्दनिष्पत्तिमाह-यमेर्निपूर्वस्येति । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' इति वार्तिकेन बहुव्रीहिसमासः, नियम्य नियमः 'कुगतिप्रादयः' इति समासो वा । उक्तविधिनेति एतन्नयोपदर्शितप्रकारेण सामान्यविशेषयोरेकत्वाद्यभ्युपगमे वस्तुनः 25 स्ववृत्तित्वं निश्चितनियताधिकभावेन नैव यतम्, अवक्तव्यत्वे चैकत्वादेर्निश्चित नियताधिकभावेन वस्तु यतस्ववृत्ति भवतीति नियम - संज्ञाऽस्य भङ्गस्यान्वर्थेति भावः । अथात्र नये शब्दं निरूपयति-अत्र चेति । इत्थमवक्तव्यत्वनियमभावनायाः प्रागुदितोऽभिजल्परूपः शब्दार्थोऽत्राभिमत इत्याह-एवंविधभावनायामिति । शब्दार्थो व्यक्तिर्वा जातिर्वा जातिमान् वेत्यादिशब्दार्थविचारे व्यक्त्यादीनां निराकरणप्रसङ्गे प्रागुक्तोऽभिजल्पः सोऽत्र शब्दार्थो भाव्यः, तत्स्वरूपञ्च तत्रैवोदितं न पुनरत्रोच्यत इत्याह-व्यक्तयादीति । तत्सूचिकाः वाक्यपदीयकारिका दर्शयति-आह हीत्यादीति । शब्दो वेति, अभिजल्पतामुपगतः शब्दो वाच्यतां प्राप्नोतीति तदर्थः । 30 तद्भन्थस्यावक्तव्यतैवाभिमतेत्याह- सोऽयमितीति, भिन्नयोः शब्दार्थयोः सोऽयमित्यभेदसम्बन्धेन शब्दस्यार्थेनैकीकरणं यदा तदाऽभिजल्पत्वं प्राप्नोतीति वचनेनैकीकरणादन्यत्वावक्तव्यता, शब्दभिन्नेनार्थेन शब्दस्यैकीकरणादेकत्वावक्तव्यता प्रतिपादिता भवति, एकीकरणं हि एकत्वेनाभूतस्य तद्भावकरणम्, अनेकेषामेकत्वकरणं तचैकीकरणमेकस्य न सम्भवति, द्विष्ठं हि तत्तत एकत्वमवक्त१ सि. क्ष. छा. डे. 'स्वावृत्ति० । २ सि. क्ष. छा. डे. 'नियतमसं । ३ सि. क्ष. छा. डे. समर्पयति ।
5
१०३६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org