________________
अस्य पर्यवास्तिकता] द्वादशारनयचक्रम्
१०३७ ज्ञेयानि, स शब्दार्थः स एष पदार्थः, वाक्यार्थस्तर्हि कः ? वाक्ये ज्ञाते वाक्यार्थो ज्ञायत एवेत्याह-[पद]संघातो वाक्यम् , वर्णसंघातः पदम् , एकाक्षरस्यापि स्वरव्यञ्जनसंघातत्वात् , पदसंघातो वाक्यं कस्मादिति चेदुच्यते देवदत्त ! गामभ्याज शुक्लामिति प्रत्येकवृत्तिसामान्यविशेषैकत्वान्यत्वानेकार्थस्थत्वात्यस्माद्देवदत्तादीनि पदा[न्य]र्थसामान्ये प्रत्येकं वर्तमानानि विशिष्टसंसर्गे अर्थे वर्तन्ते स वाक्यार्थः, यथोक्तं 'सामान्यवर्तिनां पदानां विशेषेऽवस्थानं वाक्यार्थः,' ( ) तयोश्च सामान्यविशेषयोरेकत्वान्यत्वोभय- 6 त्वाद्यनेकात्मकार्थत्वस्यावचनीयत्वेन परिग्रहादनेकार्थे स्थितः शब्द एकरूपेणावधारयितुमशक्यत्वादवक्तव्यः तदर्थ इति, एवञ्च कृत्वा यदप्युक्तं 'सामान्यार्थस्तिरोभूतो विशेषो नोपजायते । उपात्तस्य कुतस्त्यागो निवृत्तिः कावतिष्ठताम् ॥' (वाक्यका० २ श्लो० १५) इति तदपि प्रत्युक्तमेव, यथाविचारितनिश्चितमवक्तव्यं सर्वथा वस्त्विति, दिक्प्रदर्शनमात्रेण शब्दोऽर्थप्रत्यासत्त्या विज्ञानाधानमात्रेण ब्रवीतीत्युच्यते, एवमेवेति, यदपि लक्षणकारेण शब्दनयलक्षणमुक्तं नामस्थापनाद्रव्यवाच्येष्टाकरणाद्भावयुक्तवाची शब्दः' ( ) 10 इति, भावः पर्यायो नियमो गुणो वा तद्युक्तवाची-तद्युक्तमर्थं ब्रूते शब्द इति शब्दनयमतं तदप्येवं युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह, सामान्यविशेषकत्वान्यत्वानेकात्मकस्य वस्तुनो वा वक्तुमशक्यत्वात् ।
शब्दनयदेशत्वात् पर्यवास्तिक एषः, किं कारणं भावयुक्तवाचित्वे पर्यायग्रहणम् , न सामान्यग्रहणमिति चेदुच्यते भुवो भिन्नधात्वर्थवाचित्वात् , न सत्तैव भूः, पर्यवति भवतीति व्यमित्युक्तं भवतीति भावः । आभिरेव युक्तिभिरुभयत्वस्यानुभयत्वस्य प्रधानोपसर्जनतायाश्चावक्तव्यतो त्याह-एताभ्यामेवेति, 15 एकीकरणतद्विष्ठत्वरूपयुक्तिभ्यामित्यर्थः। वाक्यार्थप्रतिपादनार्थ वाक्यं प्रथमतो दर्शयति तज्ज्ञानाधीनज्ञानविषयत्वाद्वाक्यार्थस्येत्याहवाक्ये ज्ञात इति। एकाक्षरस्यापि वर्णसंघातलक्षणं पदत्वमस्तीत्याह-एकाक्षरस्यापीति, कादेरपीत्यर्थः। पदसंघातस्य वाक्यत्वं समर्थयति-पदसंघात इति, प्रत्येकमर्थे वर्तमानानां पदानामनेकात्मकेऽर्थे विशिष्टसंसर्गरूपे स्थितत्वात् पदसंघात एव वाक्यमित्यर्थः । तदेवाह-प्रत्ये प्रत्येक वृत्तिर्येषां तेषामनेकस्वरूपेऽर्थे स्थितत्वादित्यर्थः । देवदत्त ! गामभ्याज शुक्लामित्यादौ देवदत्तादिपदानि पृथक पृथक् स्वस्वार्थेषु वर्तन्ते, आकांक्षादिसहकृतानि विशिष्टसंसर्गेऽर्थे च वर्तन्ते इत्याह-यस्माहेवदत्तादी-20 नीति विशिष्टः संसर्गो वाक्यार्थः, विशिष्ट संसर्यों वा वाक्यार्थः, अयमेव वाक्यार्थोऽत्राभिप्रेतः, पदैः सामान्येन प्रतीयमानानामर्थानां वाक्येन विशिष्टेऽर्थेऽवस्थापनात्, एवञ्च वाक्यार्थो विशेषः पदार्थः सामान्यमिति भावः । विशेषो वाक्यार्थ इत्यत्र परसम्वादं दर्शयति-यथोक्तमिति, वाक्यं निरंशमनेकरूपञ्च, अत एव वाक्यं तदर्थश्च विशेषः, पदं हि सर्ववाक्येषु समानरूपमतः पदं पदार्थश्च सामान्यरूपः स एव वाक्येषु सन्निपतितस्तद्वाक्यगतविशेषस्वीकाराद्विशिष्टार्थव्यवहारावसानं पदं जायत इति भावः। वाक्यस्य पदसंघातरूपत्वेन विशेषत्वात् पदवाक्यतदर्थयोश्च सामान्यविशेषयोरेकत्वान्यत्वाद्यवचनीयतयाऽनेकार्थे वर्तमानोऽपि शब्द 26 एकरूपेणावधारयितुमशक्यत्वादवक्तव्यस्तदर्थोऽपीत्याह-तयोश्चेति, एवञ्च पदं पदार्थः, वाक्यं वाक्यार्थश्चावक्तव्य एवेति भावः। अत्र वाद्यन्तरोक्तदोषनिराकरणायाह-एवञ्च कृत्वेति, सम्यविचार्य वस्त्ववक्तव्यमिति निश्चितत्वादेवेत्यर्थः । अत्र वाक्यपदीये कां०३ पृ. ३८२, ४८८ कारिकेत्थं दृश्यते 'सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते। उपात्तस्य कृतस्त्यागः (कुतस्त्यागः) निवृत्तः (निवृत्तः) क्वावतिष्ठताम् ॥' इति । दिक्शब्दप्रयोजनमाह-दिकप्रदर्शनमात्रेणेति, अत्र शब्दार्थस्य दिशामात्रमेव सचितम. न विस्तरेण शब्दार्थ उक्तः, तेन बौद्धविशेषः शब्दादुच्चरितादाकारवती बुद्धिरुत्पद्यते, तस्मादर्थप्रत्यासत्त्या बुद्धिजनकः 30 शब्दः. 'विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनय' इत्यङ्गीकारात्, घटादिशब्दादुच्चरितादाकारत्वग्रहस्य प्रत्ययस्य सदैवोपजननात्, एतावतैव शब्दोऽर्थ ब्रवीतीत्युच्यते, न त्वर्थ साक्षाच्छब्द आहेति भावः । लक्षणकारोक्तं शब्दनयलक्षणमाह-नामस्थापनेति । इदमपि लक्षणं भावशब्देनावक्तव्यत्वरूपं पर्यवणं यदाह तदेव युज्यत इति दर्शयति-तदप्येवमिति। नयोऽयं किं द्रव्यार्थे पर्यायार्थे वाऽन्तर्भवतीत्यत्राह-शब्दनयदेशत्वादिति । व्याकरोति-'तस्स उ' इति ननु भावशब्दः सामान्यपरः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org