________________
MAMA
१०३८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे भावः, पर्यवणञ्च प्रवेशनम् , परिशब्दः समन्तादर्थः, अवशब्दः प्रवेशार्थः, समन्तात् प्रविशत्येकतामन्यतामुभयतामनुभयताञ्च योऽर्थः स पर्यवः, तत्रास्तीत्येवं मतिरस्येति मूलसंज्ञाऽस्य नयस्य, उपनिबन्धनमस्य 'तदुभयस्स आदिट्टे (भग० श० १२ उ० १० ) इत्यादि ।
(शब्देति) शब्दनयदेशत्वात् पर्यवास्तिक एषः, 'तस्स उ सद्दविकप्पा साहपसाहा सुहुमभेदाः' । इति वचनाच्छब्दनयेऽन्तर्भूतः, किं कारणं भावयुक्तवाचित्वे पर्यायग्रहणं न सामान्यग्रहणम् भावशब्दस्य
सामान्यवाचित्वे इति चेदुच्यते-भुवो भिन्नधात्वर्थवाचित्वात् , भूवादयः सर्वधातवो भ्वार्थाः, भूवादय इतिवदेरौणादिके इप्रत्यये भूवादयः सर्वधातवः, तस्मान्न सत्तैव भूः, भूकृषोः सर्वधात्वर्थवाचित्वात् , पर्यवति भवतीति भावः, पर्यवणश्च प्रवेशनम् , अव रक्षणकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थपाचन
क्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृत्तिष्विति पठितत्वात् , भावः पर्यवः प्रवेशः समन्तादवः पर्यव इति 10 परिशब्दः समन्तादर्थोऽवशब्दःप्रवेशार्थः, तद्वस्तुतो दर्शयति-समन्तात् प्रविशत्येकतामन्यतामुभयतामनुभयतां
च योऽर्थः सपर्यवः, अस्तीत्येवं मतिरास्तिकः, पर्यवे आस्तिकः पर्यवास्तिक इति मूलसंज्ञाऽस्य नयस्य शब्दस्य, किमेताः स्वमनीषिका उच्यन्ते ? उतास्यस्योपनिबन्धनमार्षमपीति ? अस्तीत्युच्यते, उपनिबन्धनमस्य 'तदुभयस्स आदिढे' इत्यादि, 'इमाणं भंते ! रयणप्पभा पुढवी आता ना आता' इति पृष्टे भगवद्वचनं 'गोयमा! अप्पणो आदिढे आया परस्स आदिढे नो आया तदुभयस्स आदिढे अवत्तव्वं आता सिय णो 15 आता सिय' इति, एवमवक्तव्यत्वमात्मानात्मपर्यवाभ्यामादेशे तत्र ज्ञापकं निबन्धनमुच्यते । इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां
सिंहसूरिगणिवादिक्षमाश्रमणद्दब्धायां समाप्तः ॥ तत्कथमत्र भावयुक्तवाचित्वोक्त्या पर्यायमात्रस्य ग्रहणमित्याशङ्कते-किं कारणमिति ।भूशब्दनिष्पन्नो भावशब्दः, भूशब्दार्थश्च सर्वे
धात्वर्थाः, न तु सत्तारूपोऽर्थः, येन सामान्यवाची स्यादित्याशयेनोत्तरयति-भुवो भिन्नधात्वर्थवाचित्वादिति। अत्रायम्भावः, 20 निरंशे वाक्ये पूर्वमेव विशेषविवक्षा, निरवयवेन वाक्येन विशिष्टार्थस्यैव प्रतिपादनात , तद्विशिष्टार्थप्रतिपत्त्यर्थमेवांशांशिभावेनापोद्धारपदार्थः परिकल्प्यते, सामान्यात्मा स एव विशेषो भवति विशेषसम्बन्धे सति, तथा च विशेषसम्बन्धेऽपि सामान्यात्मा पदार्थों न खरूपात् प्रच्यवते, अपि तु तद्विशेष इति, अत एवावतिष्ठते न तु सत्यतः, सामान्येन स्थितानां यदा विशेषेऽवस्थानमुपपद्यते सामान्यवृत्तीनामुच्चरितानां तथा भूतानामेव तिरोभावादुत्तरकालं कोऽसौ विशेषे च तिष्ठताम् ?, न च सामान्यविशेषयोयुगपद्विवक्षा सम्भवति, विशेषविवक्षायां हि सर्वस्मानियमेन सामान्यादवच्छेदो विज्ञायत इत्युपात्तस्य सामान्यस्य त्यागप्रसङ्गः, स च नित्ये शब्दार्थसम्बन्धे न 25 युक्तः तिरोभूतश्च निवृत्तोऽनवधार्यमाणात्मा शब्दोऽन्यस्यापि पदस्य सामान्यनिष्ठत्वात् केनचिदप्यप्रतिपादित विशेषे निर्विषयः क्वावतिष्ठताम् ? तस्माद्विशिष्ट एवार्थों वाक्यादवगन्तव्य इति । कथं सर्वधात्वर्थवाचित्वं भुव इत्यत्राह-भूवादय इति, भुवं वदन्तीति भूवादयः, वदेरौणादिके इञ्प्रत्यये भूवादय इति सिद्ध्यति, तदर्थः सर्वधातवः, तथा च सर्वधात्वर्थत्वं भुवः, न सत्त्व, भूकृजोः सर्वधात्वर्थवाचित्वात् तस्माद्धावः पर्यायवचनः अनेकाभिधानवदिति भावः। भवति पर्यवतीति भाव इति व्युत्पत्त्यापि पर्यवार्थत्वं दर्शयति
पर्यवतीति । पर्यवतीत्यस्य प्रविशतीत्यर्थे प्रमाणतयाऽवधात्वर्थमाह-अव रक्षणेति । तथा च भावशब्दार्थमाह-भावः पर्यव 30 इति । ननु पर्यवति-समन्तात् प्रविशतीत्यर्थे किं प्रविशतीति कर्मापेक्षायां वस्त्वर्थ दर्शयति-समन्तादिति । एतस्य शब्दनयस्य पर्यवास्तिकत्वं कथमित्यत्राह-अस्तीत्येवमिति, यतोऽस्य शब्दनयस्यैकत्वानेकत्वादिषु समन्तात् प्रवेशे मतिरस्ति तत एवायं नयः पर्यवास्तिक इति मूलसंज्ञां लभत इति भावः । आर्ष निबन्धनमस्य नयस्य दर्शयति उपनिबन्धनमस्येति, इयं रत्नप्रभा पृथिवी किमात्मा उत नो आत्मेति प्रश्नस्य प्रतिवचनं भगवतः गौतम ! आत्मन आदिष्टे इयमात्मा, परस्यादिष्टे नो आत्मा, उभयस्यादिष्टे
अवक्तव्यम् , कथंचिदात्मा कथञ्चिन्नो आत्मेति, उभयापेक्षयाऽवक्तव्यत्वादेशादिदं वचनं ज्ञापकमस्येति भावः। 35 इत्याचार्यविजयलब्धिसूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने नवमो नियमभङ्गारः॥
पर्यवत् तस्मात्प्रत्यये ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org